प्रथमस्थानम् - अष्टादशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


अतो वक्ष्यामि माक्षीकं त्रिविधं शृणु पुत्रक
भ्रामरं सारघं क्षौद्रं तेषां वच्मि गुणागुणम् ॥१॥
शीतं कषायं मधुरं लघु स्यात्सन्दीपनं लेहनमेव शस्तम्
संशोधनञ्च व्रणशोधनञ्च संरोपणं हृद्यतमञ्च बल्यम् ॥२॥
त्रिदोषनाशं कुरुते च पुष्टिं कासक्षये वा क्षतजे च छर्दौ
हिक्काभ्रमे शोषणपीनसानां रक्तप्रमेहे सरलातिसारे ॥३॥
रक्तातिसारे च सपित्तरक्ते तृण्मोहहृत्पार्श्वगदेऽपि शस्तः
नेत्रामये वा ग्रहणी गदे वा विषे प्रशस्तं भ्रमरैश्चित्तं यत् ॥४॥
भ्रामरं सघनं जाढ्यं भूयिष्ठं मधुरं च यत्
क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेहनम् ॥५॥
तस्माल्लघुतरं रूक्षं सारघं नातिशीतलम्
कासे क्षये प्रशस्तं स्यात्कामलार्शो विनाशनम् ॥६॥
नातिशीतं न च रूक्षं दीपनं बलकृन्मतम्
अतीसारे नेत्ररोगे क्षते वा क्षतजे हितम् ॥७॥
भ्रामरं वृक्षसंस्थाने विटपे सारघं भवेत्
रन्ध्रे तु कोटरे वापि क्षौद्रं तत्र प्रशस्यते ॥८॥

इति आत्रेयभाषिते हारीतोत्तरे मधुवर्गो नाम अष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP