संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|अथाष्टपञ्चाशत्तमः पटलः| काकिनीसिद्धिसाधनवर्णनम् अथाष्टपञ्चाशत्तमः पटलः काकिनीसिद्धिसाधनवर्णनम् श्रीश्वरीकाकिनीध्यानकथनम् न्यासकथनम् अथाष्टपञ्चाशत्तमः पटलः - काकिनीसिद्धिसाधनवर्णनम् काकिणीसाधनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल काकिनीसिद्धिसाधनवर्णनम् Translation - भाषांतर अथाष्टसिद्धिमाहात्म्यं श्रृणु श्रीचन्द्रशेखर ।मन्त्रोद्धारं तथा न्यासं कवचाङु तव प्रियम् ॥१॥स्तोत्रं सहस्त्रनामाख्यं साष्टोत्तरमनुप्रियम् ।साकारध्यानमखिलं सालोक्यादिपदप्रदम् ॥२॥यस्य करणमात्रेण सुरो भवति मानुषः ।वृक्षबीजाद् भवेद् वृक्षः श्रद्धयाश्च फलोदयः ॥३॥तथा तथैव मन्त्राणामुदयो बीजयोगतः ।बीजं तु परमं ज्ञानं बीजाधीनं चराचरम् ॥४॥बीजमाश्रित्य सर्वेन्द्राः प्रतिभान्ति महौजसः ।कोटिसूर्यप्रतीकाशाः प्राणस्थाननिवासिनः ॥५॥के चाप्ययुतसूर्याभाः शतसूर्यसमप्रभाः ।केचिद् द्वादशसूर्याभाः को जनश्चैकभासुराः ॥६॥कोपि नाम मुनिर्दीप्तः कोपि चन्द्रसमप्रभः ।कोपि श्रीकान्तिकिरणः शङ्खचक्रगदाधरः ॥७॥एते बीजससमुद्भूता निर्बीजाश्च पञ्चदेवताः ।ब्रह्मविष्णुशिवानन्दभैरवाः प्राणदेवताः ॥८॥ब्रह्मब्रह्मस्वरुपेण श्वासमार्गप्रवेशकः ।विष्णुवैष्णवतत्त्वेन कुम्भकान्तर्गतः प्रभुः ॥९॥शिवः संहारुपेण महाप्रलयगः प्रभुः ।आनन्दभैरवः श्रीमान् मूलज्ञानीपरात्परः ॥१०॥मूलाम्भोजाद् ब्रह्मरन्ध्रं यावत्तत्र प्रवेशिका ।प्राण्विद्यास्वरुपेण बीजरुपा सनातनी ॥११॥सा भाव्या योगिभिर्नित्यं योगाङैरतिभाव्यते ।योगशास्त्रं विना नाथ के जानन्ति महर्षयः ॥१२॥अत्यन्तदुःखसाध्या सा योगिज्ञेयो मनोयवा ।नानारुपा बृहद्रूपा श्वासोच्छ्वासप्रकाशिनी ॥१३॥ह्रदयाम्भोजमध्यस्था ईश्वरस्थानवासिनी ।कालचञ्चुप्रकाशा सा सर्वभूतह्रदिस्थिता ॥१४॥सर्वेषां ज्ञानकर्ती च सर्वानन्दकरी ह्रदि ।सा देवी काकिनी विद्या ईश्वरो परमा कला ॥१५॥विभाव्या कोटिसूर्याभा कोटिचन्द्रसमानना ।तस्या मन्त्रं महामन्त्रं ब्रह्ममन्त्रं हि योगिनाम् ॥१६॥श्रृणुनाथ कुलानन्द भैरव्यादिमनुं मुदा ।एतन्मन्त्रप्रभावेण परात्मानं वशं नयेत् ॥१७॥दीर्घप्रणवमुच्चार्य वामनेत्रं समुद्धरेत् ।मायान्ते वाग्भवं बीजं कामबीजं समुद्धरेत् ॥१८॥कामबीजं तथैश्वर्ये नमोऽन्ते वहिनकामिनी ।एतन्मन्त्रप्रसादेन भवेत् कालवशः क्षणात् ॥१९॥अत्यन्तसुखमाप्नोति भयाज्ञानापहो भवेत् ।कामेन पुटितं मन्त्रं वाग्भवेनापि वा प्रभो ॥२०॥स्वमन्त्रपुटितं कृत्वा सिद्धिः स्यदचिरादिह ।अथान्यमन्त्रं वक्ष्यामि सावधानोऽवधारय ॥२१॥भद्रकालीं समुद्धृत्य किङ्किणीबीजमुद्धरेत् ।बालाबीजं समुद्धृत्य माहेश्वर्यै नमो द्विठः ॥२२॥केवलं मूलमन्त्रेण पुटितं मूलमन्त्रकैः ।पूजयेत् परया भक्त्या ह्रदयाम्भोजमण्डले ॥२३॥अप्रकाश्यमिमं मन्त्रं सर्वतन्त्रेषु गोपितम् ।लक्षजपेन सिद्धिः स्याद् ह्रदयाब्जे स्थरो भवेत् ॥२४॥ द्अकस्माद्दीपकलिकाकारं जीवं प्रपश्यति ।ततो भवेन्महायोगी ईश्वरीमन्त्रसाधनात् ॥२५॥ध्यानं वक्ष्यामि पूजाया गुह्याद् गुह्यतरं परम् ।ध्यात्वा पाद्यादिभिर्नाथ मनः कल्पितपुष्पकैः ॥२६॥पूजयेत्परया भक्त्या मन्त्रध्यानपरायणः ॥२७॥ N/A References : N/A Last Updated : April 30, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP