संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः १३

पार्वतीखण्डः - अध्यायः १३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


भवान्युवाच॥
किमुक्तं गिरिराजाय त्वया योगिस्तपस्विना॥
तदुत्तरं शृणु विभो मत्तो ज्ञानिविशारद ॥१॥
तपश्शक्त्यान्वितश्शम्भो करोषि विपुलं तपः॥
तव बुद्धिरियं जाता तपस्तप्तुं महात्मनः ॥२॥
सा शक्तिः प्रकृतिर्ज्ञेया सर्वेषामपि कर्मणाम्॥
तया विरच्यते सर्वं पाल्यते च विनाश्यते ॥३॥
कस्त्वं का प्रकृतिस्सूक्ष्मा भगवंस्तद्विमृश्यताम्॥
विना प्रकृत्या च कथं लिंगरूपी महेश्वरः ॥४॥
अर्चनीयोऽसि वंद्योऽसि ध्येयोऽसि प्राणिनां सदा॥
प्रकृत्या च विचार्येति हृदा सर्वं तदुच्यताम् ॥५॥
 ॥ब्रह्मोवाच॥
पार्वत्यास्तद्वचः श्रुत्वा महोतिकरणे रतः॥
सुविहस्य प्रसन्नात्मा महेशो वाक्यमब्रवीत् ॥६॥
 ॥महेश्वर उवाच॥
तपसा परमेणेव प्रकृतिं नाशयाम्यहम्॥
प्रकृत्या रहितश्शम्भुरहं तिष्ठामि तत्त्वतः ॥७॥
तस्माच्च प्रकृतेस्सद्भिर्न कार्यस्संग्रहः क्वचित्॥
स्थातव्यं निर्विकारैश्च लोकाचार विवर्जितैः ॥८॥
 ॥ब्रह्मोवाच॥
इत्युक्ता शम्भुना तात लौकिकव्यवहारतः॥
सुविहस्य हृदा काली जगाद मधुरं वचः ॥९॥
 ॥काल्युवाच॥
यदुक्तं भवता योगिन्वचनं शंकर प्रभो॥
सा च किं प्रकृतिर्न स्यादतीतस्तां भवान्कथम् ॥१०॥
एतद्विचार्य वक्तव्यं तत्त्वतो हि यथातथम्॥
प्रकृत्या सर्वमेतच्च बद्धमस्ति निरंतरम् ॥११॥
तस्मात्त्वया न वक्तव्यं न कार्यं किंचिदेव हि॥
वचनं रचनं सर्वं प्राकृतं विद्धि चेतसा ॥१२॥
यच्छृणोषि यदश्नासि यत्पश्यसि करोषि यत्॥
तत्सर्वं प्रकृतेः कार्यं मिथ्यावादो निरर्थकः ॥१३॥
प्रकृतेः परमश्चेत्त्वं किमर्थं तप्यसे तपः॥
त्वया शंभोऽधुना ह्यस्मिन्गिरौ हिमवति प्रभो ॥१४॥
प्रकृत्या गिलितोऽसि त्वं न जानासि निजं हर॥
निजं जानासि चेदीश किमर्थं तप्यसे तपः ॥१५॥
वाग्वादेन च किं कार्यं मम योगिस्त्वया सह॥
प्रत्यक्षे ह्यनुमानस्य न प्रमाणं विदुर्बुधाः ॥१६॥
इंद्रियाणां गोचरत्वं यावद्भवति देहिनाम्॥
तावत्सर्वं विमंतव्यं प्राकृतं ज्ञानिभिर्धिया ॥१७॥
किं बहूक्तेन योगीश शृणु मद्वचनं परम्॥
सा चाहं पुरुषोऽसि त्वं सत्यं सत्यं न संशयः ॥१८॥
मदनुग्रहतस्त्वं हि सगुणो रूपवान्मतः॥
मां विना त्वं निरीहोऽसि न किंचित्कर्तुमर्हसि ॥१९॥
पराधीनस्सदा त्वं हि नानाकर्म्मकरो वशी॥
निर्विकारी कथं त्वं हि न लिप्तश्च मया कथम् ॥२०॥
प्रकृतेः परमोऽसि त्वं यदि सत्यं वचस्तव॥
तर्हि त्वया न भेतव्यं समीपे मम शंकर ॥२१॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तस्याः सांख्यशास्त्रोदितं शिवः॥
वेदांतमतसंस्थो हि वाक्यमूचे शिवां प्रति ॥२२॥
श्रीशिव उवाच॥
इत्येवं त्वं यदि ब्रूषे गिरिजे सांख्यधारिणी॥
प्रत्यहं कुरु मे सेवामनिषिद्धां सुभाषिणि ॥२३॥
यद्यहं ब्रह्म निर्लिप्तो मायया परमेश्वरः॥
वेदांतवेद्यो मायेशस्त्वं करिष्यसि किं तदा ॥२४॥
 ॥ब्रह्मोवाच॥
इत्येवमुक्त्वा गिरिजां वाक्यमूचे गिरिं प्रभुः॥
भक्तानुरंजनकरो भक्तानुग्रहकारकः ॥२५॥
शिव उवाच॥
अत्रैव सोऽहं तपसा परेण गिरे तव प्रस्थवरेऽतिरम्ये॥
चरामि भूमौ परमार्थभावस्वरूपमानंदमयं सुलोचयन् ॥२६॥
तपस्तप्तुमनुज्ञा मे दातव्या पर्वताधिप॥
अनुज्ञया विना किंचित्तपः कर्तुं न शक्यते ॥२७॥
 ॥ब्रह्मोवाच॥
एतच्छ्रुत्वा वचस्तस्य देवदेवस्य शूलिनः॥
प्रणम्य हिमवाञ्छंभुमिदं वचनमब्रवीत् ॥२८॥
हिमवानुवाच॥
त्वदीयं हि जगत्सर्वं सदेवासुरमानुषम्॥
किमप्यहं महादेव तुच्छो भूत्वा वदामि ते ॥२९॥
 ॥ब्रह्मोवाच॥
एवमुक्तो हिमवता शंकरो लोकशंकरः॥
विहस्य गिरिराजं तं प्राह याहीति सादरम् ॥३०॥
शंकरेणाभ्यनुज्ञातस्स्वगृहं हिमवान्ययौ॥
सार्द्धं गिरिजया वै स प्रत्यहं दर्शने स्थितः ॥३१॥
पित्रा विनापि सा काली सखीभ्यां सह नित्यशः॥
जगाम शंकराभ्याशं सेवायै भक्तितत्परा ॥३२॥
निषिषेध न तां कोऽपि गणो नंदीश्वरादिकः॥
महेशशासनात्तात तच्छासनकरश्शुचिः ॥३३॥
सांख्यवेदांतमतयोश्शिवयोश्शि वदस्सदा॥
संवादः सुखकृच्चोक्तोऽभिन्नयोस्सुविचारतः ॥३४॥
गिरिराजस्य वचनात्तनयां तस्य शंकरः॥
पार्श्वे समीपे जग्राह गौरवादपि गोपरः ॥३५॥
उवाचेदं वचः कालीं सखीभ्यां सह गोपतिः॥
नित्यं मां सेवतां यातु निर्भीता ह्यत्र तिष्ठतु ॥३६॥
एवमुक्त्वा तु तां देवीं सेवायै जगृहे हरः॥
निर्विकारो महायोगी नानालीलाकरः प्रभुः ॥३७॥
इदमेव महद्धैर्य्यं धीराणां सुतपस्विनाम्॥
विघ्रवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते ॥३८॥
ततः स्वपुरमायातो गिरिराट् परिचारकैः॥
मुमोदातीव मनसि सप्रियस्स मुनीश्वर ॥३९॥
हरश्च ध्यानयोगेन परमात्मानमादरात्॥
निर्विघ्नेन स्वमनसा त्वासीच्चिंतयितुं स्थितः ॥४०॥
काली सखीभ्यां सहिता प्रत्यहं चंद्रशेखरम्॥
सेवमाना महादेवं गमनागमने स्थिता ॥४१॥
प्रक्षाल्य चरणौ शंभोः पपौ तच्चरणोदकम्॥
वह्निशौचैन वस्त्रेण चक्रे तद्गात्रमार्जनम् ॥४२॥
षोडशेनोपचारेण संपूज्य विधिवद्धरम्॥
पुनःपुनः सुप्रणम्य ययौ नित्यं पितुर्गृहम् ॥४३॥
एवं संसेवमानायां शंकरं ध्यानतत्परम्॥
व्यतीयाय महान्कालश्शिवाया मुनिसत्तम ॥४४॥
कदाचित्सहिता काली सखीभ्यां शंकराश्रमे॥
वितेने सुंदरं गानं सुतालं स्मरवर्द्धनम् ॥४५॥
कदाचित्कुशपुष्पाणि समिधं नयति स्वयम्॥
सखीभ्यां स्थानसंस्कारं कुर्वती न्यवसत्तदा ॥४६॥
कदाचिन्नियता गेहे स्थिता चन्द्रभृतो भ्रृशम्॥
वीक्षंती विस्मयामास सकामा चन्द्रशेखरम् ॥४७॥
ततस्तप्तेन भूतेशस्तां निस्संगां परिस्थिताम्॥
सोऽचिंतयत्तदा वीक्ष्य भूतदेहे स्थितेति च ॥४८॥
नाग्रहीद्गिरिशः कालीं भार्यार्थे निकटे स्थिताम्॥
महालावण्यनिचयां मुनीनामपि मोहिनीम् ॥४९॥
महादेवः पुनर्दृष्ट्वा तथा तां संयतेद्रियाम्॥
स्वसेवने रतां नित्यं सदयस्समचिंतयत् ॥५०॥
यदैवैषा तपश्चर्याव्रतं काली करिष्यति॥
तदा च तां ग्रहीष्यामि गर्वबीजविवर्जिताम् ॥५१॥
 ॥ब्रह्मोवाच॥
इति संचिन्त्य भूतेशो द्रुतं ध्यानसमाश्रितः॥
महयोगीश्वरोऽभूद्वै महालीलाकरः प्रभुः ॥५२॥
ध्यानासक्तस्य तस्याथ शिवस्य परमात्मनः॥
हृदि नासीन्मुने काचिदन्या चिंता व्यवस्थिता ॥५३॥
काली त्वनुदिनं शंभुं सद्भक्त्या समसेवत॥
विचिंतयंती सततं तस्य रूपं महात्मनः ॥५४ ॥
हरो ध्यानपरः कालीं नित्यं प्रैक्षत सुस्थितम्॥
विस्मृत्य पूर्वचिंतां तां पश्यन्नपि न पश्यति ॥५५॥
एतस्मिन्नंतरे देवाश्शक्राद्या मुनयश्च ते॥
ब्रह्माज्ञया स्मरं तत्र प्रेषयामासुरादरात् ॥५६॥
तेन कारयितुं योगं काल्या रुद्रेण कामतः॥
महावीर्येणासुरेण तारकेण प्रपीडिताः ॥५७॥
गत्वा तत्र स्मरस्सर्वमुपायमकरोन्निजम्॥
चुक्षुभे न हरः किञ्चित्तं च भस्मीचकार ह ॥५८॥
पार्वत्यपि विगर्वाभून्मुने तस्य निदेशतः॥
ततस्तपो महत्कृत्वा शिवं प्राप पतिं सती ॥५९॥
बभूवतुस्तौ सुप्रीतौ पार्वतीपरमेश्वरौ॥
चक्रतुर्देवकार्य्यं हि परोपकरणे रतौ ॥६०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीपरमेश्वरसंवादवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP