पार्वतीखण्डः - अध्यायः ६
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
॥ब्रह्मोवाच॥
अथ संस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम्॥
प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ॥१॥
ततस्सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः॥
ईहया भतितुं भूयस्समैच्छद्रिरिदारतः ॥२॥
सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा॥
पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ॥३॥
विरराज ततस्सोतिप्रमदोपूर्वसुद्युतिः॥
हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ॥४॥
ततो गिरिस्स्वप्रियायां परिपूर्णं शिवांशकम्॥
समाधिमत्वात्समये समधत्त सुशंकरे ॥५॥
समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः॥
चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ॥६॥
गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम्॥
विरेजे सुतरां मेना तेजोमण्डलगा सदा ॥७॥
सुखोदयं स्वभर्तुश्च मेना दौहृदलक्षणम्॥
दधौ निदानन्देवानामानन्दस्येप्सितं शुभम् ॥८॥
देह सादादसंपूर्णभूषणा लोध्रसंमुखा॥
स्वल्पभेन्दुक्षये कालं विचेष्यर्क्षा विभावरी ॥९॥
तदाननं मृत्सुरभिनायं तृप्तिं गिरीश्वरः॥
मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ॥१०॥
मेना स्पृहावती केषु न मे शंसति वस्तुषु॥
किंचिदिष्टं ह्रियापृच्छदनुवेलं सखी गिरिः ॥११॥
उपेत्य दौहदं शल्यं यद्वव्रेऽपश्यदाशु तत्॥
आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवैऽपि हि ॥१२॥
प्रचीयमानावयवा निस्तीर्य दोहदव्यथाम्॥
रेजे मेना बाललता नद्धपत्राधिका यथा ॥१३॥
गिरिस्सगर्भां महिषीममंस्त धरणीमिव॥
निधानगर्भामभ्यन्तर्लीनवह्निं शमीमिव ॥१४॥
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च॥
समुन्नतैः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः ॥१५॥
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम्॥
अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ॥१६॥
दृष्ट्वा प्रियां शुभाङ्गी वै मुमोदातिगिरीश्वरः॥
गर्भस्थजगदम्बां हि महातेजोवतीन्तदा ॥१७॥
तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा॥
मुनयश्च समागम्य गर्भस्थां तुष्टुवुश्शिवाम् ॥१८॥
देवा ऊचुः॥
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि॥
सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥१९॥
सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः॥
सत्यसत्ये सत्यनेत्रे प्रपन्नाः शरणं च ते ॥२०॥
शिवप्रिये महेशानि देवदुःखक्षयंकरि॥
त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥२१॥
आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह॥
सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ॥२२॥
त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम्॥
त्वाम्विना न हि किंचिद्वै शोभते त्रिभवेष्वपि ॥२३॥
ब्रह्मोवाच॥
इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम्॥
प्रसन्नमनसो देवास्स्वं स्वं धाम ययुस्तदा ॥२४॥
व्यतीते नवमे मासे दशमे मासि पूर्णतः॥
गर्भस्थाया गतिन्द्रध्रे कालिका जगदम्बिका ॥२५॥
तदा सुसमयश्चासीच्छान्तभग्रहतारकः॥
नभः प्रसन्नतां यातं प्रकाशस्सर्वदिक्षु हि ॥२६॥
मही मंगलभूयिष्ठा सवनग्रामसागरा॥
सरस्स्रवन्तीवापीषु पुफुल्लुः पंकजानि वै ॥२७॥
ववुश्च विविधा वातास्सुखस्पर्शा मुनीश्वर॥
मुमुदुस्साधवस्सर्वेऽसतान्दुःखमभूद्द्रुतम् ॥२८॥
दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः॥
पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः ॥२९॥
विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरास्तथा॥
तदोत्सवो महानासीद्देवादीनां नभःस्थले ॥३०॥
तस्मिन्नवसरे देवी पूर्वशक्तिश्शिवा सती॥
आविर्बभूव पुरतो मेनाया निजरूपतः ॥३१॥
वसंतर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके॥
अर्द्धरात्रे समुत्पन्ना गंगेव शशिमण्डलात् ॥३२॥
समये तत्स्वरूपेण मेनका जठराच्छिवा॥
समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥३३॥
ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः॥
अनुकूलो ववौ वायुर्गम्भीरो गंधयुक्शुभः ॥३४॥
बभूव पुष्पवृष्टिश्च तोयवृष्टि पुरस्सरम्॥
जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ॥३५॥
तस्यां तु जायमानायां सर्वस्वं समपद्यत॥
हिमवन्नगरे तत्र सर्व दुःखं क्षयं गतम् ॥३६॥
तस्मिन्नवसरे तत्र विष्ण्वाद्यास्सकलास्सुराः॥
आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम् ॥३७॥
तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम्॥
दिव्यारूपां महामायां शिवलोकनिवासिनीम् ॥३८॥
॥देवा ऊचुः॥
जगदम्ब महादेवि सर्वसिद्धिविधायिनि॥
देवकार्यकरी त्वं हि सदातस्त्वां नमामहे ॥३९॥
सर्वथा कुरु कल्याणं देवानां भक्तवत्सले॥
मेनामनोरथः पूर्णः कृतः कुरु हरस्य च ॥४०॥
॥ब्रह्मोवाच॥
इत्थं स्तुत्वा शिवां देवीं विष्ण्वाद्या सुप्रणम्य ताम्॥
स्वंस्वं धाम ययुः प्रीताश्शंसन्तस्तद्गतिं पराम् ॥४१॥
तान्तु दृष्ट्वा तथा जातां नीलोत्पलदलप्रभाम॥
श्यामा सा मेनका देवी मुदमापाति नारद ॥४२॥
दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया॥
विज्ञाय परमेशानीं तुष्टावातिप्रहर्षिता ॥४३॥
मेनोवाच॥
जगदम्ब महेशानि कृतातिकरुणा त्वया॥
आविर्भूता मम पुरो विलसन्ती यदम्बिके ॥४४॥
त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे॥
शिवप्रिया सदा देवी सर्वदेवस्तुता परा ॥४५॥
कृपां कुरु महेशानि मम ध्यानस्थिता भव॥
एतद्रूपेण प्रत्यक्षं रूपं धेहि सुतासमम् ॥४६॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः॥
प्रत्युवाच शिवा देवी सुप्रसवामअरिप्रियाम् ॥४७॥
देव्युवाच॥
हे मेने त्वं पुरा मां च सुसेवितवती रता॥
त्वद्भक्त्या सुप्रसन्नाहं वरन्दातुं गतान्तिकम् ॥४८॥
वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः॥
सुता भव महादेवी सा मे देवहितं कुरु ॥४९॥
तथा दत्त्वा वरं तेऽहं गता स्वम्पदमादरात्॥
समयं प्राप्य तनया भवन्ते गिरिकामिनि ॥५०॥
दिव्यरूपं धृतं मेद्य यत्ते मत्स्मरणं भवेत्॥
अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि ॥५१॥
युवां मां पुत्रिभावेन दिव्यभावेन वा सकृत्॥
चिन्तयन्तौ कृतस्नेहौ यातास्स्थो मद्गतिम्पराम् ॥५२॥
देवकार्यं करिष्यामि लीलां कृत्वा द्भुतां क्षितौ॥
शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान् ॥५३॥
ब्रह्मोवाच॥
इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्त्ममायया॥
पश्यन्त्यां मातरि प्रीत्या सद्योऽऽभूत्तनया तनुः ॥५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्टोऽध्यायः ॥६॥
N/A
References : N/A
Last Updated : October 07, 2020
TOP