संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः २४

पार्वतीखण्डः - अध्यायः २४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥देवा ऊचुः॥
नमो रुद्राय देवाय मदनांतकराय च॥
स्तुत्याय भूरिभासाय त्रिनेत्राय नमोनमः ॥१॥
शिपिविष्टाय भीमाय भीमाक्षाय नमोनमः॥
महादेवाय प्रभवे त्रिविष्टपतये नमः ॥२॥
त्वं नाथः सर्वलोकानां पिता माता त्वमीश्वरः॥
शंभुरीशश्शंकरोसि दयालुस्त्वं विशेषतः ॥३॥
त्वं धाता सर्वजगतां त्रातुमर्हसि नः प्रभो॥
त्वां विना कस्समर्थोस्ति दुःखनाशे महेश्वर ॥४॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तेषां सुराणां नन्दिकेश्वरः॥
कृपया परया युक्तो विज्ञप्तुं शंभुमारभत् ॥५॥
 ॥नंदिकेश्वर उवाच॥
विष्ण्वादयस्सुरगणा मुनिसिद्धसंघास्त्वां द्रष्टुमेव सुरवर्य्य विशेषयंति॥
कार्यार्थिनोऽसुरवरैः परिभर्त्स्य मानास्सम्यक् पराभवपदं परमं प्रपन्नाः ॥६॥
तस्मात्त्वया हि सर्वेश त्रातव्या मुनयस्सुराः॥
दीनबंधुर्विशेषेण त्वमुक्तो भक्तवत्सलः ॥७॥  
 ॥ब्रह्मोवाच॥
एवं दयावता शंभुर्विज्ञप्तो नंदिना भृशम्॥
शनैश्शनैरुपरमद्ध्यानादुन्मील्य चाक्षिणी ॥८॥  
ईशोऽथोपरतश्शंभुस्तदा परमकोविदः॥
समाधेः परमात्मासौ सुरान्सर्वानुवाच ह ॥९॥
शंभुरुवाच॥
कस्माद्यूयं समायाता मत्समीपं सुरेश्वरः॥
हरिब्रह्मादयस्सर्वे ब्रूत कारणमाशु तत् ॥१०॥
ब्रह्मोवाच॥
इति श्रुत्वा वचश्शम्भोस्सर्वे देवा मुदाऽन्विताः॥
विष्णोर्विलोकयामासुर्मुखं विज्ञप्तिहेतवे ॥११॥
अथ विष्णुर्महाभक्तो देवानां हितकारकः॥
मदीरितमुवाचेदं सुरकार्यं महत्तरम् ॥१२॥
तारकेण कृतं शंभो देवानां परमाद्भुतम्॥
कष्टात्कष्टतरं देवा विज्ञप्तुं सर्व आगताः ॥१३॥
हे शंभो तव पुत्रेणौरसेन हि भविष्यति॥
निहतस्तारको दैत्यो नान्यथा मम भाषितम् ॥१४॥
विचार्य्येत्थं महादेव कृपां कुरु नमोऽस्तु ते॥
देवान्समुद्धर स्वामिन् कष्टात्तारकनिर्मितात् ॥१५॥
तस्मात्त्वया गिरिजा देव शंभो ग्रहीतव्या पाणिना दक्षिणेन॥
पाणिग्रहेणैव महानुभावां दत्तां गिरींद्रेण च तां कुरुष्व ॥१६॥
विष्णोस्तद्वचनं श्रुत्वा प्रसन्नो ह्यब्रवीच्छिवः॥
दर्शयन् सद्गतिं तेषां सर्वेषां योगतत्परः ॥१७॥
शिव उवाच॥
यदा मे स्वीकृता देवी गिरिजा सर्वसुंदरी॥
तदा सर्वे सुरेंद्राश्च मुनयो ऋषयस्तदा ॥१८॥
सकामाश्च भविष्यन्ति न क्षमाश्च परे पथि॥
जीवयिष्यति दुर्गा सा पाणिग्रहणतस्स्मरम् ॥१९॥
मदनो हि मया दग्धस्सर्वेषां कार्य्यसिद्धये॥
ब्रह्मणो वचनाद्विष्णो नात्र कार्या विचारणा ॥२०॥
एवं विमृश्य मनसा कार्याकार्यव्यवस्थितौ॥
सुधीः सर्वैश्च देवेंद्र हठं नो कर्तुमर्हसि ॥२१॥
दग्धे कामे मया विष्णो सुरकार्यं महत् कृतम्॥
सर्वे तिष्ठंतु निष्कामा मया सह सुनिश्चितम् ॥२२॥
यथाऽहं च सुरास्सर्वे तथा यूयमयत्नतः॥
तपः परमसंयुक्ताः करिष्यध्वं सुदुष्करम् ॥२३॥
यूयं समाधिना तेन मदनेन विना सुराः॥
परमानंदसंयुक्ता निर्विकारा भवंतु वै ॥२४॥
पुरावृत्तं स्मरकृतं विस्मृतं यद्विधे हरे॥
महेन्द्र मुनयो देवा यत्तत्सर्वं विमृश्यताम् ॥२५॥
महाधनुर्धरेणैव मदनेन हठात्सुराः॥
सर्वेषां ध्यानविध्वंसः कृतस्तेन पुरापुरा ॥२६॥
कामो हि नरकायैव तस्मात् क्रोधोभिजायते॥
क्रोधाद्भवति संमोहो मोहाच्च भ्रंशते तपः ॥२७॥
कामक्रोधौ परित्याज्यौ भवद्भिस्सुरसत्तमैः॥
सर्वैरेव च मंतव्यं मद्वाक्यं नान्यथा क्वचित् ॥२८॥
 ॥ब्रह्मोवाच॥
एवं विश्राव्य भगवान् महादेवो वृषध्वजः॥
सुरान् प्रवाचयामास विधिविष्णू तथा मुनीम् ॥२९॥
तूष्णींभूतोऽभवच्छंभुर्ध्यानमाश्रित्य वै पुनः॥
आस्ते पुरा यथा स्थाणुर्गणैश्च परिवारितः ॥३०॥
स्वात्मानमात्मना शंभुरात्मन्येव व्यचिंतयत्॥
निरंजनं निराभासं निर्विकारं निरामयम् ॥३१॥
परात्परतरं नित्यं निर्ममं निरवग्रहम्॥
शब्दातीतं निर्गुणं च ज्ञानगम्यं परात्परम् ॥३२॥
एवं स्वरूपं परमं चिंतयन् ध्यानमास्थितः॥
परमानंदसंमग्नो बभूव बहुसूतिकृत् ॥३३॥
ध्यानस्थितं च सर्वेशं दृष्ट्वा सर्वे दिवौकसः॥
हरि शक्रादयस्सर्वे नंदिनं प्रोचुरानताः ॥३४॥
 ॥देवा ऊचुः॥
किं वयं करवामाद्य विरक्तो ध्यानमास्थितः॥
शंभुस्त्वं शंकर सखस्सर्वज्ञः शुचिसेवकः ॥३५॥
केनोपायेन गिरिशः प्रसन्नः स्याद्गणाधिप॥
तदुपायं समाचक्ष्व वयं त्वच्छरणं गताः ॥३६॥
 ॥ब्रह्मोवाच ॥!
इति विज्ञापितो देवैर्मुने हर्षादिभिस्तदा॥
प्रत्युवाच सुरांस्तान्स नंदी शंभुप्रियो गणः ॥३७॥
नंदीश्वर उवाच॥
हे हरे हे विधे शक्रनिर्जरा मुनयस्तथा॥
शृणुध्वं वचनं मे हि शिवसंतोषकारकम् ॥३८॥
यदि वो हठ एवाद्य शिव दारपरिग्रहे॥
अतिदीनतया सर्वे सुनुतिं कुरुतादरात् ॥३९॥
भक्तेर्वश्यो महादेवो न साधारणतस्तुराः॥
अकार्यमपि सद्भक्त्या करोति परमेश्वरः ॥४०॥
एवं कुरुत सर्वे हि विधिविष्णुमुखाः सुराः॥
यथागतेन मार्गेणान्यथा गच्छत मा चिरम् ॥४१॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तस्य मुने विष्ण्वादयस्सुराः॥
तथेति मत्त्वा सुप्रीत्या शंकरं तुष्टुवुर्हि ते ॥४२॥
देवदेव महादेव करुणासागर प्रभो॥
समुद्धर महाक्लेशात्त्राहि नश्शरणागतान् ॥४३॥
ब्रह्मोवाच॥
इत्येवं बहुदीनोक्त्या तुष्टुवुश्शंकरं सुराः॥
रुरुदुस्सुस्वरं सर्वे प्रेमव्याकुलमानसः ॥४४॥
हरिर्मया सुदीनोक्त्या सुविज्ञप्तं चकार ह॥
संस्मरन्मनसा शंभुं भक्त्या परमयान्वितः ॥४५॥
ब्रह्मोवाच॥
सुरैरेवं स्तुतश्शंभुर्हरिणा च मया भृशम्॥
भक्तवात्सल्यतो ध्यानाद्विरतोभून्महेश्वरः ॥४६॥
उवाच सुप्रसन्नात्मा हर्यादीन्हर्षयन्हरः॥
विलोक्य करुणादृष्ट्या शंकरो भक्तवत्सलः ॥४७॥
शंकर उवाच॥
हे हरे हे विधे देवाश्शक्राद्या युगपत्समे॥
किमर्थमागता यूयं सत्यं ब्रूत ममाग्रतः ॥४८॥
हरिरुवाच॥
सर्वज्ञस्त्वं महेशान त्वंतर्याम्यखिलेश्वरः॥
किं न जानासि चित्तस्थं तथा वच्म्यपि शासनात् ॥४९॥
तारकासुरतो दुःखं संभूतं विविधं मृड॥
सर्वेषां नस्तदर्थं हि प्रसन्नोऽकारि वै सुरैः ॥५०॥
शिवा सा जनिता शैलात्त्वदर्थं हि हिमालयात्॥
तस्यां त्वदुद्भवात्पुत्रात्तस्य मृत्युर्न चान्यथा ॥५१॥
इति दत्तो ब्रह्मणा हि तस्मै दैत्याय यद्वरः॥
तदन्यस्मादमृत्युस्स बाधते निखिलं जगत् ॥५२॥
नारदस्य निर्देशात्सा करोति कठिनं तपः॥
तत्तेजसाखिलं व्याप्तं त्रैलोक्यं सचराचरम् ॥५३॥
वरं दातुं शिवायै हि गच्छ त्वं परमेश्वर॥
देवदुःखं जहि स्वामिन्नस्माकं सुखमावह ॥५४॥
देवानां मे महोत्साहो हृदये चास्ति शंकर॥
विवाहं तव संद्रष्टुं तत्त्वं कुरु यथोचितम् ॥५५॥
रत्यै यद्भवता दत्तो वरस्तस्य परात्पर॥
प्राप्तोऽवसर एवाशु सफलं स्वपणं कुरु ॥५६॥
ब्रह्मोवाच॥
इत्युक्त्वा तं प्रणम्यैव विष्णुर्देवा महर्षयः॥
संस्तूय विविधैस्तोत्रैस्संतस्थुस्तत्पुरोऽखिलाः ॥५७॥
भक्ताधीनः शंकरोऽपि श्रुत्वा देववचस्तदा॥
विहस्य प्रत्युवाचाशु वेदमर्यादरक्षकः ॥५८॥
 ॥शंकर उवाच॥
हे हरे हे विधे देवाश्शृणुतादरतोऽखिलाः॥
यथोचितमहं वच्मि सविशेषं विवेकतः ॥५९॥
नोचितं हि विधानं वै विवाहकरणं नृणाम्॥
महानिगडसंज्ञो हि विवाहो दृढबन्धनः ॥६०॥
कुसंगा बहवो लोके स्त्रीसंगस्तत्र चाधिकः॥
उद्धरेत्सकलबंधैर्न स्त्रीसंगात्प्रमुच्यते ॥६१॥
लोहदारुमयैः पाशैर्दृढं बद्धोऽपि मुच्यते॥
स्त्र्यादिपाशसुसंबद्धो मुच्यते न कदाचन ॥६२॥
वर्द्धंते विषयाश्शश्वन्महाबंधनकारिणः॥
विषयाक्रांतमनसस्स्वप्ने मोक्षोऽपि दुर्लभः ॥६३॥
सुखमिच्छतु चेत्प्राज्ञो विधिवद्विषयाँस्त्यजेत्॥
विषवद्विषयानाहुर्विषयैर्यैर्निहन्यते ॥६४॥
जनो विषयिणा साकं वार्तातः पतति क्षणात्॥
विषयं प्राहुराचार्यास्सितालितेंद्रवारुणीम् ॥६५॥
यद्यप्येवं हि जानामि सर्वं ज्ञानं विशेषतः॥
तथाप्यहं करिष्यामि प्रार्थनां सफलां च वः ॥६६॥
भक्ताधीनोऽहमेवास्मि तद्वशात्सर्वकार्य कृत्॥
अयथोचितकर्ता हि प्रसिद्धो भुवनत्रये ॥६७॥
कामरूपाधिपस्यैव पणश्च सफलः कृतः॥
सुदक्षिणस्य भूपस्य भैमबंधगतस्य हि ॥६८॥
गौतमक्लेशकर्ताहं त्र्यंबकात्मा सुखावहः॥
तत्कष्टप्रददुष्टानां शापदायी विशेषतः ॥६९॥
विषं पीतं सुरार्थं हि भक्तवत्सलभावधृक्॥
देवकष्टं हृतं यत्नात्सर्वदैव मया सुराः ॥७०॥
भक्तार्थमसहं कष्टं बहुशो बहुयत्नतः॥
विश्वानर मुनेर्दुःखं हृतं गृहपतिर्भवन् ॥७१॥
किं बहूक्तेन च हरे विधे सत्यं ब्रवीम्यहम्॥
मत्पणोऽस्तीति यूयं वै सर्वे जानीथ तत्त्वतः ॥७२॥
यदा यदा विपत्तिर्हि भक्तानां भवति क्वचित्॥
तदा तदा हरम्याशु तत्क्षणात्सर्वशस्सदा ॥७३॥
जानेऽहं तारकाद्दुःखं सर्वेषां वस्समुत्थितम्॥
असुरा त्तद्धरिष्यामि सत्यंसत्यं वदाम्यहम् ॥७४॥
नास्ति यद्यपि मे काचिद्विहारकरणे रुचिः॥
विवाहयिष्ये गिरिजा पुत्रोत्पादनहेतवे ॥७५॥
गच्छत स्वगृहाण्येव निर्भयास्सकलाः सुराः॥
कार्यं वस्साधयिष्यामि नात्र कार्या विचारणा ॥७६॥
 ॥ब्रह्मोवाच॥
इत्युक्त्वा मौनमास्थाय समाधिस्थोऽभवद्धरः॥
सर्वे विष्ण्वादयो देवास्स्वधामानि ययुर्मुने ॥७७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीविवाहस्वीकारो नाम चतुर्विशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP