चतुर्दशः पटलः - आत्रेयीशक्तिविवेचनम्

नाक्षत्रिकचक्रफलम्


मन्दवायुप्रिया यस्य कल्पनार्थे च वीरहा ।
सा पाति जगतां लोकान् तस्याधीनमिदं जगत् ॥६५॥

नाकाले म्रियते कश्चिद्‌ यदि जानाति वायवीम् ।
वायवी परमा शक्तिरिति तन्त्रार्थ निर्णयः ॥६६॥

सूक्ष्मागमनरुपेण सूक्ष्मसिद्धिं ददाति या ।
नराणां भजनार्थाय अष्टैश्वर्यजयाय च ॥६७॥

कथितं ब्रह्मणा पूर्वं शिष्याय तनुजाय च ।
लोभमोहकाक्रोधदमात्सर्यहाय च ॥६८॥

तत्क्रमं परमं प्रीतिवर्धनं भूतले प्रभो ।
आज्ञाचक्रस्य मध्ये तु वायवी परितिष्ठति ॥६९॥

चन्द्रसूर्यग्निरुपा सा धर्माधर्मविवर्जिता ।
मनोरुपा बुद्धिरुपा शरीरं व्याप्यं तिष्ठति ॥७०॥

आज्ञा द्विदलमध्ये तु चतुद्‌र्दशमुदाह्रतम् ।
वेददले वेदवर्ण वादिसान्तं महाप्रभम् ॥७१॥

तदाग्निरुप सम्पन्नम् ऋग्वेदादिसमान्वितम् ।
श्रृणु तद्वेदमाहात्म्यं क्रमशः क्रमशः प्रभो ॥७२॥

॥ इति श्री रुद्रयामले उत्तरतन्त्रे भावप्रश्नार्थनिर्णये आज्ञाचक्रसङ्केते वेदप्रकरणे भैरवी भैरवसंवादे चतुर्दशः पटलः ॥१४॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP