संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
भानुभूमिविधिपटलः

अंशुमत्काश्यपागमः - भानुभूमिविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण भानु भूमि विधिं परम् ।
तस्य विस्तारतुंगं तु प्रोक्तं प्रासादमानकम् ॥१॥

स सप्तधर्मभागं तु कृत्वा प्रासादविस्तृतम् ।
भूतांशं गर्भगेहं तु पक्षांशं गृहपिण्डिका ॥२॥

अलिन्दमेकभागेन कुड्यमेकांशमानतः ।
अलिन्दं तु शिवांशं स्याद्धारा भागेन कल्पयेत् ॥३॥

अथवा गर्भगेहं तु गुणांशेनैव कारयेत् ।
गर्भगेहस्य तुल्यं वा गृहपिण्डेस्तु विस्तृतम् ॥४॥

शेषं प्रागिव कर्तव्यं अलिन्दं कुड्यहारया ।
विन्यास सूत्रयोरन्तसप्तादशविभाजिते ॥५॥

गुणांशं मध्यशालास्या कर्णकूटं शिवांशकम् ।
तयोर्मध्ये तु पक्षांशं शालादीर्घमुदाहृतम् ॥६॥

कूटकोष्ठान्तरे चैव कोष्ठयोरन्तरेऽपि वा ।
शिवांशं पंजरव्यासं कर्णकूटमिवाकृतिः ॥७॥

हारान्तरं तदर्धांशं क्षुद्रपंजरसंयुतम् ।
एवमादितलं कुर्यात् ऊर्ध्वं रुद्रतलोक्तवत् ॥८॥

सप्तविंशच्छतं भागं कृत्वा हर्म्यो द्विजोत्तम ! ।
धरातलोदयभूतांशं नवांशं चरणोदयम् ॥९॥

सार्धवेदांश मंचोच्चं ऊर्ध्वं भानुतलोक्तवत् ।
एवं भानुतलं प्रोक्तं त्रयोदशतलं शृणु ॥१०॥


इत्यंशुमान्काश्यपे भानुभूमिविधि पटलः (अष्टत्रिंशः) ॥३८॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP