पार्वतीखण्डः - अध्यायः ४६
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
॥ब्रह्मोवाच ॥
अथ शंभुः प्रसन्नात्मा सदूतं स्वगणैस्सुरैः ॥
सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम् ॥१॥
मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ॥
तत उत्थाय स्वगृहा भ्यंतरं सा जगाम ह ॥२॥
नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ॥
सर्वर्षिस्त्रीगणैस्साकमगच्छद्द्वारमादरात् ॥३॥
तत्रागतं महेशानं शंकरं गिरिजावरम् ॥
ददर्श प्रीतितो मेना सेवितं सकलैस्सुरैः ॥४॥
चारुचंपकवर्णाभं ह्येकवक्त्रं त्रिलोचनम् ॥
ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ॥५॥
मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ॥
सत्कंठाभरणं चारुवलयांगदभूषितम् ॥६॥
वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ॥
अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ॥७॥
चन्दनागरुकस्तूरीचारुकुंकुम भूषितम् ॥
रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥८॥
सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ॥
अतीव तरुणं रम्यं भूषितांगैश्च भूषितम् ॥९॥
कामिनीकांतमव्यग्रं कोटिचन्द्राननांबुजम् ॥
कोटिस्मराधिकतनुच्छविं सर्वांगसुंदरम् ॥१०॥
ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ॥
दृष्ट्वा जामातरं मेना जहौ शोकम्मुदाऽन्विता ॥११॥
प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ॥
मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ॥१२॥
नीराजनं चकारासौ प्रफुल्लवदना सती ॥
अवलोकपरा तत्र मेना जामातरं मुदा ॥१३॥
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ॥
मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ॥१४॥
यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ॥
ततोधिकं प्रपश्यामि सौन्दर्य्यं परमेशितुः ॥१५॥
महेशस्य सुलावण्यमनिर्वाच्यं च संप्रति ॥
एवं विस्मयमापन्ना मेना स्वगृहमाययौ ॥१६॥
प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ॥
दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः ॥१७॥
न दृष्टो वर इत्येवमस्माभिर्द्दानगोचरः ॥
धन्या हि गिरिजा देवीमूचुः काश्चन कन्यकाः ॥१८॥
जगुर्गन्धर्व्वप्रवरा ननृतुश्चाप्सरोगणाः ॥
दृष्ट्वा शंकररूपं च प्रहृष्टास्सर्वदेवताः ॥१९॥
नानाप्रकारवाद्यानि वादका मधुराक्षरम् ॥
नानाप्रकारशिल्पेन वादयामासुरादरात् ॥२०॥
हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ॥
मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ॥२१॥
परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ॥
शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ॥२२॥
एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ॥
बहिर्जग्मुस्समादाय पूजितुं कुलदेवताम् ॥२३॥
तत्र तां ददृशुर्देवा निमेषरहिता मुदा ॥
सुनीलांजनवर्णाभां स्वांगैश्च प्रतिभूषिताम् ॥२४॥
त्रिनेत्रादृतनेत्रांतामन्यवारितलोचनाम् ॥
ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ॥२५॥
सुचारुकबरीभारां चारुपत्रक शोभिताम् ॥
कस्तूरीबिन्दुभिस्सार्द्धं सिन्दूरबिन्दुशोभिताम् ॥२६॥
रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ॥
रत्नकेयूरवलयां रत्नकङ्कणमंडिताम् ॥२७॥
सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ॥
मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ॥२८॥
मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ॥
रत्नदर्प्पणहस्तां च क्रीडापद्मविभूषिताम् ॥२९॥
चन्दनागुरुकस्तूरीकुंकुमेनाति च र्चिताम् ॥
क्वणन्मंजीरपादां च रक्तांघ्रितलराजिताम् ॥३०॥
प्रणेमुश्शिरसा देवीं भक्तियुक्ताः समेनकाम् ॥
सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम् ॥३१॥
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ॥
शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ॥३२॥
शिवस्सर्वं विसस्मार शिवासंन्यस्तलोचनः ॥
पुलकांचितसर्वाङ्गो हर्षाद्गौरीविलोचनः ॥३३॥
अथ कालीबहिः पुर्य्यां गत्वा पूज्य कुलाम्बिकाम् ॥
विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना ॥३४॥
शङ्करोपि सुरैस्सार्द्धं हरिणा ब्राह्मणा तथा ॥
हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ॥३५॥
तत्र सर्वे सुखं तस्थुस्सेवन्तश्शङ्करं यथा ॥
सम्मानिता गिरीशेन नानाविधसुसम्पदा ॥३६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥४६॥
N/A
References : N/A
Last Updated : October 07, 2020
TOP