संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
षट्त्रिंशोऽध्यायः

मार्कण्डेयपुराणम् - षट्त्रिंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


जड उवाच

स एवमनुशिष्टः सन् मात्रा संप्राप्य यौवनम् ।
ऋतध्वजसुतश्चक्रे सम्यग्दारपरिग्रहम् ॥१॥

पुत्रांश्चोत्पादयामास यज्ञैश्चाप्ययजद्विभुः ।
पितुश्च सर्वकालेषु चकाराज्ञानुपालनम् ॥२॥

ततः कालेन महता संप्राप्य चरमं वयः ।
चक्रेऽभिषेकं पुत्रस्य तस्य रज्ये ऋतध्वजः ॥३॥

भार्यया सह धर्मात्मा यियासुस्तपसे वनम् ।
अवतीर्णो महारक्षो महाभागो महीपतिः ॥४॥

मदालसा च तनयं प्राहेदं पश्चिमं वच ।
कामोपभोगसंसर्गप्रहाणाय सुतस्य वै ॥५॥

मदालसोवाच

यदा दुः खमसह्यं ते प्रियबन्धुवियोगजम् ।
शत्रुबाधोद्भवं वापि वित्तनाशात्मसम्भवम् ॥६॥

भवेत्तत् कुर्वतो राज्यं गृहधर्मावलम्बिनः ।
दुः खायतनभूतो हि ममत्वालम्बनो गृही ॥७॥

तदास्मात् पुत्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् ।
वाच्यं ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम् ॥८॥

जड उवाच

इत्युक्त्वा प्रददौ तस्मै सौवर्णं साङ्गुलीयकम् ।
आशिषश्चापि या योग्याः परुषस्य गृहे सतः ॥९॥

ततः कुबलयाश्वोऽसौ सा च देवी मदालसा ।
पुत्राय दत्त्वा तद्राज्यं तपसे काननं गतौ ॥१०॥

N/A

References : N/A
Last Updated : March 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP