पार्वतीखण्डः - अध्यायः १५
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
ब्रह्मोवाच॥
अथ सा गर्भमाधत्त वरांगी तत्पुरादरात्॥
स ववर्द्धाभ्यंतरे हि बहुवर्षैः सुतेजसा ॥१॥
ततः सा समये पूर्णे वरांगी सुषुवे सुतम्॥
महाकायं महावीर्यं प्रज्वलंतं दिशो दश ॥२॥
तदैव च महोत्पाता बभूवुर्दुःखहेतवः॥
जायमाने सुते तस्मिन्वरांग्यात्सुखदुःखदे ॥३॥
दिवि भुव्यंतरिक्षे च सर्वलोकभयंकराः॥
अनर्थसूचकास्तात त्रिविधास्तान्ब्रवीम्यहम् ॥४॥
सोल्काश्चाशनयः पेतुर्महाशब्दा भयंकराः॥
उदयं चक्रुरुत्कृष्टाः केतवो दुःखदायकाः ॥५॥
चचाल वसुधा साद्रिर्जज्वलुस्सकला दिशः॥
चुक्षुभुस्सरितस्सर्वाः सागराश्च विशेषतः ॥६॥
हूत्करानीरयन्धीरान्खरस्पर्शो मरुद्ववौ॥
उन्मूलयन्महावृक्षान्वात्यानीकोरजोध्वजः ॥७॥
सराह्वोस्सूर्य्यविध्वोस्तु मुहुः परिधयोऽभवन्॥
महाभयस्य विप्रेन्द्र सूचकास्सुखहारकः ॥८॥
महीध्रविवरेभ्यश्च निर्घाता भयसूचकाः॥
रथनिर्ह्रादतुल्याश्च जज्ञिरेऽवसरे ततः ॥९॥
सृगालोलूकटंकारैर्वमन्त्यो मुखतोऽनलम्॥
अंतर्ग्रामेषु विकटं प्रणेदुरशिवाश्शिवाः ॥१०॥
यतस्ततो ग्रामसिंहा उन्नमय्य शिरोधराम्॥
संगीतवद्रोदनवद्व्यमुचन्विविधान्रवान् ॥११॥
खार्काररभसा मत्ताः सुरैर्घ्नंतो रसांखराः॥
वरूथशस्तदा तात पर्यधावन्नितस्ततः ॥१२॥
खगा उदपतन्नीडाद्रासभत्रस्तमानसः॥
क्रोशंतो व्यग्रचित्ताश्च स्थितमापुर्न कुत्रचित् ॥१३॥
शकृन्मूत्रमकार्षुश्च गोष्ठेऽरण्ये भयाकुलः॥
बभ्रमुः स्थितिमापुर्नो पशवस्ताडिता इव ॥१४॥
गावोऽत्रसन्नसृग्दोहा वाष्पनेत्रा भयाकुलाः॥
तोयदा अभवंस्तत्र भयदाः पूयवर्षिणः ॥१५॥
व्यरुदन्प्रतिमास्तत्र देवानामुत्पतिष्णवः॥
विनाऽनिलं द्रुमाः पेतुर्ग्रहयुद्धं बभूव खे ॥१६॥
इत्यादिका बहूत्पाता जज्ञिरे मुनिसत्तम॥
अज्ञानिनो जनास्तत्र मेनिरे विश्वसंप्लवम् ॥१७॥
अथ प्रजापतिर्नामाकरोत्तस्यासुरस्य वै॥
तारकेति विचार्यैव कश्यपो हि महौजसः ॥१८॥
महावीरस्य सहसा व्यज्यमानात्मपौरुषः॥
ववृधेत्यश्मसारेण कायेनाद्रिपतिर्यथा ॥१९॥
अथो स तारको दैत्यो महाबलपराक्रमः॥
तपः कर्तुं जनन्याश्चाज्ञां ययाचे महामनाः ॥२०॥
प्राप्ताज्ञः स महामायी मायिनामपि मोहकः॥
सर्वदेवजयं कर्तुं तपोर्थं मन आदधे ॥२१॥
मधोर्वनमुपागम्य गुर्वाज्ञाप्रतिपालकः॥
विधिमुद्दिश्य विधिवत्तपस्तेपे सुदारुणम् ॥२२॥
ऊर्द्ध्वबाहुश्चैकपादो रविं पश्यन्स चक्षुषा॥
शतवर्षं तपश्चक्रे दृढचित्तो दृढव्रतः ॥२३॥
अंगुष्ठेन भुवं स्पृष्ट्वा शत वर्षं च तादृशः॥
तेपे तपो दृढात्मा स तारकोऽसुरराट्प्रभुः ॥२४॥
शतवर्षं जलं प्राश्नञ्च्छतवर्षं च वायुभुक्॥
शतवर्ष जले तिष्ठञ्च्छतं च स्थंडिलेऽतपत् ॥२५॥
शतवर्षं तथा चाग्नौ शतवर्षमधोमुखः॥
शतवर्षं तु हस्तस्य तलेन च भुवं स्थित ॥२६॥
शतवर्षं तु वृक्षस्य शाखामालब्य वै मुने॥
पादाभ्यां शुचिधूमं हि पिबंश्चाधोमुखस्तथा ॥२७॥
एवं कष्टतरं तेपे सुतपस्स तु दैत्यराट्॥
काममुद्दिश्य विधिवच्छृण्वतामपि दुस्सहम् ॥२८॥
तत्रैवं तपतस्तस्य महत्तेजो विनिस्सृतम्॥
शिरसस्सर्वंसंसर्पि महोपद्रवकृन्मुने ॥२९॥
तेनैव देवलोकास्ते दग्धप्राया बभूविरे॥
अभितो दुःखमापन्नास्सर्वे देवर्षयो मुने ॥३०॥
इंद्रश्च भयमापेदे ऽधिकं देवेश्वरस्तदा॥
तपस्यत्यद्य कश्चिद्वै मत्पदं धर्षयिष्यति ॥३१॥
अकांडे चैव ब्रह्माण्डं संहरिष्यत्ययं प्रभु॥
इति संशयमापन्ना निश्चयं नोपलेभिरे ॥३२॥
ततस्सर्वे सुसंमन्त्र्य मिथस्ते निर्जरर्षयः॥
मल्लोकमगमन्भीता दीना मां समुपस्थिताः ॥३३॥
मां प्रणम्य सुसंस्तूय सर्वे ते क्लिष्टचेतसः॥
कृतस्वंजलयो मह्यं वृत्तं सर्वं न्यवेदयन् ॥३४॥
अहं सर्वं सुनिश्चित्य कारणं तस्य सद्धिया॥
वरं दातुं गतस्तत्र यत्र तप्यति सोऽसुरः ॥३५॥
अवोचं वचनं तं वै वरं ब्रूहीत्यहं मुने॥
तपस्तप्तं त्वया तीव्रं नादेयं विद्यते तव ॥३६॥
इत्येवं मद्वचः श्रुत्वा तारकस्स महासुरः॥
मां प्रणम्य सुसंस्तूय वरं वव्रेऽतिदारुणम् ॥३७॥
तारक उवाच॥
त्वयि प्रसन्ने वरदे किमसाध्यं भवेन्मम॥
अतो याचे वरं त्वत्तः शृणु तन्मे पितामह ॥३८॥
यदि प्रसन्नो देवेश यदि देयो वरो मम॥
देयं वरद्वयं मह्यं कृपां कृत्वा ममोपरि ॥३९॥
त्वया च निर्मिते लोके सकलेऽस्मिन्महाप्रभो॥
मत्तुल्यो बलवान्नूनं न भवेत्कोऽपि वै पुमान् ॥४०॥
शिववीर्यसमुत्पन्नः पुत्रस्सेनापतिर्यदा॥
भूत्वा शस्त्रं क्षिपेन्मह्यं तदा मे मरणं भवेत् ॥४१॥
इत्युक्तोऽथ तदा तेन दैत्येनाहं मुनीश्वर॥
वरं च तादृशं दत्त्वा स्वलोकमगमं द्रुतम् ॥४२॥
दैत्योऽपि स वरं लब्ध्वा मनसेप्सितमुत्तमम्॥
सुप्रसन्नोतरो भूत्वा शोणिताख्यपुरं गतः ॥४३॥
अभिषिक्तस्तदा राज्ये त्रैलोक्यस्यासुरैस्सह॥
शुक्रेण दैत्यगुरुणाज्ञया मे स महासुरः ॥४४॥
ततस्तु स महादैत्योऽभवस्त्रैलोक्यनायकः॥
स्वाज्ञां प्रवर्तयामास पीडयन्सचराचरम् ॥४५॥
राज्यं चकार विधिवस्त्रिलोकस्य स तारकः॥
प्रजाश्च पालयामास पीडयन्निर्जरादिकान् ॥४६॥
ततस्स तारको दैत्यस्तेषां रत्नान्युपाददे॥
इंद्रादिलोकपालानां स्वतो दत्तानि तद्भयात् ॥४७॥
इंद्रेणैरावतस्तस्य भयात्तस्मै समर्पितः॥
कुबेरेण तदा दत्ता निधयो नवसंख्यका ॥४८॥
वरुणेन हयाः शुभ्रा ऋषिभिः कामकृत्तथा॥
सूर्येणोच्चैश्श्रवा दिव्यो भयात्तस्मै समर्पितः ॥४९॥
यत्र यत्र शुभं वस्तु दृष्टं तेनासुरेण हि॥
तत्तद्गृहीतं तरसा निस्सारस्त्रिभवोऽभवत् ॥५०॥
समुद्राश्च तथा रत्नान्यदुस्तस्मै भयान्मुने॥
अकृष्टपच्यासीत्पृथ्वी प्रजाः कामदुघाः खिलाः ॥५१॥
सूर्यश्च तपते तद्वत्तद्दुःखं न यथा भवेत्॥
चंद्रस्तु प्रभया दृश्यो वायुस्सर्वानुकूलवान् ॥५२॥
देवानां चैव यद्द्रव्यं पितॄणां च परस्य च॥
तत्सर्वं समुपादत्तमसुरेण दुरात्मना ॥५३॥
वशीकृत्य स लोकांस्त्रीन्स्वयमिंद्रो बभूव ह॥
अद्वितीयः प्रभुश्चासीद्राज्यं चक्रेऽद्भुतं वशी ॥५४॥
निस्सार्य सकलान्देवान्दैत्यानस्थापयत्ततः॥
स्वयं नियोजयामास देवयोनिस्स्वकर्मणि ॥५५॥
अथ तद्बाधिता देवास्सर्वे शक्रपुरोगमाः॥
मुने मां शरणं जग्मुरनाथा अतिविह्वलाः ॥५६॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे तारकासुरतपोराज्यवर्णनंनाम पंचदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : October 07, 2020
TOP