प्रथमस्थानम् - द्वादशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


धाम्यमण्डं पित्तहरं श्रमघ्नञ्चाश्मरीहरम्
वातलं रक्तशमनं ग्राहि सन्दीपनं वरम् ॥१॥
रक्तशाल्युद्भवं मण्डं मधुरं ग्राहि शीतलम्
प्रमेहानश्मरीं हन्ति वातलं पित्तहृद्वरम् ॥२॥
मधुरं शीतलं किञ्चिच्छ्लेष्मलं शोषनाशनम्
अश्मरीमेहसंच्छर्दिवातलं श्वेततण्डुलम् ॥३॥
यवमण्डं कषायं स्याद्ग्राहि चोष्णे विपाकि च
तद्वद्गोधूमसम्भूतं मधुरं पित्तवारणम् ॥४॥
अन्येषां क्षुद्रधान्यानां मण्डं वातहरं स्मृतम्
ग्लानिमूर्च्छाकरं सद्यः कोद्रवं न हितं मतम् ॥५॥
तद्वच्च क्षुद्रधान्याम्लं वातलं पित्तकारकम्
करोति श्लीपदं गुल्मं प्रतिश्यायादिकोपनम् ॥६॥

इत्यात्रेयभाषिते हारीतोत्तरे मण्डवर्गो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP