द्वितीयपरिच्छेदः - परिच्छेदः ४

श्री १००८ श्रीमत्परमहंसपरिव्राजकाचार्य-योगीन्द्रवर्य-श्रीआत्मानन्दसर स्वतीस्वामिभिंर्विरचितः ।


नच प्रमेयत्वादीनां तथात्वात्कथमसिद्धिरिति वाच्यं प्रमाविषयत्वं हि प्रमेयत्वं प्रमाया
भिन्नभिन्नविषयत्वेन प्रमानिरूपपिताविषयताया अपिभिन्नत्वात् न कस्यापि केवलान्वयित्वं
वक्तुं शक्यम् ईश्र्वरप्रमाया विषयत्वेऽपसिद्धांतः तस्या ईश्र्वराविषयत्वे कुतः केवलान्वयित्वं नचाकाशात्यंताभावस्य
केवलान्वयित्वमिति वाच्यम् आकाशेऽसत्वेन केवलान्वयित्वव्याघातात् यथा प्रतियोगितदभावयोः
सामानाधिकरण्यवत् प्रतियोग्यभावयोराधाराधेयभा वस्याप्यनंगकिरात् अथ यथाकथंचिदंगीकारेपि
श्रुतिसिद्धांते ब्रह्मभिन्नस्य सर्वस्य मिथ्यात्वादाकाशाभावस्याप्यभावसत्त्वेनात्यंताभावप्रतियोगित्वमेवेति
कुतस्तस्य केवलान्वयित्वमिति निरूपितं केवलान्वयित्वम् अन्यच्च
व्याप्तिप्रकारकपक्षधर्मताज्ञानादनुमितिरितिनैय्यायिका मन्यंते तत्र साधनाभावनिरूपितायाःसाध्या
भावनिष्ठाया व्याप्तेःसाधननिष्ठत्वाभावेन केवलव्यतिरेकस्थले व्याप्तिप्रकारकपक्षधर्मताज्ञानासंभवादनुमित्यनुपपत्तिः
किंच साध्यप्रसिद्धेरनुमानांगत्वेन पृथिवीपक्षकेतरभेदसाध्यकानुमानस्थले न कुत्रापि
साध्यप्रसिद्धिरित्यतोनुपपत्तिः स्यादेव अप्रसिद्धशशशृंगसाध्यकानुमानेन शशविषाणानुमितिस्वीकारप्रसंग
आपद्येत नैय्यायिकानाम् नच घटादावितरभेदः प्रत्यक्ष इति न साध्या प्रसिद्धिरिति वाच्यं
प्रत्यक्षसिद्धेर्थेऽनुमानानवकाश; प्रसज्येत अनुमितिं प्रति साध्यसिद्धेः प्रतिबंधकत्वात् पक्षताव्याघातः
तस्माद्य्वतिरेक्यनुमानकल्पनं सर्वथा उपपन्नमेवपुनरत्र तार्किकाणामसत्प्रलपनमुदाह्नियते तथाहि
यथा पृथिव्यादयः षट पदार्था इति षट्त्वासंख्याप्रतिज्ञानं शक्तिसादृश्याद्यातिरिक्तपदार्थसत्तयाऽसंगत
तथा नवैव द्रव्याणीति द्रव्याणां नवत्वसंख्याप्रतिज्ञानमप्यसंगतमेव प्रतीयमानस्य तमसो
भावत्वेनाभावत्वकल्पनायां मानाभावात् नीलं तमश्र्चलतीत्यादि प्रत्यक्षप्रतीत्यातमसो
नीलरूपादिमत्त्वेन चलनादिक्रियावत्त्वेन द्रव्यत्वसंभवात् गुणवतो क्रियावतश्र्च
तार्किकैर्द्रव्यत्वस्वीकारस्यावश्यकत्वात् अथ च क्रियावत्त्वेन सावयवत्वादपि द्रव्यत्वं तमसः
संभवतीति द्रव्याणां नवत्वप्रसंख्यानं सर्वथासंगतमेव तथैवात्मनो द्रव्यत्वं
नैय्यायिकाभिमतमसंगतमेव तत्र प्रमाणाभावादयं तार्किकाणामात्मद्रव्यत्ववादः
स्वकपोलकल्पितोऽपसिद्धांतः नायमसत्तर्कः प्रामाण्यमश्नुवीत श्रुतिस्मृतिविद्वदनुभवव्याकोपेनात्मनो
द्रव्यत्वकल्पनाया अप्रामाणिकत्वात् मताभिनिवेशेन बलात्तदभ्युपगमे गुणवत्त्वाद्यभ्युपगमोपि
आवश्यकः द्रव्यस्य गुणक्रियाश्रयत्वनियमात् "निर्गुणंनिष्क्रियम्" इत्यादिश्रुतिविरोधप्रसंगः ।
अथ चात्मनो द्रव्यत्वे गुणक्रियादिपारतंत्र्येणात्मनो स्वातंत्र्यव्याघातः स च नेष्टः यतो ह्यात्मनः
सर्वकल्पनाधिष्ठानत्वे सर्वप्रेरकतया श्रुतिभिः सिद्धांतितत्वान्न पारतंत्र्यकवलितं द्रव्यत्वमात्मनःकदापि
मंतुं शक्यं तथाच नैय्यायिकानां नवद्रव्यकल्पना आत्मनश्र्च द्रव्यत्वकल्पना सर्वथैवासंगता
प्रमाणविरुद्धाचा पुनरयं दोष स्तार्किकाणां मतं खंडयति तथाहि ‘अतोन्यदार्त’
मित्यादिश्रुतिभिर्ब्रह्मभिन्नस्य निखिलप्रपंचस्यानित्यत्वप्रतिपादनात् कथमाकाशादीनां
परमाणूनां च नित्यत्वं तेषामपि प्रपंचांतर्गतत्वादनित्यत्वमेव एवं
पृथिव्यादिचतुष्ठयपरमाणूनामल्पत्वात्परिच्छिन्नत्वादनित्यत्वं नच तस्या उपचरितार्थत्वं
प्रमाणांतरैर्विरोधापातादिति परमाण्वाकाशादीनां कारणत्वनित्यत्वाद्यभिमानः शतशः
खंडयितुं शक्य इति किमु वक्तव्यं तस्य सकलवेदप्रमाणबहिर्भूतत्वात् नच विभुत्वेन
निरवयवत्वान्नित्यत्वामिति शंक्यम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP