संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
पादशिलादिलक्षणपटलः

अंशुमत्काश्यपागमः - पादशिलादिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेण पादशैलादिलक्षणम् ।
लिंगतारत्रयं व्यासं तत्त्रिपादसमुन्नतम् ॥१॥

श्रेष्ठमध्यकनिष्ठोच्चं तयोर्मध्येऽष्टभाजिते ।
व्यासं तु नवभागं तु तत्त्रिपादोक्तमुन्नतम् ॥२॥

तदर्धमधमोत्तुंगं तयोर्मध्येऽष्टभाजिते ।
तुंगं तु नवधा प्रोक्तं पादाश्म नागरे विदुः ॥३॥

गर्भगेहविशालाक्षं श्रेष्ठं व्यासमुदाहृतम् ।
तदर्धं कन्यसं प्रोक्तं तयोर्मध्येष्टभाजिते ॥४॥

नवधा च शिलाव्यासं तत्त्रिपादोत्तमोदयम् ।
तदर्धमधमं ख्यातं तयोर्मध्येऽष्टभाजिते ॥५॥

नवधा तस्य तुंगं तु द्राविडं ह्येवमुच्यते ।
नालीगृहत्रिभागैक भागमुत्तमविस्तृतम् ॥६॥

तदर्धमधमं ख्यातं तयोर्मध्येऽष्टभाजिते ।
व्यासं तु नवधा तुंगं तत्त्रिभागोत्तमोन्नतम् ॥७॥

तदर्धमधमं तुंगं तयोर्मध्येऽष्टभाजिते ।
तुंगं तु नवधा प्रोक्तं पादाश्म वेशरान्वितम् ॥८॥

लिंगव्यासार्धमाधिक्यं व्यासं तद्वसुभाजिते ।
एकांशमवटे निम्नं लिंगमूलवदाकृतिः ॥९॥

रत्निमानामप्राण नवकोष्ठं बिले कुरु ।
अन्यत्र समतां कुर्यात् आधाराख्य शिला स्मृता ॥१०॥

तदश्मपीठसीमान्तं नन्द्यावर्तशिलादयः ।
लिंगात्पीठावसानं वा एकद्वित्र्यंगुलाधिकम् ॥११॥

नन्द्यावर्तशिलाव्यासं नागरे तु विधीयते ।
पीठव्यसाद्यवैकं वा द्राविडाक्षान्तिकादिकम् ॥१२॥

लिंगव्यासनवांशे तु पीठादेकैकवर्धनात् ।
नन्द्यावर्तशिलाव्यासं नवधा वेसरं हि तत् ॥१३॥

लिंगस्य परितः कल्प्यं चत्वारं चतुरश्रकम् ।
चतुरश्रोचितायामे तेषां दीर्घमुदाहृतम् ॥१४॥

उत्तराग्रं तु प्राग्भागे प्रागग्रं दक्षिणे न्यसेत् ।
पश्चिमे चोत्तराग्रं तु प्रागग्रं चोत्तरे न्यसेत् ॥१५॥

शांकरे प्रथमस्याग्रं अनलाग्रं द्वितीयके ।
तृतीयमूलं निर्-ऋतौ वायुमूलं चतुर्थकम् ॥१६॥

नन्द्यावर्तशिलास्त्वेवं योज्यकल्कगुलोदकैः ।
ऊर्ध्वेष्टबन्धनं लिप्य स्थापयेत्पिण्डिकां बुधैः ॥१७॥

सुधा वा वज्रबन्धं वा लिप्य पीठं प्रयोजयेत् ।
एकाश्मं चोत्तमं पीठं द्वाभ्यां वै मध्यविष्ठरम् ॥१८॥

त्रिचतुष्पंचभिर्वाथ कन्यसं पीठमुच्यते ।
पीठानां तु गलादूर्ध्वं अश्वत्वेकेन कारयेत् ॥१९॥

बहुवस्तु गलाधस्तात् पीठंधरं गले कुरु ।
गलाधस्ताद् दृषद्वौ चेद् पूर्व वै चापरे न्यसेत् ॥२०॥

त्रयश्चोत्तरतस्त्वेकं वामे वामे परद्वयम् ।
चत्वारं चेच्चतुष्कोणे चतुरश्रं प्रकल्पयेत् ॥२१॥

द्विपराश्रं तु कर्तव्या पिण्डिका लक्षणान्विता ।
अथवा चाष्टबन्धैर्वा निश्छिद्रं सुदृढं कुरु ॥२२॥

इष्टका चेत्तु बहुभिः कर्तव्या सुधयान्विता ।
लोहजं रत्नजं चैव दारुजं चैवमेव तु ॥२३॥

सर्वेषां बंधनं चाष्ट बन्धमिव्यभिधीयते ।
विष्णुभागार्धसीम्ना च पिण्डिकोर्ध्वं समुन्नयेत् ॥२४॥

नतोन्नतं न कर्तव्यं कर्तव्ये कर्तृनाशनम् ।
नपुंसकशिलाभिस्तु पीठाधस्ताच्छिलां नयेत् ॥२५॥

एवं ब्रह्मशिलादीनि प्रोक्तं तदविशेषतः ।

इत्यंशुमान्काश्यपे पादशिलादिलक्षणपटलः (त्रिपंचाशः) ॥५३॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP