संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
एकविंशोऽध्यायः

मार्कण्डेयपुराणम् - एकविंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


पितोवाच

गालवेन समं गत्वा नृपपुत्रेण तेन यत् ।
कृतं तत् कथ्यतां पुत्रौ विचित्रा युवयोः कथा ॥१॥

पुत्रावूचतुः

स गालवाश्रमे रम्ये तिष्ठन् भूपालनन्दनः ।
सर्वविघ्रोपशमनं चकार ब्रह्मवादिनाम् ॥२॥

वीरं कुवलयाश्वं तं वसन्तं गालवाश्रमे ।
मदावलेपोपहतो नाजानाद्दानवाधमः ॥३॥

ततस्तं गालवं विप्रं सन्ध्योपासनतत्परम् ।
शौकरं रूपमास्थाय प्रधर्षयितुमागतम् ॥४॥

मुनिशिष्यैरथोत्क्रुष्टे शीघ्रमारुह्य तं हयम् ।
अन्वधावद्वराहं तं नृपपुत्रः शरासनी ॥५॥

आजघान च बाणेन चन्द्रार्धाकारवर्चसा ।
आकृष्य बलवच्चापं चारुचित्रोपशोभितम् ॥६॥

नाराचाभिहतः शीघ्रमात्मत्राणपरो मृगः ।
गिरिपादपसम्बाधां सोऽन्वक्रामन्महाटवीम् ॥७॥

तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः ।
चोदितो राजपुत्रेण पितुरादेशकारिणा ॥८॥

अतिक्रम्याथ वेगेन योजनानि सहस्रशः ।
धरण्यां विवृते गर्ते निपपात लघुक्रमः ॥९॥

तस्यानन्तरमेवाशु सोऽप्यश्वी नृपतेः सुतः ।
निपपात महागर्ते तिमिरौघसमावृते ॥१०॥

ततो नादृश्यत मृगः स तस्मिन् राजसूनुना ।
प्रकाशञ्च स पातालमपश्यत् तत्र नापि नम् ॥११॥

ततोऽपश्यत् स सौवर्ण-प्रासादशतसंकुलम् ।
पुरन्दरपुरप्रख्यं पुरं प्राकारशोभितम् ॥१२॥

तत् प्रविश्य स नापश्यत् तत्र कञ्चिन्नरं पुरे ।
भ्रमता च ततो दृष्टा तत्र योषित् त्वरान्विता ॥१३॥

सा पृष्टा तेन तन्वङ्गी प्रस्थिता केन कस्य वा ।
नोवाच किञ्चित् प्रासादमारुरोह च भामिनी ॥१४॥

सोऽप्यश्वमेकतो बद्ध्वा तामेवानुससार वै ।
विस्मयोत्फुल्लनयनो निः शङ्को नृपतेः सुतः ॥१५॥

ततोऽपश्यत् सुविस्तीर्णे पर्यङ्के सर्वकाञ्चने ।
निषण्णां कन्यकामेकां कामयुक्तां रतीमिव ॥१६॥

विस्पष्टेन्दुमुखीं सुभ्रूं पीनश्रोणिपयोधराम् ।
बिम्बाधरोष्ठीं नन्वङ्गीं नीलोत्पलविलोचनाम् ॥१७॥

रक्ततुङ्गनखीं श्यामां मृद्वीं ताम्रकराङ्घ्रिकाम् ।
करभोरुं सुदशनां नीलसूक्ष्मस्थिरालकाम् ॥१८॥

तां दृष्ट्वा चारुसर्वाङ्गीमनङ्गाङ्गलतामिव ।
सोऽमन्यत् पार्थिवसुतस्तां रसातलदेवताम् ॥१९॥

सा च दृष्ट्वैव तं बाला नीलकुञ्चितमूर्धजम् ।
पीनोरुस्कन्धबाहुं तममंस्त मदनं शुभा ॥२०॥

उत्तस्थौ च महाभागा चित्तक्षोभमवाप्य सा ।
लज्जाविस्मयदैन्यानां सद्यस्तन्वी वशं गता ॥२१॥

कोऽयं देवो नु यक्षो वा गन्धर्वो वोरगोऽपि वा ।
विद्याधरो वा सम्प्राप्तः कृतपुण्यरतिर्नरः ॥२२॥

एवं विचिन्त्य वहुधा निश्वस्य च महीतले ।
उपविश्य ततो भेजे सा मूर्च्छां मदिरक्षणा ॥२३॥

सोऽपि कामशराघातमवाप्य नृपतेः सुतः ।
तां समाश्वासयामास न भेतव्यमिति ब्रुवन् ॥२४॥

सा च स्त्री या तदा दृष्टा पूर्वं तेन महात्मना ।
तालवृन्तमुपादाय पर्यवीजयदाकुला ॥२५॥

समाश्वास्य तदा पृष्टा तेन संमोहकारणम् ।
किञ्चिल्लज्जान्विता बाला तस्याः सख्युर्न्यवेदयत् ॥२६॥

सा चास्मै कथयामास नृपपुत्राय विस्तरात् ।
मोहस्य कारणं सर्वं तद्दर्शनसमुद्भवम् ।
यथा तया समाख्यातं तद्वृत्तान्तञ्च भामिनी ॥२७॥

स्त्र्युवाच

विश्वावसुरिति ख्यातो दिवि गन्धर्वराट् प्रभो ।
तस्येयमात्मजा सुभ्रूर्नाम्नरा ख्याता मदालसा ॥२८॥

वज्रकेतोः सुतश्चोग्रो दानवोऽरिविदारणः ।
पातालकेतुर्विख्यातः पातालान्तरसंश्रयः ॥२९॥

तेनेयमुद्यानगता कृत्वा मायां तमोमयीम् ।
अपहृत्य मयां हीना बाला नीता दुरात्मना ॥३०॥

आगामिन्यां त्रयोदश्यामुद्वक्ष्यति किलासुरः ।
स तु नार्हति चार्वङ्गीं शूद्रो वेदश्रुतीमिव ॥३१॥

अतीते च दिने बालामात्मव्यापदनोद्यताम् ।
सुरभिः प्राह नायं त्वं प्राप्स्यते दानवाधमः ॥३२॥

मर्त्यलोकमनुप्राप्तं य एनं छेत्स्यते शरैः ।
सते भर्ता महाभागे अचिरेण भविष्यति ॥३३॥

अहं चास्याः सखी नाम्नरा कुण्डलेति मनस्विनी ।
सुता विन्ध्यवतः पत्नी वीरपुष्करमालिनः ॥३४॥

हते भर्तरि शुम्भेन तीर्थात् तीर्थमनुव्रता ।
चरामि दिव्यया गत्या परलोकार्थमुद्यता ॥३५॥

पातालकेतुर्दुष्टात्मा वाराहं वपुरास्थितः ।
केनापि विद्धो बाणेन मुनीनां त्राणकारणात् ॥३६॥

तञ्चाहं तत्त्वतोऽन्विष्य त्वरिता समुपागता ।
सत्यमेव स केनापि ताडितो दानवाधमः ॥३७॥

इयञ्च मूर्च्छामगमत् कारणं यत् शृणुष्व तत् ।
त्वयि प्रीतिमती बाला दर्शनादेव मानद ॥३८॥

देवपुत्रोपमे चारु-वाक्यादिगुणशालिनि ।
भर्या चान्यस्य विहिता येन विद्धः स दानवः ॥३९॥

एतस्मात् कारणान्मोहं महान्तमियमागता ।
यावज्जीवं च तन्वङ्गी दुः खमेवोपभोक्ष्यते ॥४०॥

त्वय्यस्या हृदयं रागि भर्ता चान्यो भविष्यति ।
यावज्जीवमतो दुः खं सुरभ्या नान्यथा वचः ॥४१॥

अहं त्वस्याः प्रभी प्रीत्या दुः खितात्र समागता ।
यतो विशेषो नैवास्ति स्वसखी-निजदेहयोः ॥४२॥

यद्येषाभिमतं वीरं पतिमाप्नोति शोभना ।
ततस्तपस्त्वहं कुर्यां निर्व्यलीकेन चेतसा ॥४३॥

त्वन्तु को वा किमर्थं वा सम्प्राप्तोऽत्र महामते ।
देवो दैत्यो नु गन्धर्वः पन्नगः किन्नरोऽपि वा ॥४४॥

न ह्यत्र मानुषगतिर्न चेदृङ्मानुषं वपुः ।
तत्त्वमाख्याहि कथितं यथैवावितथं मया ॥४५॥

कुवलयाश्व उवाच

यन्मां पृच्छसि धर्मज्ञे कस्त्वं किं वा समागतः ।
तच्छृणुष्वामलप्रज्ञे कथयाम्यादितस्तव ॥४६॥

राज्ञः शत्रुजितः पुत्रः पित्रा सम्प्रेषितः शुभे ।
मुनिरक्षणमुद्दिश्य गालवाश्रममागतः ॥४७॥

कुर्वतो मम रक्षाञ्च मुनीनां धर्मचारिणाम् ।
विघ्नार्थमागतः कोषऽपि शौकरं रूपमास्थितः ॥४८॥

मया स विद्धो बाणेन चन्द्रार्धाकारवर्च्चसा ।
अपक्रान्तोऽतिवेगेन तमस्म्यनुगतो हयी ॥४९॥

पपात सहसा गर्ते सक्रीडोऽश्वश्च मामकः ।
सोऽहमश्वं समारूढस्तमस्येकः परिभ्रमन् ॥५०॥

प्रकाशमासादितवान् दृष्टा च भवती मया ।
पृष्टया च न मे किञ्चिद्भवत्या दत्तमुत्तरम् ॥५१॥

त्वाञ्चैवानुप्रविष्टोऽहमिमं प्रासादमुत्तमम् ।
इत्येतत् कथितं सत्यं न देवोऽहं न दानवः ॥५२॥

न पन्नगो न गन्धर्वः किन्नरो वा शुचिस्मिते ।
समस्ता पूज्यपक्षो वै देवाद्या मम कुण्डले ।
मनुष्योऽस्मि विशङ्का ते न कर्तव्यात्र कर्हिचित् ॥५३॥

पुत्रावूचतुः

ततः प्रहृष्टा सा कन्या सखीवदनमुत्तमम् ।
लज्जाजडं वीक्षमाणा किञ्चिन्नोवाच भामिनी ॥५४॥

सा सखी पुनरप्येनां प्रहृष्टा प्रत्युवाच ह ।
यथावत् कथितं तेन सुरभ्या वचनानुगे ॥५५॥

कुण्डलोवाच

वीर सत्यमसन्दिग्धं भवताभिहितं वचः ।
नान्यत्र हृदयन्त्वस्या दृष्ट्वा स्थैर्यं प्रयास्यति ॥५६॥

चन्द्रमेवाधिका कान्तिः समुपैति रविं प्रभा ।
भूतिर्धन्यं धृतिर्धोरं क्षान्तिरभ्येति चोत्तमम् ॥५७॥

त्वयैव विद्धोऽसन्दिग्धं स पापो दानवाधमः ।
सुरभिः सा गवां माता कथं मिथ्या वदिष्यति ॥५८॥

तद्धन्येयं सभाग्या च त्वत्सम्बन्धं समेत्य वै ।
कुरुष्व वीर यत् कार्यं विधिनैव समाहितम् ॥५९॥

पुत्रावूचतुः

परवानहमित्याह राजपुत्रः सतां पितुः ।
सा च तं चिन्तयामास तुम्बुरुं तत्कुले गुरुम् ॥६०॥

स चापि तत्क्षणात् प्राप्तः प्रगृहीतसमित्कुशः ।
मदालसायाः सम्प्रीत्या कुण्डलागौरवेण च ॥६१॥

प्रज्वाल्य पावकं हुत्वा मन्त्रवित् कृतमङ्गलाम् ।
वैवाहिकविधिं कन्यां प्रतिपाद्य यथागतम् ॥६२॥

जगाम तपसे धीमान् स्वाश्रमपदं तदा ।
सा चाह तां सखीं बालां कृतार्थास्मि वरानने ॥६३॥

संयुक्ताममुना दृष्ट्वा त्वामहं रूपशालिनीम् ।
तमस्तप्स्येऽहमतुलं निर्व्यलीकेन चेतसा ॥६४॥

तीर्थाम्बुधूतपापा च भवित्री नेदृशी यथा ।
तञ्चाह राजपुत्रं सा प्रश्रयावनता तदा ।
गन्तुकामा निजसखी-स्नेहविक्लवभाषिणी ॥६५॥

कुण्डलोवाच

पुंभिरप्यमितप्रज्ञ नोपदेशो भवद्विधे ।
दातव्यः किमुत स्त्रीभिरतो नोपदिशामि ते ॥६६॥

किन्त्वस्यास्तनुमध्यायाः स्नेहाकृष्टेन चेतसा ।
त्वया विश्रम्भिता चास्मि स्मारयाम्यरिसूदन ॥६७॥

भर्तव्या रक्षितव्या च भार्या हि पतिना सदा ।
धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥६८॥

यदा भार्या च भर्ता च परस्परवशानुगौ ।
तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥६९॥

कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो ।
प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ॥७०॥

तथैव भर्तारमृते भार्या धर्मादिसाधने ।
न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥७१॥

देवाता-पितृ-भृत्यानामतिथीनाञ्च पूजनम् ।
न पुंभिः शक्यते कर्तुमृते भार्यां नृपात्मज ॥७२॥

प्राप्तोऽपि चार्थो मनुजैरानीतोऽपी निजं गृहम् ।
क्षयमेति विना भार्यां कुभार्यासंश्रयेऽपि वा ॥७३॥

कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते ।
दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ॥७४॥

पितॄन् पुत्रैस्तथैवान्न-साधनैरतिथीन् नरः ।
पूजाभिरमरांस्तद्वत् साध्वीं भार्यां नरोऽवति ॥७५॥

स्त्रियाश्चापि विना भर्त्रा धर्मकामार्थसन्ततिः ।
नैव तस्मात् त्रिवर्गोऽयं दाम्पत्यमधिगच्छति ॥७६॥

एतन्मयोक्तं युवयोर्गच्छामि च यथेप्सितम् ।
वर्ध त्वमनया सार्धं धन-पुत्र-सुखायुषा ॥७७॥

पुत्रावूचतुः

इत्युक्त्वा सा परिष्वज्य स्वसखीं तं नमस्य च ।
जगाम दिव्यया गत्या यथाभिप्रेतमात्मनः ॥७८॥

सोऽपि शत्रुजितः पुत्रस्तामारोप्य तुरङ्गमम् ।
निर्गन्तुकामः पातालाद्विज्ञातो दनुसम्भवैः ॥७९॥

ततस्तैः सहसोत्क्रुष्टं ह्रियते ह्रियतेऽति वै ।
कन्यारत्नं यदानीतं दिवः पातालकेतुना ॥८०॥

ततः परिघ-निस्त्रिंश-गदा-शूल-शरायुधम् ।
दानवानां बलं प्राप्तं सह पातालकेतुना ॥८१॥

तिष्ठ तिष्ठेति जल्पन्तस्ते तदा दानवोत्तमाः ।
शरवर्षैस्तथा शूलैर्ववर्षुर्नृपनन्दनम् ॥८२॥

स च शत्रुजितः पुत्रस्तदस्त्राण्यतिवीर्यवान् ।
चिच्छेद शरजालेन प्रहसन्निव लीलया ॥८३॥

क्षणेन पातालतलमसिखक्त्यृष्टिशायकैः ।
छिन्नैः सञ्छन्नमभवदृतध्वजशरोत्करैः ॥८४॥

ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दानवान् ।
तेन ते दानवाः सर्वे सह पातालकेतुना ॥८५॥

ज्वालामालातितीव्रेण स्फुटदस्थिचयाः कृताः ।
निर्दग्धाः कापिलं तेजः समासाद्येव सागराः ॥८६॥

ततः स राजपुत्रोऽश्वी निहत्यासुरसत्तमान् ।
स्त्रीरत्नेन समं तेन समागच्छत् पितुः पुरम् ॥८७॥

प्रणिपत्य च तत् सर्वं स तु पित्रे न्यवेदयत् ।
पातालगमनञ्चैव कुण्डलायाश्च दर्शनम् ॥८८॥

तद्वन्मदालसाप्राप्तिं दानवैश्चापि सङ्गरम् ।
वधञ्च तेषामस्त्रेण पुनरागमनं तथा ॥८९॥

इति श्रुत्वा पिता तस्य चरितं चारुचेतसः ।
प्रीतिमानभवच्चेदं परिष्वज्याह चात्मजम् ॥९०॥

सत्पात्रेण त्वया पुत्र तारितोऽहं महात्मना ।
भयेभ्यो मुनयस्त्राता येन सद्धर्मचारिणः ॥९१॥

मत्पूर्वैः ख्यातिमानीतं मया विस्तारितं पुनः ।
पराक्रमवता वीर त्वया तद्वहुलीकृतम् ॥९२॥

यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा ।
तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥९३॥

तद्वीर्यादधिकं यस्तु पुनरन्यत् स्वशक्तितः ।
निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥९४॥

यः पिता समुपात्तानि धनवीर्ययशांसि वै ।
न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाधमम् ॥९५॥

तन्मया ब्राह्मणत्राणं कृतमासीद्यथा त्वया ।
पातालगमनं यच्च यच्चासुरविनाशनम् ॥९६॥

एतदप्यधिकं वत्स तेन त्वं पुरुषोत्तमः ।
तद्धन्योऽस्म्य बाल त्वमहमेव गुणाधिकम् ॥९७॥

त्वां पुत्रमीदृशं प्राप्य श्लाघ्यः पुण्यवतामपि ।
न स पुत्रकृतां प्रीतिं मन्ये प्राप्नोति मानवः ॥९८॥

पुत्रेण नातिशयितो यः प्रज्ञादानविक्रमैः ।
धिग्जन्म तस्य यः पित्रा लोके विज्ञायते नरः ॥९९॥

यः पुत्रात् ख्यातिमभ्येति तस्य जन्म सुजन्मनः ।
आत्मना ज्ञायते धन्यो मध्यः पितृपितामहैः ॥१००॥

मातृपक्षेण मात्रा च ख्यातिमेति नराधमः ।
तत् पुत्र धनवीर्यैस्त्वं विवर्धस्व सुखेन च ॥१०१॥

घन्धर्वतनया चेयं मा त्वया वै वियुज्यताम् ।
इति पित्रा बहुविधं प्रियमुक्तः पुनः पुनः ॥१०२॥

परिष्वज्य स्वमावासं सभार्यः स विसर्जितः ।
स तया भार्याया सार्धं रेमे तत्र पितुः पुरे ॥१०३॥

अन्येषु च तथोद्यान-वन-पर्वतसानुषु ।
श्वश्रू-श्वसुरयोः पादौ प्रणिपत्य च सा शुभा ।
प्रातः प्रातस्ततस्तेन सह रेमे सुमध्यमा ॥१०४॥

इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसापरिणयनं नामैकविंशोऽध्यायः

N/A

References : N/A
Last Updated : March 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP