संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|चतुर्दशः पटलः| नक्षत्राधिपतिफलविचारः चतुर्दशः पटलः राश्याधिपानां च फलानि रव्यादि वार प्रश्नफलकथनम् आश्लेषादिनक्षत्रफलकथनम् नक्षत्राधिपतिफलविचारः आत्रेयीशक्तिविवेचनम् चतुर्दशः पटलः - नक्षत्राधिपतिफलविचारः नाक्षत्रिकचक्रफलम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल नक्षत्राधिपतिफलविचारः Translation - भाषांतर अश्लेषानाथ शुक्रो विपदमति कदा नो ददाति प्रदुःखंदक्षे पत्रे विहारोत्तभयहराचण्डतापं न हन्ति ।जीवः श्रीमानमोघाशाधनमपि विविधं ब्राह्मणः पीतवर्णःपूर्वान्तः फल्गुनीशो विधुतनुजवरो नीलवर्णः स्वपत्रम् ॥३७॥कुरुते बहुसुखवित्तं उत्तरफल्गुनीनाथो मङुलेन ।हस्तायाः पतिश्चन्द्रो विभवमनन्तं चित्रेशो रविः ॥३८॥अधस्तृतीयपत्रस्य नक्षत्राणि श्रृणु प्रभो ।यासां वारविशिष्टानां प्रश्ननिष्कर्षसत्फलम् ॥३९॥स्वातीं रविः पाति महोग्र तेजसा विनाशकाले विपरीबुद्धिदः ।इन्दुर्विशाखां सुखदः सरस्वतीं कुजोऽनुराधां विपदां प्रबाधाम् ॥४०॥बुधो हि पायात् सकलार्थसाधिनीं तथा हि मूलां सुखदाञ्च जीवः ।तदा धनार्थं प्रददाति शुक्रः पूर्वन्विताऽऽषाढिकयाऽन्वितः सुखम् ॥४१॥चतुर्थपत्रं वामस्थं महामङुलकारणम् ।अर्थवेदरुपं तत् सर्वप्रश्नकथावृतम् ॥४२॥विपरिते महद्दुखं वर्णसौख्येऽपि हानयः ।भवन्ति तारकाणाञ्च शुभदृष्ट्या महोदयाः ॥४३॥तत्तारकानाथगुणं शुभाशुभफलप्रदम् ।प्रश्नवर्नसमूहानां मतमालोक्य निर्णयम् ॥४४॥शनिः पात्युत्तराषाढां हानिरुपां विपाकदाम् ।दुःखदारिद्रयसंयुक्तां देवनिष्ठेन बाधते ॥४५॥रविः प्रपाति श्रवणां धनादिभिः प्रधानदेवाश्रयनिर्विकल्पाम् ।तथा धनिष्ठां फलदां सुधांशुः कुजो विपत्तिं शतभिग्गणेशः ॥४६॥पूर्वभाद्रपदानाथो बुधः काञ्चनवर्धनः ।तथा लोकं महादेवोत्तरभाद्रपदापतिः ॥४७॥बृहस्पतिः सुखोल्लासं रेवती शस्तथा भृगुः ।ददाति परमाहलाद स्वस्व पत्रस्थराशिभिः ॥४८॥अभिजित्तारकं पाति शनिः श्रीमान् धनप्रदः ।फलभागं मुदा दातुं शनी राजमृगान्तिके ॥४९॥तच्चन्द्रोच्चस्थमिति के वदन्ति परमप्रियम् ।राहुराजा ग्रहाः क्षेत्रे अभिजित् कालवेष्टितः ॥५०॥तत्कालं सूक्ष्मतद्रूपं यो जानाति महीतले ।सन्ध्याकालमिति ज्ञेयं शनिराहू सुखान्तयोः ॥५१॥तत्सन्धिकालमेवं हि सत्त्वगुणमहोदयम् ।तत्कुम्भकं विजानीयान्मदीय देहसम्भवम् ॥५२॥महासूक्ष्मक्षणं तद्धि कुण्डलीमण्डलं यथा ।तस्याः प्रथमभागे च धारनाख्यः शनिः प्रभुः ॥५३॥स्वयं ब्रह्मा मुदा भाति निरञ्जनकलेवरः ।तस्याः शेषे रेचनाख्यः संहारविग्रहः शुचिः ॥५४॥राहुरुपी स्वयं शम्भुः पञ्चतत्त्वविधानवित् ।कालरुपी महादेवो विकटास्यो भयङ्करः ॥५५॥सर्वपापानलं हन्ति चन्द्ररुपी सुधाकारः ।कृष्णवर्णः कालयमः पुण्यापुण्यनिरुपकः ॥५६॥द्वयोर्मध्ये सूक्ष्मरुपा तदित्कोटिसमप्रभा ।महासत्त्वाश्रिता देवी विष्णुमायाग्रहाश्रिता ॥५७॥अभिजित्तारका सूक्ष्मा सन्धिकाललया जया ।कुम्भकाक्रान्तह्रदया ग्रहचक्रपुरोगमा ॥५८॥नक्षमण्डलग्राममध्यस्था तिथिषोडशी ।असामयी सूक्ष्मकला तरुणानन्दनिर्भरा ॥५९॥अस्या आद्यभागसंस्थो ब्रह्मरुपो रजोगुणः ।अस्याः शेषः कालरुपी तमोगुणालयप्रियः ॥६०॥चन्द्रो ब्रह्मा शिवः सूर्यो महामायातनूत्तरः ।आत्रेयी परमा शक्तिः सुषुम्नान्तरगामिनी ॥६१॥मध्यस्था ब्रह्मशिवयोर्विधिशास्त्रस्य सिद्धिदा ।यैर्ज्ञायते सर्वसंस्था सर्वानन्दह्रदि स्थिता ॥६२॥तैरानन्दफलोपेतैः सत्त्वसम्भोगकारिणी ।महाविष्णुर्महामाया चन्द्रतारास्वरुपिणी ॥६३॥मुक्तिदा भोगदा भोग्या शम्भोराद्या महेश्वरी ।अज्ञानवृतता घोरान्धकरकालसंहारहंसिनी ॥६४॥ N/A References : N/A Last Updated : April 10, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP