द्वितीयः स्कन्धः - अथ द्वितीयोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


श्रीशुक उवाच

एवं पुरा धारणाऽऽत्मयोनि र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात ।

तथा ससर्जेदममोघदृष्टि र्यथाप्ययात प्राग व्यवसायबुध्दीः ॥१॥

शाब्दस्य हि ब्रम्हण एष पन्था यन्नामभिर्ध्यायति धीरपर्थैः ।

परिभ्रमंस्तत्र न विन्दतेऽर्थान मायामये वासनया शयानः ॥२॥

अतः कविर्नामसू यावदर्थः स्यादप्रमत्तो व्यवसायुबुद्धीः ।

सिद्धेऽन्यथार्थ न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ॥३॥

सत्यां क्षितौ किं कशिपोः प्रयासै र्बाहो स्वसिद्धे ह्यृपबर्हणैः किम ।

सत्यत्र्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकुलैः ॥४॥

चीराणि किं पथि न सन्ति दिशन्ति भिक्षं नैवाड्घ्रिपाः परभुतः सरितोऽप्यशुष्यन ।

रुद्धा गुहाः किमजितोऽवति नोपसन्नान कस्माद भजन्ति कवयो धनदुर्मदान्धन ॥५॥

एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियोऽर्थो भगवाननन्त ।

तं निर्वृतो नियतार्थो भजेत संसारहेतुपरमश्च यत्र ॥६॥

कस्तां त्वनादृत्य परानुचिन्ता मृते पशुनसतीं नाम युत्र्ज्यात ।

पश्यत्र्जनं पतितं वैतरण्यां स्वकर्मजान परितापात्र्जुषाणम ॥७॥

केचित स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम ।

चतुर्भुजं कंजरथांगशंख गदाधरं धारणय स्मरन्ति ॥८॥

प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिंजल्कपिशंगवासम ।

लसन्महारत्‍नहिरण्मयगंद स्फुरन्महारन्तकिरीटकुण्डलम ॥९॥

उन्निद्रहृत्पंकजकर्णिकालये योगेश्वरास्थापितपादपल्लवम ।

श्रीलक्षणं कौस्तुभरत्नकन्धर मम्लनलक्ष्या वनमालयाऽऽचितम ॥१०॥

विभुषितं मेखलयांगुलीकै र्महाधनैर्नुपुरकंकनादिभिः ।

स्निग्धामलाकुत्र्चितनीन्लकुन्तलै र्विरोचमानाननहासपेशलम ॥११॥

अदीनलीलाहसितेक्षणोल्लसद भ्रूभंगसंसूचितर्भुर्यनुग्रहम ।

ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥१२॥

एकैकशो‍गंनि धियानुभावयेत पादादि यावद्धसितं गदाभृतं ।

जितं जितं स्थानमपोह्य धारयेत परं परं शुद्धति धीर्यथा यथा ॥१३॥

यावन्न जायेत परावरेऽस्मिन विश्वेश्वरे द्रष्टरि भक्तियोगः ।

तावत स्थवीयः पुरुषस्य रुपं क्रियावसाने प्रयतह स्मरेत ॥१४॥

स्थिरं सूखं चासनमाश्रितो यति र्यदा जिहासूरिमंग लोकम ।

काले च देशे च मनो न सज्जयेत प्राणान नियच्छेन्मनसा जितासूः ॥१५॥

मनः स्वबुद्धयालया नियम्य क्षेत्रज्ञ एतां निनयेत तमात्मनि ।

आत्मानमात्मन्यवरुद्ध धीरो लब्धोपशानिन्तिर्वरमेत कृत्यात ॥१६॥

न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे ।

न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान प्रधानम ॥१७॥

परं पदं वैष्णवमामनन्ति तद यन्नेति नेतीत्यदुत्सिसृक्षवः ।

विसृज्य दौरात्ममनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥१८॥

इत्थं मुक्निस्तुपरमेद व्यवस्थितो विज्ञानदुग्वीर्यसूरन्धिताशयः ।

स्वपर्ष्णिनाऽऽपीड्य गुदं ततोऽनिलं स्थानेषु षटसून्नमयेज्जित्लम ॥१९॥

नाभ्यां स्थितं हृद्याधोरोप्य तस्मा दुदनगत्योरासि तं नयेन्मुनिः ।

ततोऽनुसन्धाय धिया मनस्वी स्वतालुमुलं शनकैर्नयेत ॥२०॥

तस्माद भ्रुवोरन्तरमुन्नयेत निरुद्धसप्तायतनोऽनपेक्षः ।

स्थित्वा मुहुर्ता र्धमकुण्ठदृष्टि र्निभिद्य मूर्धन विसृजेत्परं गतः ॥२१॥

यदि प्रयास्यन नॄप पारमेष्ठयं वैहायसानामृत यद विहारम ।

अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्दियैश्च ॥२२॥

योगेश्वरांणां गतिमाहुरन्त र्बहिस्त्रिलोक्या पवनान्तरात्मनाम् ।

न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम ॥२३॥

वैश्वानरं याति विहायसा गतः सूषुम्णया ब्रह्मापथेन शोचिषा ।

विधूतकल्कोऽथ हरेरुदस्तात प्रयासि चक्रं नृप शैशुमारम ॥२४॥

तद विश्वनाभिं त्वतिवर्त्य विष्णो रणीयसा विरजेनात्मनैकः ।

नमस्कृतं ब्रह्माविदामुपैत कल्पायुषो यद विबुधा रमन्ते ॥२५॥

अथो अनन्तस्य मुखानलेन दन्दह्यामानं स निरीक्ष्य विश्वम ।

निर्याति सिद्धेश्वरजुष्टधिष्ण्यं यद द्वैपरार्ध्य तदु पारमेष्ठयम ॥२६॥

न यत्र शोको न जारा मृत्यु नीर्तिर्न चोद्वेग ऋते कृतश्चित ।

यच्चित्ततोदः कृपयानिदंविदां दुरन्तदुः खप्रभवानुदर्शनात ॥२७॥

ततो विशेषं प्रतिप्रद्य निर्भय स्तेनात्मनापोऽनलमूर्तिरत्वरन ।

ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मन खं बृहदात्मलिंगंम ॥२८॥

घ्राणेन गन्धं रसनेन वै रसं रुपं तु दृष्ट्या श्वसनं त्वचैव ।

श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकुतिमुपैति योगी ॥२९॥

स भूतसूक्ष्मेन्र्दियसंनिकर्ष मनोमयं देवमयं विकार्यम ।

संसाद्य गत्या सह तेन याति विज्ञानतत्वं गुणसंनिरोधम ॥३०॥

तेनात्मनाऽऽत्मानमुपैति शान्त मानन्दमानन्दमयोऽवसाने ।

एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जतेऽगं ॥३१॥

एते सृती ते नृप वेदगीते त्वयाभिपृष्टे ह सनातने च ।

ये वै पुरा ब्रह्मण आह पुष्ट आराधितो भगवान वासूदेवः ॥३२॥

न ह्यतोऽन्तः शिवः पन्था विशत संसृताविह ।

वासूदेवे भगवति भक्तियोगो यतो भवेत ॥३३॥

भगवान ब्रह्मा कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।

तदध्यवस्यत कुटस्थो रतिरात्मन यतो भवेत ॥३४॥

भगवान सर्वभुतेषु लक्षितः स्वात्मना हरिः ।

दृश्यैर्बुद्धयादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥३५॥

तस्मात सर्वात्मना राजन हरि सर्वत्र सर्वदा ।

श्रोतव्यः कीर्तव्यश्च स्मर्तव्यो भगवान्नृणाम ॥३६॥

पिबन्ति ये भगवान आत्मनः सतां कथामृतं श्रवणपुटेषुअ सम्भुतम ।

पुनन्ति ते विषयविदुषिताशयं व्रजन्ति तच्चरसणरोरुहान्तिकम ॥३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां द्वितीयस्कन्धे पुरुषसंस्थावर्णनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP