संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षोडशः पटलः| हाकिनीदेवीध्यानम् षोडशः पटलः गुरूमीश्वरकीर्तनम् हाकिनीदेवीध्यानम् कुलमार्गकथनम् षोडशः पटलः - हाकिनीदेवीध्यानम् सामवेदमधश्चक्रस्वरूपकथनम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल हाकिनीदेवीध्यानम् Translation - भाषांतर इति ते कथितं नाथ ब्रह्मज्ञानमनुत्तमम् ।आज्ञाचक्रत्रिखण्डस्य दलस्य कामरुपतः ॥२३॥सत्फलं समवाप्नोति विचार्य भावयेद्यदि ।आज्ञाचक्र त्रिखण्डे च कामरुपं महेश्वरम् ॥२४॥चीनाचार समाक्रान्तं श्मशानधिपवेष्टितम् ।कालं कालकरं चक्रं महाकाल्म कलानिधिम् ।पलानुपलविपलद्दण्डतिथ्यातिपदपथकैः ॥२५॥मासवत्सरादियुगैर्महाकालैः समन्वितम् ।उल्काकोटिसमं नेत्रं तीक्ष्णदंष्ट्र सुरेश्वरम् ॥२६॥कोटिकोटिनेत्रजालशोभिताननपङ्कजम् ।चिद्रू[पं सदसन्मुक्तिरुपिणं बहुरुपिणम् ॥२७॥ध्यात्वा त्वतिसुखेनैव कालरुद्रं परेश्वरम् ।नासिकोद्र्ध्वे भ्रुवोर्मध्ये आज्ञाचक्र महाप्रभो ॥२८॥विभाव्य परमं स्थानं तत्क्षणात्तन्मयो भवेत् ।हाकिनीं भावयेन्मन्त्रीं रौरवादिविनाशिनीम् ॥२९॥कोटिसौदामिनीभासामृतानन्दविग्रहाम् ।अमातत्त्वपूर्णशोभां हेमवाराणसीस्थिताम् ॥३०॥नानालङ्कार शोभाङीं नवयौवनशालिनीम् ।पीनस्तनीं बलोन्मत्तां सर्वाधारस्वरुपिणीम् ॥३१॥दीर्घप्रणवजापेन तोषयन्तीं त्रिविक्रमम् ।मौनां मनोमयीं देवीं सर्वविद्यास्वरुपिणीम् ॥३२॥महाकालीं महानीलां पीतवर्णां शशिप्रभाम् ।त्रिपुरां सुन्दरीं वामां वामकामदुघां शिवाम् ॥३३॥ध्यायेदेकासने वामे परनाथस्य पावनीम् ।सर्वाधारात्मिकां शक्तिं दुर्निवार्यां दुरत्ययाम् ॥३४॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP