अथाष्टपञ्चाशत्तमः पटलः - श्रीश्वरीकाकिनीध्यानकथनम्

काकिणीसाधनम्


शशधरशतकोटिश्रीमयूखप्रभायाः
या सुरतरुगुणशोभा निर्मला वेदहस्ता ।
अरुणकिरणभाला हारमाला विलोला
ह्रदयकमलमध्ये श्रीश्वरीं तां भजामि ॥२८॥

एवं सर्वस्वरुपां तां विभाव्य ह्रदयाम्बुजे ।
पुनः पुनः पूजयेद्वै त्रैलोक्योद्भवपुष्पकैः ॥२९॥

अवश्यं सिद्धिमाप्नोति पूजायोगप्रभावतः ।
आयुररोग्यजननं पूजनं सुमहाफलम् ॥३०॥

ततो जपेन्महामन्त्रं वर्ण्मालाक्रमेण तु ।
प्राणायामं ततः कृत्वा न्यसेत् सर्वाङुमध्यके ॥३१॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP