प्रथमस्थानम् - एकादशोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


सन्धानं शीतलं स्वादु महातीसारनाशनम्
सुस्वादु शीतलञ्चैव बृंहणं तण्डुलोदकम् ॥१॥
तुषोदकं वातपित्तहरन्तु रक्तपित्तहरं प्रभेदकञ्च
विपाचनं स्याज्जरणं क्रिमिघ्नमजीर्णहन्तृ कटुकं विपाके ॥२॥
जातं यवाम्लं कटुकं विपाके वातापहं श्लेष्महरं सरक्तम्
पित्त प्रकोपं कुरुते सभेदि विदूषणं पित्तगदासृजश्च ॥३॥
सन्दीपनं शूलहरं रुचिप्रदं गोधूमजातं क्वथितं कषायम्
सन्दीपनं स्याज्जरणं कफघ्नं समीरदोषं हरते ततोऽपि ॥४॥
पीतं जरयते वामं बाह्यदाह्यश्रमापहम्
स्याच्च तत्कुष्ठकण्डूघ्नं तैलयुक्तं समीरहृत् ॥५॥
युगन्धराम्लं कफवातहन्तृ शूलामयानां जरणप्रकर्त्तृ
तीक्ष्णं तथाम्लं श्रमदोषहन्तृ मेहार्शसो रक्तहितं मतञ्च ॥६॥
शोषे मूर्च्छाज्वरार्त्तानां भ्रमके दुर्विषार्दिते
कुष्ठानां रक्तपित्तानां काञ्जिकं न प्रशस्यते ॥७॥
पाण्डुरोगे राजयक्ष्मे तथा शोफातुरेषु च
क्षतक्षीणे पथिश्रान्ते मन्दज्वरनिपीडिते
नरे नैव हितं प्रोक्तं काञ्जिकं दोषकारकम् ॥८॥
शूलवातार्दितानान्तु तथा जीर्णविबन्धिनाम्
श्रेष्ठं प्रोक्तं तथाम्लञ्च गुणाधिक्यं नरेषु च ॥९॥

इति आत्रेयभाषिते हारीतोत्तरे काञ्जिकवर्गो नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP