संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षोडशः पटलः| गुरूमीश्वरकीर्तनम् षोडशः पटलः गुरूमीश्वरकीर्तनम् हाकिनीदेवीध्यानम् कुलमार्गकथनम् षोडशः पटलः - गुरूमीश्वरकीर्तनम् सामवेदमधश्चक्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल गुरूमीश्वरकीर्तनम् Translation - भाषांतर आनन्दभैरवी उवाचश्रृणुष्वानन्दरुद्रेश तृतीयदललक्षणम् ।सामवेदमधश्चक्रं तमोगुणानिराकुलम् ॥१॥वर्णजालादिनाक्रान्तं रुद्ररुपं महेश्वरम् ।लयस्थानं कामरुपं परमानन्दमन्दिरम् ॥२॥वहिनवृत्तिसुस्थान विभाव्य योगिराड् भवेत् ।तत्स्थानं योगिनां धर्मो गुरोराज्ञाफलप्रदम् ॥३॥तत्पदाब्जं श्रीगुरुणां भ्रूमध्ये द्विदलाम्बुजे ।मुहुर्मुहुः शनैर्ध्यायेत् समीरास्पदभास्वरम् ॥४॥विभाव्य मनसा वाचा कर्मणा सूक्ष्मवायुना ।लीनं कृत्वा सदा ध्यायेत् सदा हर्षकलेवरः ॥५॥सहस्त्रारें यथा ध्यानं तद्ध्यानं द्विदलाम्बुजे ।गुरुमात्मानमीशानं देवदेवं सनातनम् ॥६॥अकस्मात् सिद्धिदातारं योगाऽष्टाङुफलप्रदम् ॥७॥नित्यं शब्दमयं प्रमाणाविषय्म नित्योपमेयं गुरुंचन्द्रोल्लासतनुप्रभं शतविधूल्लास्साय पङ्केरुहम् ।सर्वप्राणगतं गतिस्थमचलं ज्ञानाधिनिर्लेपनंरुढालास्यगुणालयं लयमयं स्वात्मोपलब्धि भजे ॥८॥यदि भजेज्जगतामलेश्वर स्मरहरं गुरुमीश्वरमात्मनि ।परमसुन्दरचन्द्रसामाकुलं निपतिताद्यकुलानलसञ्चयम् ॥९॥प्रणमतां समतां कुरुते गुरो यदि भवान् विफलं परिहन्ति मे ।तव पदाम्बुजमद्भुतलीलया परिभजे भवसागरपारगम् ॥१०॥गुरुपदं सितपङ्कजराजितं कनकनूपुरसुन्दरासञ्जनम ।रचिताचित्रितचारुनखेन्दुकं भुवनभावनपावनमाश्रये ॥११॥सकलसत्फल पालनकोमलं विमलशोणित पङ्कज मण्डितम् ।पदतलं खनिग्रहपालन्म खचितरत्नधराचलनं भजे ॥१२॥सुकनकजडितासनपङ्कजे परिभवं भवसागरसम्भवम् ।यदि कृपा विभवेन्मयि पामरे व्यवतु मां तव पादतलं भजे ॥१३॥परमहंसमनुं हररुपिणं सकलमक्षशङ्गुरुमीश्वरम् ।सकललक्षणचन्द्रमसःकरं तरुगुरोर्मुखपङ्कमाश्रये ॥१४॥गुरोराञाचक्रं भुवनकरण्म केवलमयंसकारं नादेन्दुकुमुदह्रदयं कामकलया ।लयस्थाने वायोर्नवमधुरसमोदमिलिते दले वेदक्षेत्रे विधुविरहिते तत्र पदके ॥१५॥तमोगुनसमाक्रान्ते अधोमण्डलमण्डिते ।द्विबिन्दुनिलये स्थाने द्विदले श्रीगुरोः पदम् ॥१६॥महावहिनशिखाकारं तन्मध्ये चिन्तयेत् सुधीः ।एतद्योगप्रसादेन बीजवाग्भवकूटकैः ॥१७॥चिरजीवी भवेत् क्षुद्रो वागीशत्वमवाप्नुयात् ।श्रीगुरोश्चरनाम्भोजनिःसृतं यत् परामृतम् ॥१८॥तत्परामृतधाराभिः सन्तर्प्य कुलनायिकाम् ।पुनः पुनः समाकुञ्च प्रबुद्धां तां स्मरेत् सदा ॥१९॥पर्यायत्त्वापरसं धारयेन्मारुतं सुधीः ।तत्परामृतधाराभिः सन्तर्प्य कुलनायिकाम् ॥२०॥ततः पुनः पुनः पात्यं सर्वपुण्यफलं प्रिये ।धनरत्नमहालक्ष्मीः प्राप्नोति साधकोत्तमः ॥२१॥सर्वत्र जयमाप्नोति युद्धे क्रोधे महाभये ।महायुधि स्थितो याति सुशीलो मोक्षमाप्नुयात् ॥२२॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP