संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
सप्ततालविधिपटलः

अंशुमत्काश्यपागमः - सप्ततालविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेण सप्ततालविधिं परम् ।
पिशाचप्रतिमोत्सेधं अष्टाशीत्यंशकं भवेत् ॥१॥

उष्णीषमर्धभागेन केशान्तं शशिभागया ।
सार्धद्व्यंशं तु नेत्रान्तं सार्धाग्न्यंशं पुटान्तकम् ॥२॥

चिबुकान्तं च तत्तुल्यं वेदांशं तु गलोदयम् ।
स्तनान्तं सप्तभागं तु रुद्रांशं नाभिसीमकम् ॥३॥

तथा वै योनिमूलान्तं विंशांशं चोरुदीर्घकम् ।
जानुमानं द्विभागेन जंघा चोरुसमा भवेत् ॥४॥

चरणोच्चं द्विभागेन मन्वंशं तु तलायतम् ।
ऊरुदीर्घसमं बाहुप्रकोष्ठदीर्घं त्रिपंचकम् ॥५॥

तलायामं तु वेदांशं भूतांशं तस्य विस्तृतम् ।
तलायामसदृशं मध्यमांगुलि दीर्घकम् ॥६॥

शेषं प्रागुदितोक्तेन व्यासं कुर्याद्धीकृतम् ।
सप्ततालं समाख्यातं शेषं प्रागपरोदितम् ॥७॥


इत्यंशुमान्काश्यपे सप्ततालविधिपटलः (त्रिषष्ठितमः) ॥६३॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP