आचाराध्यायः - भक्ष्याभक्ष्यप्रकरणम्

चित्तशुद्धीनें विचाराची योग्यता येते आणि वेदान्तविचाराने संसारापासून मोक्ष होतो , हेच ठामपणे याज्ञवल्क्यस्मृतित सांगितले आहे .


अनर्चितं वृथामांसं केशकीटसमन्वितम् ।

शुक्तं पर्युषितोच्छिष्ठं श्र्वस्पृष्टं पतितेक्षितम् ॥१६७॥

उदक्या स्पृश्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।

गोध्रांत शकुनोच्छिष्टं पदास्पृष्टं च कामतः ॥१६८॥

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।

अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥१६९॥

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् ।

औष्ट्रमैकशफं स्रैणमारण्यकमथाविकम् ॥१७०॥

देवतार्थ हविः शिग्रुं लोहितान्व्रश्र्चनांस्तथा ।

अनुपाकृतमांसानि विड्जानि कवकानि च ॥१७१॥

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् ।

सारसैकशफान्हंसान्सर्वांश्र्च ग्रामवासिनः ॥१७२॥

कोयष्टिपल्लवचक्राह्वबलाकाबकविष्किरान् ।

वृथाकृसरसयावपायसापूपशष्कुलीः ॥१७३॥

कलविकं सकाकोलं कुररं रज्जुदालकान् ।

जालपादान्खञ्जरीटानज्ञातांश्र्च मृगाद्विजान् ॥१७४॥

चाषांश्र्च रक्तपादांश्र्च सौनं वल्लूरमेव च ।

मत्स्यांश्र्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥१७५॥

पलाण्डुं विड्वराहं च छत्रांक ग्रामकुक्कुटम् ।

लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥१७६॥

भक्ष्याः पञ्चनखाः सैधागोधाकच्छपशल्लकाः ।

शशश्र्च मत्स्येष्वपि हि सिंहतुडिकरोहिताः ॥१७७॥

तथा पाठीनराजीवसशल्काश्र्च द्विजातिभिः ।

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जिते ॥१७८॥

प्राणात्यये तथा श्राद्धे प्रोक्षितं द्विजकाम्यया ।

देवान्पितृन्समभ्यर्च्य खादन्मासं न दोषभाक् ॥१७९॥

वसेत्स नरके घोरे दिनानि पशुरोमभिः ।

संमितानि दुराचारो यो हन्त्यविधिना पशून् ॥१८०॥

सर्वान्कामानवाप्रोति हयमेधफलं तथा ।

गृहेऽपि निवसन्विप्रो मुनिर्मासविवर्जनात् ॥१८१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP