संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुश्चत्वारिंशः पटलः| त्रितत्त्वलाकिनीस्तवनम् चतुश्चत्वारिंशः पटलः मणिपूरचक्रभेदनम् त्रितत्त्वलाकिनीस्तवनम् चतुश्चत्वारिंशः पटलः - त्रितत्त्वलाकिनीस्तवनम् त्रितत्त्वलाकिणीशक्तिस्तवनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल त्रितत्त्वलाकिनीस्तवनम् Translation - भाषांतर शिवां शक्यमाद्यां दशदलगतां रुद्रमहिषींविशालाक्षीं सूक्ष्मां शशियुतजटाजूटमुकुटाम् ।महाविद्युत्कोटिप्रियजदितपीठे त्रिनयनांमहालाकिन्याख्यां दशदल कलां भावयति कः ॥२५॥मृणालान्तर्ध्वन्तः प्रकटतटसंहारसुभगांकुलक्षेत्रोल्लासां चरमपददां दीपकलिकाम् ।सदानन्दाकाराम गतिगुणहरां चारुकिरणांप्रभावर्णश्यामां रुचिरवदनां भावयति कः ॥२६॥प्रतीक्षानन्दाब्धि प्रकटचरणाम्भोजयुगलांवियद्वर्णां कान्ताम सुरवरसुपूजाविधिरताम् ।महासूक्ष्मद्वारप्रचलकरीं भेदनकरींदिवायोगाहलादप्रियजनशिवां भावयति कः ॥२७॥अयोध्यापीथस्थामरुणकमनीं प्रेमगलितांमहरौद्रीं भीमां शतशतरविप्रेमनिकराम् ।महादुःखार्तानां नयनशुभगां भावविरहांसतीं सीतामिन्द्रोत्सवनवघटां भावयति कः ॥२८॥सुधाब्धेराहलादप्रकरणसुरां सौरभकरांक्रियारुपां योग्यां भुवमणिपूरप्रकृतिगाम् ।गुरोः स्थानोद्योगां समनदहनां शीतलवरांत्रितत्त्वां तत्त्वज्ञां स(श)मरहरशक्तिः भजति कः ॥२९॥विकारकाराङी तरुणरविकोटिश्रियमिमांकुलाधारां सारा परमसधारां जयवराम् ।कृपाच्छन्नाकामां परमसभाण्डेषु शुभदांभजेदिन्द्रां रुद्राम शशिमुखकराहलादनिकराम् ॥३०॥रसाब्धौ विश्रान्तिं कुपितजनशान्तिं सकरुणांत्रिलोकज्ञानस्थां मदननिलयां योगनिकराम् ।मणिद्वीपच्छायां दशदलकलां देवलभवांभवानीं रुद्राणीं वरदमणिपूरे भजति कः ॥३१॥कृपाब्धौ किं किं किमनगतसुतां मौलिनमितां शिवाङ्कां मूलस्था सकलमणिपूरस्थिरभवाम् ।हिरण्याक्षीं तक्षां क्षयकरणश्मिच्छविशतांविनोदीं पञ्चास्यप्रियगुणधरां भावयति कः ॥३२॥महापद्माख्यां सकलधनदानाकुलचलांचलानन्दोद्रेक-प्रचयरससिन्धूद्भवह्रदि ।ह्रदानन्दो ध्यायेत् सकलगुणदात्रीं सुखमयीं कलां सूक्ष्मात्यन्तां तिमिरदहनां कोटिधनदाम् ॥३३॥दशकं यः पठेन्नित्यं श्रीविद्या सुखदायिनीम् ।ध्यात्वा ह्रदयपद्माधो निर्मलात्मा सदा पठेत् ॥३४॥मणिपूरस्थितं देवं रुद्रं पश्यति योगिराट् । ट्रुद्राणीसहितं शम्भुं दृष्टवा मुक्तो भवेत् क्षणात् ॥३५॥जीवन्मुक्तः स एवात्मा योगिनीवल्लभो भवेत् ।योगात्मा परमात्मा च स हि साक्षादनीश्वरः ॥३६॥स भित्वा मणि पूराब्धिं निर्मलं ज्योतिज्ज्वलम् ।शम्भोरीश्वरयोगज्ञक्रियानाथस्य श्रीपतेः ॥३७॥निकटे याति देव्याश्च स्थाने योगी न संशयः ॥३८॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे मणिपूरभेदने भैरवीभैरवसंवादे त्रितत्त्वलाकिनीशक्तिस्तवनं नाम चतुश्चत्वारिंशत्तमः पटलः ॥४४॥ N/A References : N/A Last Updated : April 27, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP