संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षोडशः पटलः| कुलमार्गकथनम् षोडशः पटलः गुरूमीश्वरकीर्तनम् हाकिनीदेवीध्यानम् कुलमार्गकथनम् षोडशः पटलः - कुलमार्गकथनम् सामवेदमधश्चक्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल कुलमार्गकथनम् Translation - भाषांतर श्वासमात्रेण वसयेत् कुलमार्गं न पण्डितः ।कुलाकुलविभागेन आत्मानं नीयते परे ॥३५॥श्वासाभ्यासं विना नाथ अष्टाङाभ्यसनेन च ।विना दमेन धैर्येण कुलमार्गो न सिद्धयति ॥३६॥तथा पूरकयोगेन रेचकेनापि तिष्ठतिः ।विना कुम्भकसत्त्वेन यथैतौ नापि तिष्ठतः ॥३७॥तथा योगं विना नाथ अष्टाङाभ्यसनं विना ।कुलमार्गो महातत्त्वो न सिद्धयति कदाचन ॥३८॥कुलमार्गं विना मोक्ष कः प्राप्नोति कहीतले ।कुलमार्गं न जानति योगवाक्यागमाकुलम् ॥३९॥स कथं पूजयेद्देवीं तस्य योगः कृतः प्रभो ।अज्ञात्वा वीरनाथानामाचारं यः करोति हि ॥४०॥तेषां बहुदिने योगशिक्षा भवति निश्चितम् ।प्राणायामं महाधर्मं वेदानामप्यगोचरम् ॥४१॥सर्वपुण्यस्य सारं हि पापरशितुलानलम् ।महापातककोटीनां तत्कोटीनाञ्च दुष्कृतम् ॥४२॥पूर्वजन्मार्जितं पापं नानादुष्कर्मपातकम् ।नश्यत्येव महादेव षण्मासाभ्यासयोगतः ॥४३॥सन्ध्याकाले प्रभाते च यः करोत्यप्यहर्निशम् ।वशी षोडशसंख्याभिः प्राणायामान् पुनः पुनः ॥४४॥संवत्सरं वशी ध्यात्त्वा खेचरो योगिराड् भवेत् ।योगी भूत्वा कौलमार्गं समाश्रित्यामरो भवेत् ॥४५॥महाविद्यापतिर्भूत्वा विचारात् साधकोत्तमः ॥४६॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावार्थबोधनिर्णये पाशवकल्पे आज्ञाचक्रसारसङ्कते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे षोडशः पटलः ॥१६॥ N/A References : N/A Last Updated : September 20, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP