संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथाष्टपञ्चाशत्तमः पटलः| न्यासकथनम् अथाष्टपञ्चाशत्तमः पटलः काकिनीसिद्धिसाधनवर्णनम् श्रीश्वरीकाकिनीध्यानकथनम् न्यासकथनम् अथाष्टपञ्चाशत्तमः पटलः - न्यासकथनम् काकिणीसाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल न्यासकथनम् Translation - भाषांतर मातृकाग्रन्थिनिकरे न्यसेत् पूर्वोक्तनामभिः ।यदुक्तं पूर्वपटले तेषां नामाभिरेव च ॥३२॥विन्यस्य मन्त्रपुटितं मन्त्रन्यासं ततश्चरेत् ।काकिन्या अष्टशक्तिनां न्यासं कुर्यात्ततः परम् ॥३३॥काकजिहवाद्विकाण्डेशी कामाख्या काकिनी ध्वजा ।काकिनी काकमाला च काकचञ्चुप्रकाशिनी ॥३४॥कोकिलाचाष्टशक्तीनां नाम्ना विन्यस्य मस्तके ।कण्ठकूपे न्यसेत्पश्चात् षोडशस्वरसम्पुटम् ॥३५॥ह्रदये विन्यसेन्नाथ कादिद्वादशसम्पुटम् ।मन्त्रं विन्यस्य विधिना नाभौ मन्त्रेण सम्पुटम् ॥३६॥डादिफान्तं तु विन्यस्य बादिलान्तं स्वलिङुके ।मूलाधारे मूलमन्त्रपुटितं वादिसान्तकम् ॥३७॥विन्यस्य व्यापकं न्यासं कृत्वाङानि च बन्धयेत् ।ततः प्राणायाममेकं कृत्वा प्राणान् समाश्रयेत् ॥३८॥ततः स्तोत्रं पठेद्धीमान् तत्सर्वं श्रृणु शङ्कर ।हविष्याशी वशीभूत्वा साधयेदिह सिद्धये ॥३९॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे काकिनीसिद्धिसाधन नामाष्टपञ्चाशत्तमः पटलः ॥५८॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP