संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
पञ्चत्रिंशोऽध्यायः

मार्कण्डेयपुराणम् - पञ्चत्रिंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


मदालसोवाच

अतः परं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् ।
भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम् ॥१॥

अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ।
शशकः कच्छपो गोधा श्वावित् खड्गोऽथ पुत्रक ॥२॥

भक्ष्या ह्येते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ ।
पितृदेवादिशेषश्च श्राद्धे ब्राह्मणकाम्यया ॥३॥

प्रोक्षितञ्चौषधार्थञ्च खादन्मांसं न दुष्यति ।
शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् ॥४॥

शाकमूलफलानाञ्च तथा विदलचर्मणाम् ।
मणिवज्रप्रवालानान्तथा मुक्ताफलस्य च ॥५॥

गात्राणाञ्च मनुष्याणामम्बुना शौचमिष्यते ।
यथायसानां तोयेन ग्राव्णः सङ्घर्षणेन च ॥६॥

सस्त्रेहानाञ्च भाण्डानां शुद्धिरुष्णेन वारिणा ।
शूर्पधान्याजिनानाञ्च मुषलोलूखलस्य च ॥७॥

संहतानाञ्च वस्त्राणां प्रोक्षणात् सञ्चयस्य च ।
वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते ॥८॥

तृणकाष्ठौषधीनाञ्च प्रोक्षणात् शुद्धिरिष्यते ।
आविकानां समस्तानां केशानाञ्चापि मेध्यता ॥९॥

सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः ।
साम्बुना तात ! भवति उपघातवतां सदा ॥१०॥

तथा कार्पासिकानाञ्च विशुद्धिर्जलभस्मना ।
दारुदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥११॥

पुनः पाकेन भाण्डानां पार्थिवानाञ्च मेध्यता ।
शुचिर्भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ॥१२॥

रथ्यागतमविज्ञातं दासवर्गादिनाहृतम् ।
वाक्रप्रशास्तं चिरातीतमनेकान्तरितं लघु ॥१३॥

अतिप्रभूतं बालञ्च वृद्धातुरविचेष्टितम् ।
कर्मान्ताङ्गाराशालाश्च स्तनन्धयसुताः स्त्रियः ॥१४॥

शुचिन्यश्च तथैवापः स्त्रन्त्योऽगन्धबुद्बुदाः ।
भूमिर्विशुध्यते कालाद्दाहमार्जनगोक्रमैः ॥१५॥

लेपादुल्लेखनात् सेकाद्वेश्मसंमार्जनार्चनात् ।
केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥१६॥

मृदम्बुभस्मना तात ! प्रोक्षितव्यं विशुद्धये ।
औदुम्बराणामम्लेन क्षारेण त्रपुसीसयोः ॥१७॥

भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावाद् द्रवस्य च ।
अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥१८॥

अन्येषाञ्चैव तद्द्रव्यैर्वर्णगन्धापहारतः ।
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ॥१९॥

तथा मांसञ्च चण्डालक्राव्यादादिनिपातितम् ।
रथ्यागतञ्च चेलादि तात ! वातात् शुचि स्मृतम् ॥२०॥

रजोऽग्निरश्वो गौश्छाया रश्मयः पवनो मही ।
विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः ॥२१॥

अजाश्वौ मुखतो मेध्यौ न गोर्वत्सस्य चाननम् ।
मातुः प्रस्त्रवणं मेध्यं शकुनिः फलपातने ॥२२॥

आसनं शयनं यानं नावः पथि तृणानि च ।
सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् ॥२३॥

रथ्यावसर्पण-स्त्रान-क्षुत्पान-म्लानकर्मसु ।
आचामेत यथान्यायं वासो विपरिधाय च ॥२४॥

स्पृष्टानामप्यसंसर्गैर्विरथ्याकर्दमाम्भसाम् ।
पक्वेष्टरचितानाञ्च मेध्यता वायुसङ्गमात् ॥२५॥

प्रभूतोपहतादन्नादग्रमुद्धृत्य सन्त्यजेत् ।
शेषस्य प्रोक्षणं कुर्यादाचम्यादिभस्तथा मृदा ॥२६॥

उपवासस्त्रिरात्रन्तु दुष्टभक्ताशिनो भवेत् ।
अज्ञाते ज्ञानपूर्वन्तु तद्दोषोपशमेन तु ॥२७॥

उदक्याश्वशृगालादीन् सूतिकान्त्यावसायिनः ।
स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥२८॥

नारं स्पृष्ट्वास्थि सस्त्रेहं स्त्रातः शुध्यति मानवः ।
आचम्यैव तु निः स्त्रेहं गामालभ्यार्कमीक्ष्य वा ॥२९॥

न लङ्घयेत् तथैवासृक्ष्ठीवनोद्वर्तनानि च ।
नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत् कदाचन ॥३०॥

न चालपेज्जनद्विष्टां वीरहीनान्तथा स्त्रियम् ।
गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्वहिः ॥३१॥

पञ्च पिण्डाननुधृत्य न स्त्रायात् परवारिणि ।
स्त्रायीत देवखातेषु गङ्गा-ह्रदृसरित्सु च ॥३२॥

देवता-पितृ-सच्छास्त्र-यज्ञ-मन्त्रादिनिन्दकैः ।
कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् ॥३३॥

अवलोक्य तथोदक्यामन्त्यजं पतितं शवम् ।
विधर्मि-सूतिका-षण्ड-विवस्त्रान्त्यावसायिनः ॥३४॥

सूतनिर्यातकांश्चैव परदाररताश्च ये ।
एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः ॥३५॥

अभोज्यं सूतिका-षण्ड-मार्जाराखुश्वकुक्कुटान् ।
पतिताविद्धचण्डाल-मृतहारांश्च धर्मवित् ॥३६॥

संस्पृश्य शुध्यते स्त्रानादुदक्या ग्रामशूकरौ ।
तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ॥३७॥

यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः ।
यश्च ब्राह्मणसन्त्यक्तः किल्विषी स नराधमः ॥३८॥

नित्यस्य कर्मणो हानिं न कुर्वोत कदाचन ।
तस्य त्वकरणे बन्धः केवलं मृतजन्मसु ॥३९॥

दशाहं ब्राह्मणस्तिष्ठेद्दानहोमादिवर्जितः ।
क्षत्रियो द्वादशाहञ्च वैश्यो मासार्धमेव च ॥४०॥

शूद्रस्तु मासमासीत निजकर्मविवर्जितः ।
ततः परं निजं कर्म कुर्युः सर्वे यथोदितम् ॥४१॥

प्रोताय सलिलं देयं बहिर्दग्ध्वा तु गोत्रिकैः ।
प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा ॥४२॥

भस्मास्थिचयनं कार्यं चतुर्थे गोत्रिकैर्दिने ।
उर्ध्वं संचयनात् तेषामङ्गस्पर्शो विधीयते ॥४३॥

सोदकैस्तु क्रियाः सर्वाः कार्याः संचयनात्परम् ।
स्पर्श एव सपिण्डानां मृताहनि तथोभयोः ॥४४॥

अन्वेकमृक्षमाशस्त्र-तोयोद्बन्धन-वह्निषु ।
विषप्रपातादिमृते प्रायोनाशकयोरपि ॥४५॥

बाले देशान्तरस्थे च तथा प्रव्रजिते मृते ।
सद्यः शौचमथान्यैश्च त्र्यहमुक्तमशौचकम् ॥४६॥

सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन्मृतो यदि ।
पूर्वाशौचसमाख्यातैः कार्यास्त्वत्र दिनैः क्रियाः ॥४७॥

एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके ।
सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च ॥४८॥

जाते पुत्रे पितुः स्त्रानं सचेलन्तु विधीयते ।
तत्रापि यदि चान्यस्मिन् जाते जायेत चापरः ॥४९॥

तत्रापि शुद्धिरुद्दिष्टा पूर्वजन्मवतो दिनैः ।
दशद्वादशमासार्ध-माससंख्यैर्दिनैर्गतैः ॥५०॥

स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि ।
प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टं ततः परम् ॥५१॥

दाननि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः ।
यद्यदिष्टतमं लोके यच्चापि ययितं गृहे ॥५२॥

तत्तद् गुणवते देयं तदेवाक्षयमिच्छता ।
पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधम् ॥५३॥

प्रतोददण्डौ च तथा सम्यग्वर्णाः कृतक्रियाः ।
स्ववर्णधर्मनिर्दिष्टमुपादानं तथा क्रियाः ॥५४॥

कुर्युः समस्ताः शुचिनः परत्रेह च भूतिदाः ।
अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥५५॥

धर्मतो धनमाहार्यं यष्टव्यञ्चापि यत्नतः ।
यच्चापि कुर्वतो नात्मा जुगुप्सामेति पुत्रक ! ॥५६॥

तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजने ।
एवमाचरतो वत्स ! पुरुषस्य गृहे सतः ।
धर्मार्थकामसंप्राप्त्या परत्रेह च शोभनम् ॥५७॥

इति श्रीमार्कण्डेयपुराणेऽलर्कानुशासने वर्ज्यावर्ज्यनामा पञ्चत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : March 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP