संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|एकविंशः पटलः| वीरभावस्य माहात्म्यम् एकविंशः पटलः वीरभावस्य माहात्म्यम् भूमिचक्रम् स्वर्गचक्रम् तुलाचक्रम् वारिचक्रम् एकविंशः पटलः - वीरभावस्य माहात्म्यम् सिद्धमंत्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल वीरभावस्य माहात्म्यम् Translation - भाषांतर श्रीभैरव उवाचवद कान्ते रहस्यं मे येन सिद्धो भवेन्नरः ।तत्प्रकार विशेषेण देवानामपि दुर्लभम् ॥१॥वीरभावस्य माहात्म्यम् वीरभावस्य माहात्म्यकस्मात् सिद्धिदायकम् ।करुणादृष्टिरानन्दा यदि चेदस्ति सुन्दरि ॥२॥आनन्दभैरवी उवाचपरमानन्दसारज्ञो योगक्षेत्रप्रपालक।रहस्य श्रृणु मे नाथ महाकालज्ञ भावग ॥३॥योगमार्गानुसारेण वीरभांव श्रयेत कः ।आनन्दोद्रेकपुञ्जं तत् शक्तिवेदार्थनिर्यम् ॥४॥वेदाधीनं महायोग योगाधीना च कुण्डली ।कुण्डल्यधीनं चित्तं तु चित्ताधीनं चराचरम् ॥५॥मनसः सिद्धिमात्रेण शक्तिसिद्धिर्भवेद् ध्रुवम् ।यदि शक्तिर्वशीभूता त्रैलोक्यञ्च तदा वशम् ॥६॥अमरः स भवेदेव सत्यं सत्यं कुलेश्वर ।सहस्त्रश्लोकयोगेन वीरयोगार्थनिर्णयम् ॥७॥पटलैकादश क्षेमयोगेन योगमण्डलम् ।षट्चक्रबोधिनी विद्या सहस्त्रदलपङ्कजम् ॥८॥कैलासाख्यं सूक्ष्मपथं ब्रह्मज्ञानाय योगिनाम् ।कथयामि महावीर क्रमशः क्रमशः श्रृणु ॥९॥वीराणामुत्तमानाञ्च भ्रष्टांना प्रहिताय च ।साक्षात् सिद्धिकरं यद्यत् तत्सर्वं प्रवदामि ते ॥१०॥योगशास्त्र क्रमेणैव यः सिद्धिफलमिच्छति ।स सिद्धो भवति क्षिप्रं ब्रह्ममार्गे न संशयः ॥११॥ब्रह्मविद्यास्वरुपेण जपहोमार्चनादिकम ।कुरुते फलसिद्ध्यै यः स ब्रह्मज्ञानवान् शुचिः ॥१२॥षट्चक्रभेदने प्रीतिर्यस्य साधनचेतसः ।संसारे वा वने वापि सिद्धो भवति ध्रुवम् ॥१३॥षट्चक्रार्थ न जानाति भजेदाम्बिकापदम् ।तस्य पापं क्षयं याति सप्तजन्मसु सिद्धिभाक् ॥१४॥ज्ञात्वा षट्चक्रभेदञ्च यः कर्म कुरुतेऽनिशम् ।संवत्सरात् भवेत् सिद्धिरिति तन्त्रानिर्णयः ॥१५॥प्रस्वेदनं समाप्नोति मासत्रयनिषेवणात् ।अष्टमासात् कल्प(म्प)नाशो वत्सरात् खेचरी गतिः ॥१६॥प्रस्वेदमधमं प्रोक्तं कल्प(म्प)नं मध्यमं स्मृतम् ।भूमेरुत्थापनं नाथ खेचरत्वं महासुखम् ॥१७॥द्वात्रिंशद् ग्रन्थिदञ्च मूलाधारावधिस्थितम् ।मेरुदण्डाश्रितं देशं कृत्वा ब्रह्ममयो भवेत् ॥१८॥सुषुम्ना बाह्मदेशे च यद् यद् ग्रन्थिपदं प्रभो ।क्रमशः क्रमशो भित्वा खेचरो भवति ध्रुवम् ॥१९॥अल्प(न्य)कार्ये दत्वा ध्यानज्ञानविवर्जितः ।उन्मत्तः स भवेदेव शास्त्राणां योगिराड् भवेत् ॥२०॥हिम कुन्देन्दुधवलां बालां शक्तिं महोज्ज्वलाम् ।कलिकालफलानन्दां मूले धात्वा भवेद् वशी ॥२१॥मूलपद्मं(द्मे)महाज्ञानी ध्यात्वा चारुचतुर्दले ।कपिलाकोटिदान्स्य फलं प्राप्नोति योगिराट् ॥२२॥मूलपद्मे कोटिचन्द्रकलायुक्तं सरक्तकम् ।गलत्सुधा रसामोदवदनाब्जं फलं भजेत् ॥२३॥निर्मलं कोटिवीरोग्रतेजस ब्रह्मरुपिणम् ।वामपार्श्वे कुण्डलिन्या विभाव्य शीतलो भवेत् ॥२४॥ततः श्रीयामलं वीरं तदाकारं तदुद्भवम् ।ललाटबहिनजं देव्या नाथं भजति योगिराट् ॥२५॥तत्र पद्मपूर्वदले सिन्धूरारुणविग्रहम् ।वकारं कोटिचपलामालं भजति योगिराट् ॥२६॥तत्पार्श्वे शोणिदले आज्ञाचक्रं मनोरमम् ।यथा ध्यानं कुण्डलिन्या आज्ञाचक्रे तथात्र च ॥२७॥भूमिचक्रक्रमं नाथ श्रृणु शङ्कर योगिनाम् ।यं ध्यात्वा सिद्धिमाप्नोति सिद्धिदं षड्गृहं भवेत् ॥२८॥षड्गृहं त्रिकालागेहमेकत्रस्थं महाप्रभम् ।ध्यायेद् योगिनीगेहं मध्यगेहे रबीजकम् ॥२९॥वकारं दक्षिणे गेहे हेममालिनमञ्जनम् ।डाकिनी परमाबीजं ब्रह्मबीजं विभावयेत् ॥३०॥वकारवामपार्श्वे च योगिनां योगसाधनम् ।सदाशिवमहाबीजं विभाव्य योगिराड् भवेत् ॥३१॥वं बीजं वारुणाध्यक्षं हिमकुन्देन्दुनिर्मलम् ।तद्विष्णोर्जन्मसंस्थान सत्त्वं द्रवमुपाश्रयेत् ॥३२॥तदूर्ध्वपूर्वगेहे च लं बीजमिन्द्रपूजितम् ।विद्युल्लताहेमवर्ण विभाव्य योगिनां पतिः ॥३३॥इन्द्रबीजं दक्षपार्श्वे श्रीबीजं बिन्दुलाञ्छितम् ।स्थिरविद्युल्लतारुमिन्द्राण्याः साधु भावयेत् ॥३४॥तद्वामपार्श्वभागे च प्रणवं ब्रह्मसेवितम् ।विभाव्य कोटिमिहिरं योगिराड् भवति ध्रुवम् ॥३५॥वं बीजाधोमन्दिरे श्रीविद्यायाः बीजतेजसम् ।कोटिसूर्यप्रभाकार विभाव्य सर्वगो भवेत् ॥३६॥निजदेव्या वामाभागे अधः कनकमन्दिरे ।श्रीगुरो रमणं बीजं धात्वा वाग्भवमीश्वरम् ॥३७॥निजदेव्या दक्षपार्श्वे दीर्घप्रणवतेजसम् ।कोटिसूर्यप्रभारुपं धात्वा योगी भवेद् यतिः ॥३८॥निजदेवीं तत्र पद्मे मनः सद्वाक्ययोगकैः ।यथा ध्यानं तथा मौनं ध्यानं कुर्याज्ज्गत्पतेः ॥३९॥ब्रह्मणः पूरकोणैव महायोगक्रमेण तु ।सूक्ष्मवायूद्मेनापि भूमिचक्रे जपञ्चरेत् ॥४०॥चतुष्कोणं धरायास्तु नवभूमिगृहान्वितम् ।अष्टगेहं विभेद्यादौ वसुशून्ये यजेद् यतिः ॥४१॥धराबीजं वान्तवर्णं शक्रेण परिपूजितम् ।विभाव्य कुण्डलीतत्त्वं सर्वसिद्धीश्वरो भवेत् ॥४२॥भजेदिन्द्रं तत्र नाके श्वेतकुञ्जरवाहनम् ।चतुर्बाहुं देवराजं विद्युत्पुञ्जं भवक्षयम् ॥४३॥डाकिन्या मन्दिरे कान्तं ब्रह्माणं हंसहंसगम् ।नवीनार्कं चतुर्बाहुं चतुर्वक्त्रं भजेद् वशी ॥४४॥ब्रह्मणं डाकिनीयुक्तं सिन्दूराप्लुतभास्करम् ।परमामोदमत्तं तं विभाव्य योगिराड् भवेत् ॥४५॥विद्युल्लतावदुज्ज्वलां श्रीदेवडाकिनीं सुराट् ।अभीक्षा(क्ष्णा)रक्तनयनां हंसस्थां भावयेद् वशी ॥४६॥हंसोद्र्ध्वे कमलाबीजं सर्वाङ्कारभूषितम् ।महालक्ष्मीस्वरुपं यत्तद् भजन्ति महर्षयः ॥४७॥इन्द्रपृथ्वीबीजवामे प्रणवं ब्रह्मसेवितम् ।प्राणायामसिद्धिदं यत्तद् भजन्ति महर्षयः ॥४८॥ N/A References : N/A Last Updated : April 14, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP