संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
अर्धनारीश्वरमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - अर्धनारीश्वरमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथार्धनारीमूर्तेस्तु वक्ष्येऽहं शृणु सुव्रत ! ।
चतुर्भुजं च द्विभुजं द्विविधं परिकीर्तितम् ॥१॥

समभंगस्थानकस्योक्तमार्गेणैव नतायतः ।
सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् ॥२॥

वामेऽर्धपार्वती युक्तं दक्षिणेऽर्धं महेश्वरम् ।
अभयं परशुं सव्ये हस्ते तत्तु शिवांशकम् ॥३॥

वृषभमूर्ध्नि विन्यस्त कोर्परं वामहस्तके ।
तदन्यवामहस्ते तु कटकं पुष्पसंयुतम् ॥४॥

द्विभुजे वरदं सव्ये वामहस्ते तु पुष्पधृत् ।
शिवस्या भरणं सव्ये वामे स्त्रीभूषणान्वितम् ॥५॥

पुंस्तनं दक्षिणे पार्श्वे वामे स्त्रियः पयोधरम् ।
अथवा कुंचितं सव्यं पादं वामं तु सुस्थितम् ॥६॥

सव्यं शूलधरं हस्तं वामं पुष्पधरं भवेत् ।
वरदं दक्षिणं हस्तं अन्योक्षशिरकोर्परम् ॥७॥

कपालं दक्षिणे हस्ते वामहस्तं प्रसारितम् ।
दक्षिणे रौद्रदृष्टिः स्याद्वामपार्श्वे तु शीतलम् ॥८॥

दुकूलं चोरुमध्यान्तं सव्यं गुल्फान्तमन्यकम् ।
एवं समासतः प्रोक्तं अर्धनारीश्वरं हरम् ॥९॥


इत्यंशुमान्काश्यपे अर्धनारीश्वरमूर्तिलक्षणपटलः (द्वासप्ततितमः) ॥७२॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP