संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|एकविंशः पटलः| भूमिचक्रम् एकविंशः पटलः वीरभावस्य माहात्म्यम् भूमिचक्रम् स्वर्गचक्रम् तुलाचक्रम् वारिचक्रम् एकविंशः पटलः - भूमिचक्रम् सिद्धमंत्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल भूमिचक्रम् Translation - भाषांतर तदधः प्राणनिलयं प्रेतबीजं शशिप्रभम् ।विभाव्य शिवतुल्यः स्याद् भूमिचक्रे सदाशिवः ॥४९॥तदधो वाग्भवं ध्यायेत् कोटिसौदामिनीप्रभम् ।गुरुबीजं भूमिचक्रे महाविद्यागुरुर्भवेत् ॥५०॥दक्षिणे मध्यगेहे च श्रीविद्यानिर्मलं पदम् ।विभाव्य मानसध्यानात् सिद्धो भवति साधकः ॥५१॥तद्दक्षिणे शेषगेहे प्रणवान्तं मनूत्तमम् ।सर्वाधारं ब्रह्मविष्णुशिवदुर्गापदं भवेत् ॥५२॥एतत् श्रीभूमिचक्रार्थं सर्वं चैतन्यकारकम् ।मूलाधारपूर्वदले वकारं व्याप्य तिष्ठति ॥५३॥भूमिचक्रमण्डले तु वकारस्थं स्मरेद्यदि ।ब्रह्माण्डमण्डलेशः स्यादण्डं व्याप्यैकपत्रकम् ॥५४॥तदेकपत्रं पदस्य शोणितं निर्मलधुतिम् ।तन्मध्यान्ते भूमिचक्रे मध्ये वं भावयेद् वशी ॥५५॥एतच्चक्रप्रसादेन वरुणो मदिरापतिः ।अमृतानन्दह्रदयः सर्वैश्वर्यान्वितो भवेत् ॥५६॥ N/A References : N/A Last Updated : April 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP