संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
एकषष्टितमोऽध्यायः

मार्कण्डेयपुराणम् - एकषष्टितमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


क्रौष्टुकिरुवाच

कथितं भवता सम्यग् यत् पृष्टोऽसि महामुने ।
भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः ॥१॥

तेषाञ्चैव प्रमाणञ्च नक्षत्राणाञ्च संस्थितिः ।
भूरादयस्तथा लोकाः पातालान्यखिलान्यपि ॥२॥

स्वायम्भुवं तथा ख्यातं मुने ! मन्वन्तरं मम ।
तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै ।
मन्वन्तराधिपान् देवानृषींस्तत्तनयान्नृपान् ॥३॥

मार्कण्डेय उवाच

मन्वन्तरं मयाख्यातं तव स्वायम्भुवं च यत् ।
स्वारोचिषाख्यमन्यत् तु शृणु तस्मादनन्तरम् ॥४॥

कश्चिद् द्विजातिप्रवरः पुरेऽभूदरुणास्पदे ।
वरुणायास्तटे विप्रो रूपेणात्यश्विनावपि ॥५॥

मृदुस्वभावः सद्वृत्तो वेदवेदाङ्गपारगः ।
सदातिथिप्रियो रात्रावागतानां समाश्रयः ॥६॥

तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् ।
अतिरम्यवनोद्यानां नानानगरशोभिताम् ॥७॥

अथागतो।ञतिथिः कश्चित् कदाचित्तस्य वेश्मनि ।
नानौषधिप्रभावज्ञो मन्त्रविद्याविशारदः ॥८॥

अभ्यर्थितस्तु तेनासौ श्रद्धापूतेन चेतसा ।
तस्याचख्यौ स देशांश्च रम्याणि नगराणि च ॥९॥

वनानि नद्यः शैलांश्च पुण्यान्यायतनानि च ।
स ततो विस्मयाविष्टः प्राह तं द्विजसत्तमम् ॥१०॥

अनेकदेशदर्शित्वेनातिश्रमसमन्वितः ।
त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात् ।
कथमल्पेन कालेन पृथिवीमटसि द्विज ॥११॥

ब्राह्मण उवाच

मन्त्रौषधिप्रभावेण विप्राप्रतिहता गतिः ।
योजनानां सहस्रं हि दिनार्धेन व्रजाम्यम् ॥१२॥

मार्कण्डेय उवाच

ततः स विप्रस्तं भूयः प्रत्युवाचेदमादरात् ।
श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः ॥१३॥

मम प्रसादं भगवन् ! कुरु मन्त्रप्रभावजम् ।
द्रष्टुमेतां मम महीमतीवेच्छा प्रवर्तते ॥१४॥

प्रादात् स ब्राह्मणश्चास्मै पादलेपमुदारधीः ।
अभिमन्त्रयामास दिशं तेनाख्याताञ्च यत्नतः ॥१५॥

तेनानुलिप्तपादोऽथ स द्विजो द्विजसत्तम ।
हिमवन्तमगाद् द्रष्टुं नानाप्रस्त्रवणान्वितम् ॥१६॥

सहस्रं योजनानां हि दिनार्धेन व्रजामि यत् ।
आयास्यामीति सञ्चिन्त्य तदर्धेनापरेण हि ॥१७॥

सम्प्राप्तो हिमवत्पृष्ठं नातिश्रान्ततनुर्द्विज ।
विचचार ततस्तत्र तुहिनाचलभूतले ॥१८॥

पादाक्रान्तेन तस्याथ तुहिनेन विलीयता ।
प्रक्षालितः पादलेपः परमौषधिसम्भः ॥१९॥

ततो जडगतिः सोऽथ इतश्चेतश्च पर्यटन् ।
ददर्शातिमनोज्ञानि सानूनि हिमभूभृतः ॥२०॥

सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च ।
क्रीडाविहाररम्याणि देवादीनामितस्ततः ॥२१॥

दिव्याप्सरोगणशतैराकीर्णान्यवलोकयन् ।
नातृप्यत द्विजश्रेष्ठः प्रोद्भूतपुलको मुने ॥२२॥

क्वचित् प्रस्त्रवणाद् भ्रष्टजलपातमनोरमम् ।
प्रनृत्यच्छिखिकेकाभिरन्यतश्च निनादितम् ॥२३॥

दात्यूहकोयष्टिकाद्यैः क्वचिच्चातिमनोहरैः ।
पुंस्कोकिलकलालापैः श्रुतिहारिभिरन्वितम् ॥२४॥

प्रफुल्लतरुगन्धेन वासितानिलवीजितम् ।
मुदा युक्तः स ददृशे हिमवन्तं महागिरिम् ॥२५॥

दृष्ट्वा चैतं द्विजसुतो हिमवन्तं महाचलम् ।
श्वो द्रक्ष्यामीति संचिन्त्य मतिञ्चक्रे गृहं प्रति ॥२६॥

विभ्रष्टपादलेपोऽथ चिरेण जडितक्रमः ।
चिन्तयामास किमिदं मयाज्ञानादनुष्ठितम् ॥२७॥

यदि प्रलेपो नष्टो मे विलीनो हिमवारिणा ।
शैलोऽतिदुर्गमश्चायं दूरञ्चाहमिहागतः ॥२८॥

प्रयास्यामि क्रियाहानिमग्निशुश्रूषणादिकम् ।
कथमत्र करिष्यामि सङ्कटं महदागतम् ॥२९॥

इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते ।
शक्तदृष्टिरहं तृप्तिं न यास्येऽब्दशतैरपि ॥३०॥

किन्नराणां कलालापाः समन्ताच्छ्रोत्रहारिणः ।
प्रफुल्लतरुगन्धांश्च घ्राणमत्यन्तमृच्छति ॥३१॥

सुखस्पर्शस्तथा वायुः फलानि रसवन्ति च ।
हरन्ति प्रसभं चेतो मनोज्ञानि सरांसि च ॥३२॥

एवं गते तु पश्येयं यदि कञ्चित् तपोनिधिम् ।
स ममोपदिशेन्मार्गं गमनाय गृहं प्रति ॥३३॥

मार्कण्डेय उवाच

स एवं चिन्तयन् विप्रो बभ्राम च हिमाचले ।
भ्रष्टपादौषधिबलो वैक्लवं परमं गतः ॥३४॥

तं ददर्श भ्रमन्तञ्च मुनिश्रेष्ठं वरूथिनी ।
वराप्सरा महाभागा मौलेया रूपशालिनी ॥३५॥

तस्मिन् दृष्टे ततः साभूद् द्विजवर्ये वरूथिनी ।
मदनाकृष्टहृदया सानुरागा हि तत्क्षणात् ॥३६॥

चिन्तयामास को न्वेष रमणीयतमाकृतिः ।
सफलं मे भवेज्जन्म यदि मां नावमन्यते ॥३७॥

अहोऽस्य रूपमाधुर्यमहोऽस्य ललिता गतिः ।
अहो गम्भीरता दृष्टेः कुतोऽस्य सदृशो भुवि ॥३८॥

दृष्टा देवास्तथा दैत्याः सिद्धगन्धर्वपन्नगाः ।
कथमेकोऽपि नास्त्यस्य तुल्यरूपो महात्मनः ॥३९॥

यथाहमस्मिन्मय्येष सानुरागस्तथा यदि ।
भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः ॥४०॥

यद्येष मयि सुस्त्रिग्धां दृष्टिमद्य निपातयेत् ।
कृतपुण्या न मत्तोऽन्या त्रैलोक्ये वनिता ततः ॥४१॥

मार्कण्डेय उवाच

एवं सञ्चिन्तयन्ती सा दिव्ययोषित् स्मरातुरा ।
आत्मानं दर्शयामास कमनीयतराकृतिम् ॥४२॥

तान्तु दृष्ट्वा द्विजसुतश्चारुरूपां वरूथिनीम् ।
सोपचारं समागम्य वाक्यमेतदुवाच ह ॥४३॥

का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि ।
ब्राह्मणोऽहमिहायातो नगरादरुणास्पदात् ॥४४॥

पादलेपोऽत्र मे ध्वस्तो विलीनो हिमवारिणा ।
यस्यानुभावादत्राहमागतो मदिरेक्षणे ॥४५॥

वरूथिन्युवाच

मौलेयाहं महाभागा नाम्ना ख्याता वरूथिनी ।
विचरामि सदैवात्र रमणीये महाचले ॥४६॥

साहं त्वद्दर्शनाद्विप्र ! कामवक्तव्यताङ्गता ।
प्रशाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम् ॥४७॥

ब्राह्मण उवाच

येनोपायेन गच्छेयं निजगेहं शुचिस्मिते ।
तन्ममाचक्ष्व कल्याणि हानिर्नोऽखिलकर्मणाम् ॥४८॥

नित्यनैमित्तिकानान्तु महाहानिर्द्विजन्मनः ।
भवत्यतस्त्वं हे भद्रे ! मामुद्धर हिमालयात् ॥४९॥

प्रशस्यते न प्रवासो ब्राह्मणानां कदाचम ।
अपराद्धं न मे भीरु देशदर्शनकौतुकम् ॥५०॥

सतो गृहे द्विजाग्र्यस्य निष्पत्तिः सर्वकर्मणाम् ।
नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः ॥५१॥

सा त्वं किं बहुनोक्तेन तथा कुरु यशस्विनि ।
यथा नास्तं गेत सूर्ये पश्यामि निजमालयम् ॥५२॥

वरूथिन्युवाच

मैवं ब्रूहि महाभाग ! मा भूत्स दिवसो मम ।
मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि ॥५३॥

अहो रम्यतरः स्वर्गो न यतो द्विजनन्दन ।
अतो वयं परित्यज्य तिष्ठामोऽत्र सुरालयम् ॥५४॥

स त्वं सह मया कान्त ! कान्तेऽत्र तुहिनाचले ।
रममाणो न मर्त्यानां बान्धवानां स्मरिष्यसि ॥५५॥

स्त्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् ।
दास्याम्यत्र तथाहन्ते स्मरेण वशगा हृता ॥५६॥

वीणावेणुस्वनं गीतं किन्नराणां मनोरमम् ।
अङ्गाह्लादकरो वायुरुष्णान्नमुदकं शुचि ॥५७॥

मनोभिलषिता शय्या सुगन्धमनुलेपनम् ।
इहासतो महाभाग गृहे किन्ते निजेऽधिकम् ॥५८॥

इहासतो नैव जरा कदाचित्ते भविष्यति ।
त्रिदशानामियं भूमिर्यौवनोपचयप्रदा ॥५९॥

इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा ।
आलिलिङ्ग प्रसीदेति वदन्ती कलमुन्मनाः ॥६०॥

ब्राह्मण उवाच

मा मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव ।
मयान्यथा याचिता त्वमन्यथैवाप्युपैषि माम् ॥६१॥

सायं प्रातर्हुतं हव्यं लोकान् यच्छति शाश्वतान् ।
त्रैलोक्यमेतदखिलं मूढे इव्ये प्रतिष्ठितम् ॥६२॥

वरूथिन्युवाच

किं ते नाहं प्रिया विप्र ! रमणीयो न किं गिरिः ।
गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कस्तव ॥६३॥

निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्षव भोगान् सुदुर्लभान् ॥६४॥

ब्राह्मण उवाच

अष्टावात्मगुणा ये हि तेषामादौ दया द्विज ।
तां करोषि कथं न त्वं मयि सद्धर्मपालक ॥६६॥

त्वद्विमुक्ता न जीवामि तथा प्रीतिमती त्वयि ।
नैतद्वदाम्यहं मिथ्या प्रसीद कुलनन्दन ॥६७॥

ब्राह्मण उवाच

यदि प्रीतिमती सत्यं नोपचाराद्ब्रवीषि माम् ।
तदुपायं समाचक्ष्व येन यामि स्वमालयम् ॥६८॥

वरूथिन्युवाच

निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान् ॥६९॥

ब्राह्मण उवाच

न भोगार्थाय विप्राणां शस्यते हि वरूथिनी ।
इह क्लेशाय विप्राणां चेष्टा प्रेत्याफलप्रदा ॥७०॥

वरूथिन्युवाच

सन्त्राणं म्रियमाणाया मम कृत्वा परत्र ते ।
पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि ॥७१॥

एवं च द्वयमप्यत्र तवोपचयकारणम् ।
प्रत्याख्यानादहं मृत्युं त्वञ्च पापमवाप्स्यसि ॥७२॥

ब्राह्मण उवाच

परस्त्रियं नाभिलषेदित्युचुर्गुरवो मम ।
तेन त्वां नाभिवाञ्छामि कामं विलप शुष्य वा ॥७३॥

मार्कण्डेय उवाच

इत्युक्त्वा स महाभागः स्पृष्ट्वापः प्रयतः शुचिः ।
प्राहेदं प्रणिपत्याग्निं गार्हपत्यमुपांशुना ॥७४॥

भगवन् ! गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणाम् ।
त्वत्त आहवनीयोऽग्निर्दक्षिणाग्निश्च नान्यतः ॥७५॥

युष्मदाप्यायनाद् देवा वृष्टिशस्यादिहेतवः ।
भवन्ति शस्यादखिलं जगद्भवति नान्यतः ॥७६॥

एवं त्वत्तो भवत्येतद्येन सत्येन वै जगत् ।
तथाहमद्य स्वं गेहं पश्येयं सति भास्करे ॥७७॥

यथा वै वैदिकं कर्म स्वकाले नोज्झितं मया ।
तेन सत्येन पश्येयं गृहस्थोऽद्य दिवाकरम् ॥७८॥

यथा च न परद्रव्ये परदारे च मे मतिः ।
कदाचित् साभिलाषाभूत्तथैतत् सिद्धिमेतु मे ॥७९॥

इति श्रीमार्कण्डेयपुराणेठब्राह्मणवाक्यम्ऽ नामैकषष्टितमोऽध्यायः

N/A

References : N/A
Last Updated : March 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP