संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
पाशुपतमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - पाशुपतमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये पाशुपत मूर्तेर्लक्षणमुच्यते ।
समपादं स्थानकं च चन्द्रशेखरमूर्तिवत् ॥१॥

त्रिणेत्रं चतुर्भुजं सौम्यं ऊर्ध्वकेशं महातनुम् ।
अभयं शूलहस्तं च दक्षिणे तु करद्वयम् ॥२॥

वरदं चाक्षमालां च वामपार्श्वकरद्वयम् ।
प्रवालसदृशप्रख्यं सौम्यनेत्राति शीतलम् ॥३॥

सर्वाभरणसंयुक्तं किंचित्प्रहसिताननम् ।
नित्योत्सवायबिम्बं तत् स्थानकं वासनं तु वा ॥४॥

तदेवाग्नि समकर्णं रक्ताक्षं कुटिलभ्रुवम् ।
तीक्ष्णदंष्ट्रास्य संयुक्तं व्यालयज्ञोपवीतकम् ॥५॥

ज्वालामाला शिखाकारं अतिरक्त निवासधृत् ।
शूलं ह्यधोमुखं धृत्वा कपालं वरदे धृतम् ॥६॥

अथवाभयं विना शूलमूलं भृत्त्वा तु तत्करे ।
शूलाग्रं वरदेनैव संग्राह्य त्र्यजथो धृतम् ॥७॥

दक्षिणे तु परे हस्ते टंकं खड्गं तु वामके ।
रौद्रं पाशुपतं ह्येतत् बिम्बे लिंगे तु पूजितम् ॥८॥

ध्यानपूजानिमित्ताय तन्मूर्तिं च वदाम्यहम् ।
एतां मूर्तिं सकृद् ध्यायेत् सर्वशत्रुविनाशनम् ॥९॥

एतां तु रौद्र मूर्तिं तु प्रतिमां तु न कारयेत् ।


इत्यंशुमान्काश्यपे पाशुपतमूर्तिलक्षणपटलः (चतुस्सप्ततितमः) ॥७४॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP