संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|एकविंशः पटलः| वारिचक्रम् एकविंशः पटलः वीरभावस्य माहात्म्यम् भूमिचक्रम् स्वर्गचक्रम् तुलाचक्रम् वारिचक्रम् एकविंशः पटलः - वारिचक्रम् सिद्धमंत्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वारिचक्रम् Translation - भाषांतर यदि वारिचक्रध्ये स्थानं कुर्वन्ति मानुषाः ।अमराः सत्त्वयोगस्थाः षट्चक्रफल भोगिनः ॥९८॥तच्चतुष्कं समावाप्य वारिव्याप्तं सुनिर्मलम् ।वामावर्तस्थतं ध्यायेत् सप्तख्ण्डं महाबली ॥९९॥सप्तवृतोपरि ध्यायेद् दलषोदशपङ्कजम् ।दले दले महातीर्थं सिद्धो भवति निश्चितम् ॥१००॥तीर्थमालावृत्तं नाथ दलं षोडश शोभितम् ।तदेकपत्र(द्म)मध्ये तु भाति विद्युल्लतान्वितम् ॥१०१॥पूर्वादौ दक्षिणे पातु तीर्थमालाफलं श्रृणु ।येषां दर्शनमात्रेण जीवन्मुक्तस्तु साधकः ॥१०२॥गङा गोदावरी देवी गया गुह्या महाफला ।यमुना कोटिफलदा बुद्धिदा च सरस्वती ॥१०३॥मणिद्वीपं श्वेतगङा महापुण्या महाफला ।श्वेतगङा महापुण्या भर्गगङा महाफला ॥१०४॥स्वर्गगङा महाक्षेत्रं पुष्करं तीर्थपारणम् ।कावेरी सिद्धुपुण्या च नर्मदा शुभदा सदा ॥१०५॥अष्टकोणे अष्टसिद्धिं वारिपूर्णां फलोदयाम् ।सप्तकोणे सप्तसिन्धुं पूर्वादौ भावयेद् यतिः ॥१०६॥लवणेक्षु सुरासर्पिर्दधिदुग्धजलन्तकाः ।सकारं व्याप्य तिष्ठन्ति महासत्त्वं स्मरेद् यतिः ॥१०७॥मध्ये चतुष्के शक्तिञ्च कोटिसौदामिनीतुनः ।विभाव्य वारिचक्रे तु कोटिविद्यापतिर्भवेत् ॥१०८॥शक्तिबीजं वामभागे आद्या प्रकृतिसुन्दरी ।विभाति कामनाशाय योगिनी सा सताङति ॥१०९॥शक्तिबीजं दक्षिणे च पुङ्कला पुशिवात्मकम् ।सदा भावनरुपाभं यो भजेदीशसिद्धये ॥११०॥शक्तिबीजस्योद्र्ध्वभागे पूर्णचन्द्रमनोहरम् ।भजन्ति साधवः सर्वे धर्मकामार्थसिद्धये ॥१११॥शक्तिबीजतले गेहे श्रीसूर्य कालवहिनजम् ।उल्काकोटिसमं ध्यात्वा वाञ्छातिरिक्तमाप्नुयात् ॥११२॥वारिचक्रप्रसादेन चिरजीवी भवेन्नरः ।भूमौ महाकालरुपी मूलाधारे चतुद्र्दले ॥११३॥चतुद्र्दलशेषदले वारिचक्रं सषान्तकम् (?) ।कोटिसौदामिनीभास विभाव्य योगिराड् भवेत् ॥११४॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावार्थनिर्णये पाशवकल्पे मूलपद्मोल्लासे भूमिचक्र-स्वर्गचक्र-तुलाचक्र-वारिचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे एकविंशः पटलः ॥२१॥ N/A References : N/A Last Updated : April 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP