संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
वृषभवाहनमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - वृषभवाहनमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


वृषवाहनमूर्तेस्तु लक्षणं वक्ष्यतेऽधुना ।
आभंगं समभंगं वा कल्पयेत्कल्पवित्तमः ॥१॥

दक्षिणं सुस्थितं पादं वामपादं तु कुंचितम् ।
उष्णीषमध्यमाद्वामे ललाटाद्वामके तथा ॥२॥

वामनेत्रावसाने च वामनासापुटान्तके ।
दक्षिणे स्तनपीठस्य वामे नाभेश्च मध्यमे ॥३॥

वामोरुमध्यमे पार्ष्ण्योः मध्ये सूत्रं प्रलम्बयेत् ।
एवं तु समभंगं स्यात् न त मानं युगांगुलम् ॥४॥

मुखे पूर्ववदुद्दिष्टे दक्षिणे तु स्तनौ तथा ।
नाभेर्वामे गुणांशे तु वामोरोर्मध्यमे तथा ॥५॥

सु स्थितांघ्रौ तु गुल्फस्य ब्रह्मसूत्रं प्रलम्बयेत् ।
अति भंगमिदं ख्यातं न तं पंचांगुलं भवेत् ॥६॥

वृषस्य मस्तकोर्ध्वे तु न्यसेद्वै वामकोर्परम् ।
हिक्कासूत्रादधो विप्र ! कला वा द्विनवांगुलम् ॥७॥

वामकोर्परलम्बं स्यात् तस्मादासनसीमकम् ।
वृषभस्योदयं ख्यातं वृषं लक्षणवत्कृतम् ॥८॥

वृषमूर्ध्नि तु हस्तेस्तु मध्यांगुलाग्रसीमकम् ।
नाभिसूत्रसमं कुर्यादंगुलं वा नतोन्नतम् ॥९॥

तदहस्ततलं मध्यात् पूर्वसूत्रं यमद्वयम् ।
अधोमुखं प्रकर्तव्यं तद्धस्तं तु प्रसारयेत् ॥१०॥

दक्षिणे पूर्वहस्ते तु पार्ष्णिनाभेरधो बुधः ।
पक्षषोडशमात्रं वा नतं तत्सिंहकर्णवत् ॥११॥

वक्रदण्डायुधं तस्मिन् कल्पयेत्तु चलाचलम् ।
स्थितांघ्रिजानूर्ध्व सीमान्तं हिक्कासूत्रान्तमुन्नतम् ॥१२॥

कनिष्ठांगुलि परीणाहं अग्रे वक्रान्वितं भवेत् ।
लोहजं दारुजं वाथ वक्रदण्डं तु कारयेत् ॥१३॥

तद्धस्त मणिबन्धात्तु ऊरुमूलान्तदन्तरम् ।
पंचषट्सप्तमात्रं वा वसुनन्दांगुलं तु वा ॥१४॥

परहस्त द्वयोश्चैव टंकं कृष्णमृगं धरेत् ।
टंकं दक्षिणहस्ते तु वामहस्ते मृगं भवेत् ॥१५॥

परहस्तद्वयोरग्रं हिक्कासूत्रसमं भवेत् ।
एकद्वित्रिचतुष्पंचमात्रं वाथ नतं तु वा ॥१६॥

जटामकुटयुक्तं वा जटाभारं तु लालितम् ।
जटाबन्धधरो वापि कर्तुरिच्छावशान्नयेत् ॥१७॥

सर्वाभरणसंयुक्तं रक्ताभं रक्तवासभृत् ।
वामपार्श्वे ह्युमादेवी दक्षिणे वा विशेषतः ॥१८॥

सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् ।
उत्पलं दक्षिणं हस्तं वामहस्ते प्रसारितम् ॥१९॥

स्त्रीमानोक्तविधानेन उमादेवीं तु कारयेत् ।
वृषवाहनमाख्यातं नृत्तमूर्तिरथोच्यते ॥२०॥


इत्यंशुमान्काश्यपे वृषभवाहनमूर्तिलक्षणपटलः (सप्तषष्टितमः) ॥६७॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP