युद्धकाण्डम् - काव्य ७०१ ते ७५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


‘ वत्सैकस्याप रा धेन न सर्वान्हन्तुमर्हसि, ’
इत्युवाच तदा रामः क्रुद्धो विद्धः खरैः शैरः. ॥७०१॥
‘ तस्यैवाहं प्र म थने यत्नमद्य महाभुज
करिष्यामि ’ति चोवाच लक्ष्मणं पुण्यलक्षणम्. ॥७०२॥
‘ दिव्यास्त्रवेत्ता श्री मान्मां हनिष्यत्येव सर्वथा ’
इति ज्ञात्वेंद्रजित्तूर्णं प्रविवेश पुरीं ततः. ॥७०३॥
निकुंभिलां सु रा रातिर्गतुकामो महाखलः
स प्रादुर्भावयामास सीतां मायामयीं रथे. ॥७०४॥
निर्गत्य पश्चि म द्वाराद्दृष्ट्वा युद्धोद्यतौ प्रभू
तद्वारणार्थं तां मायां स प्रादुरकरोदरिः. ॥७०५॥
सत्यां सीतामां ज नेयो मन्यमानो हरिद्विषा
गृहीतमूर्द्धजां दृष्ट्वा हंतुकामं तमब्रवीत्. ॥७०६॥
‘ धिक्त्वां दुष्कर्म य स्यैतत्किं तवापकृतं खल !
साध्वीं जनकजां सीतां यदेनां हंसि निर्घृण ! ॥७०७॥
सीतां हत्वाप रा धी त्वंन जीविष्यसि जातुचित्
वधार्हकर्मणा तेन मम हस्तगतो ह्यसि. ’ ॥७०८॥
इति ब्रुवाणो म रुतस्तनयो हरिभिः सह
अभ्यधावत्सुसंक्रुद्धो राक्षसेंद्रसुतं प्रति. ॥७०९॥
स तं क्षुरप्रां ज लिकनाराचैः कपिवाहिनीम्
न्यवारयत्क्षोभयित्वा हनूमंतमथाब्रवीत्. ॥७१०॥
‘ न हंतव्याः स्त्रि य श्चेति यद्ब्रवीषि प्लवंगम् !
पीडाकरममित्राणां यच्च कर्तव्यमेव तत्. ॥७११॥
यन्निमित्तं त्वं ज लधिं तीर्त्वा रामः सलक्ष्मणः
सुग्रीवश्चांगदश्चेमे कपयश्च समागताः. ॥७१२॥
इमां हत्वा स्व य महं रामं च सलक्ष्मणम्
सुग्रीवं च वधिष्यामि तं चानार्यं बिभीषणम्. ’ ॥७१३॥
तमेवमुक्त्वा रा तिस्तां रुदतीं जानकीं तदा
शितधारेण खङ्गेन निजघानेंद्रजित्स्वयम्. ॥७१४॥
छिन्ना पपात म ह्यां सा रामेत्युक्त्वा तपस्विनी
तामिंद्रजित्तथा हत्वा ततो मारुतिमब्रवीत्. ॥७१५॥
‘ मया हताति श्री रेषा प्रिया रामस्य जानकी
पश्य वानर सर्वोऽयं निष्फलो वः परिश्रमः. ’ ॥७१६॥
तच्छ्रुत्वा वान रा स्तस्य दुर्मतेर्गर्जितं तथा
दृष्ट्वा विशस्तां सीतां च दुद्रुवुर्हेतिवादिनः. ॥७१७॥
निवृत्ता हनु म द्वाक्यैस्तं पुरस्कृत्य यूथपाः
रक्षसां कदनं चक्रुः शिलाशिखरपादपैः. ॥७१८॥
दृष्ट्वा शिलामां ज नेयक्षिप्तां वेगेन रावणिः
तस्माद्देशादपाक्रामत्सा विवेश दृष्टद्भुवम्. ॥७१९॥
निपतंत्या क्ष य स्तेषां रक्षसां शिलया कृतः
चापो रावणिना दंडः कालेनेव तदा धृतः. ॥७२०॥
जघ्नुः क्रूराः श रा स्तस्य बहून्वानरपुंगवान्
स मारुतिः प्लवंगाश्च शिलाभिर्भूरुहैः परान्. ॥७२१॥
स हनूमान्प्र म थितं रक्षोनीकं निवार्य तत्
यूथपानब्रवीत्सर्वा‘न्निवर्तध्वं प्लवंगमाः. ॥७२२॥
यन्निमित्तं नि ज प्राणांस्त्यक्त्वा युध्याम आकुलाः
सा हतेंद्रजिता सीता युद्धेन विफलेन किम् ? ॥७२३॥
ज्ञात्वादावप्रि य मिदं महत्सुग्रीवराघवौ
तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम्. ’ ॥७२४॥
इति युद्धादां ज नेयं निवृत्तं हरिभिः सह
दृष्ट्वेंद्रजिद्धोतुकामो गतश्चैत्यं निकुंभिलाम्. ॥७२५॥
हुतो धनंज य स्तेन यज्ञभूमौ विधानतः
संध्यागत इवादित्य उत्थितो रक्ततर्पितः. ॥७२६॥
तस्य तेऽनुच रा स्तत्र राक्षसाः सुमहाबलाः
तस्थुस्तद्रक्षणे यत्ता गृहीतविविधायुधाः. ॥७२७॥
हनूमता प्र म थने प्रियाया विनिवेदिते
पपात सहसा भूमौ राघवः शोकमूर्च्छितः. ॥७२८॥
रामं सुशीतैः श्री मंतमसिंचन् वानरा जलैः
आश्वासयामास तदा तं परिष्वज्य लक्ष्मणः. ॥७२९॥
सीताशोकप रा धीने रामे खिन्ने कपीश्वरे
गुल्मान्संस्थाप्य परित आजगाम बिभीषणः. ॥७३०॥
स श्रुत्वोवाच म तिमान् राघवं शोकपीडितम्,
‘ राम ! मायाविना तेन सीता मायामयी हता ॥७३१॥
निकुंभिलां वि ज यदं यागं कर्तुं गतो ध्रुवम्
गच्छामस्तत्र यावन्न तस्य होमः समाप्यते. ॥७३२॥
त्वं स्वस्थहृद य स्तिष्ठ लक्ष्मणं प्रेषय द्रुतम्
रावणिर्विघ्निते यागे ध्रुवं वध्यो भविष्यति. ॥७३३॥
तत्त्वं संदिश रा जेंद्र ! सौमित्रिं कार्यसिद्धये
हनिष्यत्येष तं युद्धे ततस्त्वमपि रावणम्. ’ ॥७३४॥
ततो रामस्त म त्यंतप्रियं लक्ष्मणमाशिषा
वर्धयित्वाहितं हंतुं प्रेषयामास सत्कृतम्. ॥७३५॥
यूथपैर्वात ज मुखैः सर्क्षराजबिभीषणः
प्रणम्य रामं सौमित्रिर्जगाम बलसंवृतः. ॥७३६॥
कज्जलस्योच्च य प्रख्यं व्यूहमासाद्य रक्षसाम्
तस्थौ ब्रह्मविधानेन विजेतुं रघुनंदनः. ॥७३७॥
निशाचरा नि ज घ्नुस्ते शस्त्रैरुग्रैः प्लवंगमान्
तानृक्षा वानराश्चापि ग्रावभिः शिखरैरगैः. ॥७३८॥
स संप्रहारो य ततां तेषां वानररक्षसाम्
बभूव तुमुलोऽन्योन्यं क्रुद्धानामभिनिघ्नताम्. ॥७३९॥
उत्तस्थौ स दु रा धर्षो विषण्णे निहते बले
आरुरोह रथं भीममसमाप्तक्रियो रुषा. ॥७४०॥
मारुतिस्तत्र म हता पादपेन महाबलः
रक्षसां कदनं चक्रे तं जघ्ने रावणिः शरैः. ॥७४१॥
मारुतिस्तत्र म हता पादपेन महाबलः
रक्षसां कदनं चक्रे तं जघ्ने रावणिः शरैः. ॥७४१॥
बिभीषणेन श्री मान्त्स भ्राता रामस्य लक्ष्मणः
जहि रावणिमित्युक्तो दर्शयित्वा रणोद्यतम्. ॥७४२॥
स रावणिर रा तेस्तं पितृव्यं पक्षमाश्रितम्
गर्हयामास बह्वीभिर्दुर्वृत्तः परुषोक्तिभिः. ॥७४३॥
बिभीषणोऽपि म तिमांस्तमुवाचाग्रजात्मजम्,
‘ दीप्तालय इव त्यक्तः पिता ते दोषवान्मया. ॥७४४॥
पापस्त्वं मनु ज श्रेष्ठाल्लक्ष्मणान्न विमोक्ष्यसे
नेयमस्ति पुरी लंका न च त्वं न च ते पिता. ॥७४५॥
मानी दुराश य श्चासि बालो विनयवर्जितः
बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि. ’ ॥७४६॥
तस्य सौमित्रि रा रुह्य स्कंधं सूनोर्नभस्वतः
चकार युद्धं तुमुलं तदा रावणिना सह. ॥७४७॥
बिभीषणेन म थिता गदया तस्य वाजिनः
तत्सारथेः शिरः कायात्पातयामास लक्ष्मणः. ॥७४८॥
तमाह ‘ मनु ज त्वं न क्षमः स्थातुं ममाग्रतः
त्वामहं प्रेषयिष्यामि न चिराद्यमसादनम्. ’ ॥७४९॥
लक्ष्मणोऽविन य क्रौर्यमायाधर्मवशंवदम्
उवाच रावणिं, ‘ युद्धं कुरु त्वं किं विकत्थसे ? ॥७५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP