संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुश्चत्वारिंशः पटलः| मणिपूरचक्रभेदनम् चतुश्चत्वारिंशः पटलः मणिपूरचक्रभेदनम् त्रितत्त्वलाकिनीस्तवनम् चतुश्चत्वारिंशः पटलः - मणिपूरचक्रभेदनम् त्रितत्त्वलाकिणीशक्तिस्तवनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल मणिपूरचक्रभेदनम् Translation - भाषांतर आनन्दभैरवी उवाचमणिपूरविभेदार्थं श्रृणु वक्ष्यामि तत्त्वतः ।यं ज्ञात्वा मूढलोकाश्च प्रविशन्ति महाघटे ॥१॥अमूढत्वं प्राप्नुवन्ति प्रविशन्ति योगिनोऽमराः ।खेचरत्वं प्राप्नुवन्ति सांख्ययोगनिषेविणः ॥२॥महापातकमुख्यानां नाशं शीघ्रं महारिपुम् ।कियत्कालेऽनले दोषे जले पर्वतकानने ॥३॥कुर्वन्ति च दिदृक्षूणां देवतावशमेव च ।मणिपूरं महापीठं ध्यायेद् यः प्राणसंयमम् ॥४॥मणिपूरचक्रभेदनम्तथा पञ्चाऽऽसवासिद्धिं कृत्वा विभेदयेत् ।त्रिलोक जननीं सत्यां शिवामाद्यां त्रियोगिनीम् ॥५॥मूलाधारात् समुत्पत्य गच्छन्ती रसषड्दले ।प्रकाशं षड्दलं कृत्त्वा प्रगच्छन्ती प्रभान्विता ॥६॥मणिपूरे महाचक्रे त्रैलोक्यजपसाधने ।सिद्धीनां निलये काम्ये कमनीये मनःप्रिये ॥७॥मनः प्रिया महादेवी सर्वोल्लासनकारिणी ।खेचरी महदानन्दमण्डिता मन्त्रयोगिनी ॥८॥अनुग्रहकारी सिद्धा विभाव्या तत एव हि ।आनन्दघन सन्दोहमात्मज्ञानं सुनिर्मलम् ॥९॥मणिपूरं संविभाव्य किन्न सुद्धयति भूतले ।अणिमा लघिमा व्याप्तिर्महाश्रेष्ठादिसिद्धिभाक् ॥१०॥कौलो वा वार मुख्यो वा ज्ञानी वा साधकोत्तमः ।योगाभ्यासं यः करोति मणिपूरं समाश्रयेत् ॥११॥मणिपूरस्थितं देवं यः स्तौति नियतः शुचिः ।स्तवराजस्य पाठेन प्रबुद्धा कुण्डली भवेत् ॥१२॥सा देवी परमा माया मणिपूरे स्थिता शिवा ।प्रबुद्धां कास्यत्येव ततः सिद्धो भवेन्मनुः ॥१३॥सिद्धे मनौ पराप्राप्तिरिति मे तन्त्रनिर्णयः ।यदि चैतन्यमिच्छन्ति कुण्डलिन्याः पराक्रमम् ॥१४॥जानाति निजदेहे च महोदयमनुत्तमम् ।तेषां चैतन्यहेतोश्च देवतानां कुलेश्वर ॥१५॥महास्तोत्रं समाकुर्यात् प्रत्यहं सिद्धिहेतुना ।सिद्धिकार्यं धर्मकार्यं मणिपूरे समाप्नुयात् ॥१६॥मणिपूर निवासिन्याः भेदनं ज्ञानसाधनम् ।सहस्त्रनानममलं सिद्धिद्रव्यानिरुपणम् ॥१७॥नित्यसिद्धिं काम्यसिद्धिं मणिपूरे समाश्रयेत् ।प्राणबुद्धया स्वेष्टदेवीं पूजयेल्लाकिनीं पराम् ॥१८॥स्वदेवतां पूजयेद् वै मणिपूरे महालये ।मणिपूरस्थितां रौद्रीं महाशक्तिं महोदयाम् ॥१९॥सर्वसञ्चारिणीं योग्यां महायोगिप्रियां पराम् ।निजदेवीपदाम्भोज पूजावत् पूजनं चरेत् ॥२०॥पूजां समाप्य विधिना स्तोत्रं देव्याः समाचरेत् ।तत्प्राणवायुरुपेण सिद्धीना नाशहेतवे ॥२१॥कृतं स्तोत्रं कोटिनाम ब्रह्मणा गुणकात्मना ।तत्सर्वं प्रकरोष्येतत् प्रकारं ज्ञानशङ्कर ॥२२॥एतत्स्तोत्रप्रसादेन योगिनस्ते महौजसः ।अहङ्कारघटी ज्ञानं महाव्याधिनिवारणम् ॥२३॥महास्तवनमेवं हि साक्षादानन्दवर्धनम् ।नय भक्तिप्रदं शुद्धं शुद्धानामप्यगोचरम् ॥२४॥ N/A References : N/A Last Updated : April 27, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP