संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३०

पार्वतीखण्डः - अध्यायः ३०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥नारद उवाच॥
विधे तात महाभाग धन्यस्त्वं परमार्थदृक्॥
अद्भुतेयं कथाश्रावि त्वदनुग्रहतो मया ॥१॥
गते हरे स्वशैले हि पार्वती सर्वमंगला॥
किं चकार गता कुत्र तन्मे वद महामते ॥२॥
 ॥ब्रह्मोवाच॥
शृणु सुप्रीतितस्तात यज्जातं तदनन्तरम्॥
हरे गते निजस्थाने तद्वदामि शिवं स्मरन् ॥३॥
पार्वत्यपि सखीयुक्ता रूपं कृत्वा तु सार्थकम्॥
जगाम स्वपितुर्गेहं महादेवेति वादिनी ॥४॥
पार्वत्यागमनं श्रुत्वा मेना च स हिमाचलः॥
दिव्यं यानं समारुह्य प्रययौ हर्षविह्वलः ॥५॥
पुरोहितश्च पौराश्च सख्यश्चैवाप्यनेकशः॥
सम्वन्धिनस्तथान्ये च सर्वे ते च समाययुः ॥६॥
भ्रातरः सकला जग्मुर्मैनाकप्रमुखास्तदा॥
जयशब्दं प्रब्रुवन्तो महाहर्षसमन्विताः ॥७॥
संस्थाप्य मंगलघटं राजवर्त्मनि राजिते॥
चन्दनागरुकस्तूरीफलशाखासमन्विते ॥८॥
सपुरोधोब्राह्मणैश्च मुनिभिर्ब्रह्मवादिभिः॥
नारीभिर्नर्तकीभिश्च गजेन्द्राद्रिसुशोभितैः॥९॥
परितः परितो रंभास्तम्भवृन्दसमन्विते॥
पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ॥१०॥
द्विजवृन्दैश्च संयुक्ते कुर्वद्भिर्मङ्गलध्वनिम्॥
नानाप्रकारवाद्यैश्च शंखध्वनिभिरन्विते ॥११॥
एतस्मिन्नन्तरे दुर्गा जगाम स्वपुरान्तिकम्॥
विशंती नगरं देवी ददर्श पितरौ पुनः ॥१२॥
सुप्रसन्नौ प्रधावन्तौ हर्षविह्वलमानसौ॥
दृष्ट्वा काली सुप्रहृष्टा स्वालिभिः प्रणनाम तौ ॥१३॥
तौ सम्पूर्णाशिषं दत्त्वा चक्रतुस्तौ स्ववक्षसि॥
हे वत्से त्वेवमुच्चार्य रुदन्तौ प्रेमविह्वलौ ॥१४॥
ततस्स्वकीया अप्यस्या अन्या नार्यापि संमुदा॥
भ्रातृस्त्रियोपि सुप्रीत्या दृढालिंगनमादधुः ॥१५॥
साधितं हि त्वया सम्यक्सुकार्यं कुलतारणम्॥
त्वत्सदाचरणेनापि पाविताः स्माखिला वयम् ॥१६॥
इति सर्वे सुप्रशंस्य प्रणेमुस्तां प्रहर्षिताः॥
चन्दनैः सुप्रसूनैश्च समानर्चुश्शिवां मुदा ॥१७॥
तस्मिन्नवसरे देवा विमानस्था मुदाम्बरे॥
पुष्पवृष्टिं शुभां चक्रुर्नत्वा तां तुष्टुवुः स्तवैः ॥१८॥
तदा तां च रथे स्थाप्य सर्वे शोभान्विते वरे॥
पुरं प्रवेशयामासुस्सर्वे विप्रादयो मुदा ॥१९॥
अथ विप्राः पुरोधाश्च सख्योन्याश्च स्त्रियः शिवाम्॥
गृहं प्रवेशयामासुर्बहुमानपुरस्सरम् ॥२०॥
स्त्रियो निर्मच्छनं चक्रुर्विप्रा युयुजुराशिषः॥
हिमवान्मेनका माता मुमोदाति मुनीश्वर ॥२१॥
स्वाश्रमं सफलं मेने कुपुत्रात्पुत्रिका वरा॥
हिमवान्नारदं त्वाञ्च संस्तुवन् साधुसाध्विति ॥२२॥
ब्राह्मणेभ्यश्च बंदिभ्यः पर्वतेन्द्रो धनं ददौ॥
मङ्गलं पाठयामास स द्विजेभ्यो महोत्सवम् ॥२३॥
एवं स्वकन्यया हृष्टौ पितरौ भ्रातरस्तथा॥
जामयश्च महाप्रीत्या समूषुः प्रांगणे मुने ॥२४॥
ततस्स हिमवान् तात सुप्रहृष्टाः प्रसन्नधीः॥
सम्मान्य सकलान्प्रीत्या स्नातुं गंगां जगाम ह ॥२५॥
एतस्मिन्नंतरे शंभुस्सुलीलो भक्तवत्सलः॥
सुनर्तकनटो भूत्वा मेनकासंनिधिं ययौ ॥२६॥
शृंगं वामे करे धृत्वा दक्षिणे डमरु तथा॥
पृष्ठे कंथां रक्तवासा नृत्यगानविशारदः ॥२७॥
ततस्सुनटरूपोसौ मेनकाया गणे मुदा॥
चक्रे सुनृत्यं विविधं गानं चातिमनोहरम् ॥२८॥
शृंगं च डमरुं तत्र वादयामास सुध्वनिम्॥
महतीं विविधां तत्र स चकार मनोहराम् ॥२९॥
तां द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा॥
आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम् ॥३०॥
श्रुत्वा सुगीतं तद्दृष्ट्वा सुनृत्यं च मनोहरम्॥
सहसा मुमुहुस्सर्वे मेनापि च तदा मुने ॥३१॥
मूर्च्छां संप्राप्य सा दुर्गा सुदृष्ट्वा हृदि शंकरम्॥
त्रिशूलादिकचिह्नानि बिभ्रतं चातिसुन्दरम् ॥३२॥
विभूतिविभूषितं रम्यमस्थिमालासमन्वितम्॥
त्रिलोचनोज्ज्वलद्वक्त्रं नागायज्ञोपवीतकम् ॥३३॥
वरं वृण्वित्युक्तवन्तं गौरवर्णं महेश्वरम्॥
दीनबन्धु दयासिन्धुं सर्वथा सुमनोहरम् ॥३४॥
हृदयस्थं हरं दृष्ट्वेदृशं सा प्रणनाम तम्॥
वरं वव्रे मानसं हि पतिर्मे त्वं भवेति च ॥३५॥
वरं दत्त्वा शिवं चाथ तादृशं प्रीतितो हृदा॥
अन्तर्धाय पुनस्तत्र सुननर्त्त स भिक्षुकः ॥३६॥
ततो मेना सुरत्नानि स्वर्णपात्रस्थितानि च॥
तस्मै दातुं ययौ प्रीत्या तद्भूति प्रीतमानसः ॥३७॥
तानि न स्वीचकारासौ भिक्षां याचे शिवां च ताम्॥
पुनस्सुनृत्यं गानश्च कौतुकात्कर्तुमुद्यतः ॥३८॥
मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता॥
भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा ॥३९॥
एतस्मिन्नन्तरे तत्र गंगातो गिरिराययौ॥
ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम् ॥४०॥
श्रुत्वा मेनामुखाद्वृत्तं तत्सर्वं सुचुकोप सः॥
आज्ञां चकारानुचरान्बहिष्कर्तुञ्च तं नटम् ॥४१॥
महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम्॥
 न शशाक बहिष्कर्तुं कोपि तं मुनिसत्तम ॥४२॥
ततस्स भिक्षुकस्तात नानालीलाविशारदः॥
दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥४३॥
शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम्॥
किरीटिनं कुण्डलिनं पीतवस्त्रं चतुर्भुजम् ॥४४॥
यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते॥
गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ॥४५॥
ततो ददर्श जगतां स्रष्टारं स चतुर्मुखम्॥
रक्तवर्णं पठन्तञ्च श्रुतिसूक्तं गिरीश्वरः ॥४६॥
ततस्सूर्य्यस्वरूपञ्च जगच्चक्षुस्स्वरूपकम्॥
ददर्श गिरिराजस्स क्षणं कौतुककारिणाम् ॥४७॥
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम्॥
पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥४८॥
ततस्तेजस्स्वरूपञ्च निराकारं निरंजनम्॥
निरुपाधिं निरीहञ्च महाद्भुतमरूपकम् ॥४९॥
एवं बहूनि रूपाणि तस्य तत्र ददर्श सः॥
सुविस्मितो बभूवाशु परमानन्दसंयुतः ॥५०॥
अथासौ भिक्षुवर्य्यो हि तस्मात्तस्याश्च सूतिकृत्॥
भिक्षां ययाचे दुर्गान्तां नान्यज्जग्राह किञ्चन ॥५१॥
न स्वीचकार शैलैन्द्रो मोहितश्शिवमायया॥
भिक्षुः किंचिन्न जग्राह तत्रैवान्तर्दधे ततः ॥५२॥
तदा बभूव सुज्ञानं मेनाशैलेशयोरिति॥
आवां शिवो वञ्चयित्वा स्वस्थानं गतवान्प्रभुः ॥५३॥
तयोर्विचिन्त्य तत्रैव शिवे भक्तिरभूत्परा॥
महामोक्षकरी दिव्या सर्वानन्दप्रदायिनी ॥५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीप्रत्यागमनमहोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP