द्वितीयः स्कन्धः - अथ अष्टमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


राजोवाच

ब्रह्माणा चोदितो ब्रह्मन गुणाख्यानेऽगुणस्य च ।

यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥१॥

एतद वेदितुमिच्छामि तत्त्वं वेदविदां वर ।

हरेरद्भूतवीर्यस्य कथा लोकसूमगंलाः ॥२॥

कथयस्व महाभाग यथाहमखिलात्मानि ।

कृष्णे निवेश्य निःसंग मनस्त्यक्ष्ये कलेवरम ॥३॥

श्रृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम ।

कालेन नतिदीर्घेण भगवान विशते हृदि ॥४॥

प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम ।

धुनोति शमलं कृष्णः सलिलस्य यथा शरत ॥५॥

धौतात्मा पुरुषः कृष्णपादमुक्लं न मुत्चति ।

मुक्तसर्वपरिक्लेशः पान्थ्र स्वशरणं यथा ॥६॥

यदधातुमतो ब्रह्मान देहारम्भोऽस्य धातुभिः ।

यदृच्छया हेतुना वा भवन्तो जानते यथा ॥७॥

आसीद यदुदरात पद्मं लोकसंस्थानलक्षणम ।

यावानयं वै पुरुष इयत्तवयवैः पृथक ।

तावानसाविति प्रोक्तः संस्थावयववानिव ॥८॥

अजः सृजति भूतानि भुतात्मा यदनुग्रहात ।

ददृशे येन तद्रुपं नाभिपद्मसमुद्भवः ॥९॥

स चापि यत्र पुरुषो विश्वस्थित्युद्भावाप्ययः ।

मुक्त्वाऽऽत्ममयां मायेशः शेते सर्वगुहशयः ॥१०॥

पुरुषावयवैर्लोकां सपालाः पुर्वकल्पिताः ।

लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥११॥

यावान कल्पो विकल्पो वा यथा कालोऽनुमीयते ।

भुतभव्यभवच्छब्द आयुर्मानं च यत सतः ॥१२॥

कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी बृहत्यति ।

यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम ॥१३॥

यस्मिन कर्मसमावायो यथा येनोपगृहाते ।

गुणांना गुणिनां चैव परिणाममभीप्सताम ॥१४॥

भुपातालककुब्व्योमग्रहन क्षत्रभुभृताम ।

सरित्समुद्रद्वीपानां सम्भव श्चैतदोकसाम ॥१५॥

प्रजाणमण्डकोशस्य ब्राह्मभ्यन्तरभेदत्तः ।

महतां चानुचरितं वर्नाश्रमविनिश्चयः ॥१६॥

युगानि युगमानं च धर्मो यश्च युगे युगे ।

अवतारानुचरितं यदाश्चर्यतम हरेः ॥१७॥

नृणां साधारणो धर्मः सविशेषश्च यादृशः ।

श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम ॥१८॥

तत्त्वानां परिसंख्यानां लक्षण हेतुलक्षणम ।

पुरुषाराधनविधिर्योगस्याध्यत्मिक्स्य च ॥१९॥

योगेश्वरै श्वर्यगतिर्लिंगभंगस्तु योगिनाम ।

वेदोपवेदधर्माणामितिहासपुराणयोः ॥२०॥

सम्प्लवः सर्वभुतांना विक्रमः प्रतिसंक्रमः ।

इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥२१॥

यश्चानुशायिनां सर्गः पाखण्डस्य सम्भवः ।

आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरुपतः ॥२२॥

यथाऽऽत्मतन्त्रो भगवान विक्रीडत्यात्ममायया ।

विसृत्य वा यथा मायामुदास्ते साक्षिवद विभुः ॥२३॥

सर्वमेतच्च भगवान पृच्छते मेऽनुपूर्वशः ।

तत्वतोऽर्हस्युदाहर्तु प्रपन्नाय महामुने ॥२४॥

अन्न प्रमाणं हि भवान परमेष्ठी यथाऽऽत्मभुः ।

परे चेहानुतिष्ठन्ति पूर्वेषां पूवजैः कृतम ॥२५॥

न मेऽसवः परायन्ति ब्रह्मान्नशानादमी ।

पिबतोऽ‍च्युतपीयुषमन्यत्र कुपिताम द्विजात ॥२६॥

सूत उवाच

स उपामन्त्रितो राज्ञा कथयामिति सप्ततेः ।

ब्रह्मारातो भृशं प्रीतो विष्णुरातेन संसदि ॥२७॥

प्राह भागवंतं नाम पुराणं ब्रह्मसम्मितम ।

ब्रह्माणे बह्गवत्प्रोक्तं ब्रह्मकल्प उपागते ॥२८॥

यद यत परीक्षिदृषभः पाण्डुनामनुपृच्छति ।

आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥२९॥

इति श्रीमद्धागवते महापुराणे पारमहंस्यां संहितायां द्वितीयस्कन्धे प्रश्नविधिर्नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP