संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्दशः पटलः| रव्यादि वार प्रश्नफलकथनम् चतुर्दशः पटलः राश्याधिपानां च फलानि रव्यादि वार प्रश्नफलकथनम् आश्लेषादिनक्षत्रफलकथनम् नक्षत्राधिपतिफलविचारः आत्रेयीशक्तिविवेचनम् चतुर्दशः पटलः - रव्यादि वार प्रश्नफलकथनम् नाक्षत्रिकचक्रफलम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल रव्यादि वार प्रश्नफलकथनम् Translation - भाषांतर रवौ राज्यं बालकाना यदि प्रश्नं प्रियं फलम् ।धर्मार्थलाभमेवं हि त्रयोविंशाधिके नरे ॥२०॥संहितं परमानन्दं योगेन तत्त्वचिन्तनम् ।इत्यादि रविवारस्य वृद्धानामशुभं शुभे ॥२१॥सोमे रत्नमुपैति देवकुसुमामोदेन पूर्ण सुखम्बालायां नवकन्यका शुभफलं मुद्रामयार्थ लभेत् ।कैवल्यार्थविचेष्टनं नृपवधूप्रेमाभिलापः सदावाञ्छा पुण्यसुखास्पदेषु विमला भक्तिश्च सोमे दिने ॥२२॥पृथ्वीपुत्रो रुधिवदनो बालबाली विशेषोमुख्यं कार्यं दहति सहसा साहसं वासनायाम् ।हन्ति प्रायो विफलघटितं शोकसन्तानसारंमोक्ष पुण्यं घटयति सदा मङुले भूमिवारे ॥२३॥बुधे वारमुखे महापुण्यपुञ्ज समाप्नोति मर्त्यस्तथा दुर्बलञ्च ।सदा कालदोषं महाघोदुःखं रिपूणां धनीनां महावीर्यदर्पम् ॥२४॥सुराणां देवाना विविध धनलाभं वितरणंप्रतापं सत्कीर्त्ति क्रतुफलविशेषं विधिगतम् ।जनानामान्दं समर वसगतानन्द ह्रदयेप्रतिष्ठा सद्धर्मं गमयति मुदा वासनगुरौ ॥२५॥मन्दारमालन्वित देहधारी नाकस्थले गच्छति देवनिष्ठः ।हरेः पदे भक्तिमुपैति सत्यं प्रसाधनात् शुक्रसुवारकाले ॥२६॥शनैश्चरदिने भयं भुवनदोषमोहन्वितंविशिष्टधननीरदं वयसि सिद्धिऋद्धयर्कजंभजन्ति यदि मानुषाः सकलामनादेः प्रभोः ॥२७॥पुनश्च रविवारगं फलमतीव दुःखास्पदंप्रचण्डकिरणं सदा विकललोकरोगापहम् ।तमेव परिभावनं परिकरोति यो वा नरोन नश्यति कदाचन प्रचुरतापशापाकरम् ॥२८॥कलाधरफलं श्रृणु प्रणवबाह्यसूक्ष्माश्रयंसमग्रखचराफलं फलवतां हि सञ्ज्ञाफलम् ।गभीरवचनं नृपप्रियकरस्य रक्षाकरंयदीन्दुभजनं यदा कलिशुभादिशम्भोऽकरोत् ॥२९॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP