युद्धकाण्डम् - काव्य ५५१ ते ६००

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


देहे शिलोच्च य क्रूरे विशीर्णास्तस्य ते द्रुमाः
शिलाश्च शिखराण्यद्रेः शतशः प्राज्यतेजसः. ॥५५१॥
वलीमुखव रा स्तेन निहता बहवो रणे
रक्तार्द्रा दुद्रुवुस्तेन तीर्णा येन पथार्णवम्. ॥५५२॥
अंगदस्तान्भ्र म च्चित्तान् वानरान् पुनरब्रवीत्,
‘ अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः ! ॥५५३॥
द्रुतानां नैव ज गतीपृष्ठे पश्यामि वः स्थलम्
दारा ह्युपहसिष्यंति सोऽधिको जीवतां वधः. ॥५५४॥
रामं दृष्ट्वा ना य मद्य क्रूरो जीवन् गमिष्यति
दीप्यमानमिवासाद्य पतंगो जातवेदसम्. ॥५५५॥
द्रवमाणास्तु ज वना अंगदेन वलीमुखाः
सांत्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः. ॥५५६॥
आर्यात आस्था य मतिं तस्थुः संग्रामकांक्षिणः
पर्यवस्थापिताः सूक्तैरंगदेन प्रहर्षिताः. ॥५५७॥
ततस्तान् वान रा न्वीरान् भक्षयामास राक्षसः
नासापुटाभ्यां कर्णाभ्यां तस्य केचिद्विनिर्गताः. ॥५५८॥
शैलशृंगैस्तं म रुतस्ताडयामास नंदनः
तमाजघान शूलेन कुंभकर्णो भुजांतरे ॥५५९॥
स्भीमं ननाद श्री मान्त्स मारुती रक्षसाहतः
रक्षोगणा विनेदुस्तं समीक्ष्य व्यथितं कपिम्. ॥५६०॥
ऋषभं च ध रा यां स शरभं गंधमादनम्
नीलं गवाक्षं चरणे पातयामास राक्षसः. ॥५६१॥
तं समारुह्य म हिभृत्तुल्यं ते कपयो रुषा
दद्न्शुर्दारयामासुर्नखैर्जघ्नुश्च मुष्टिभिः. ॥५६२॥
यथा सर्पान् द्वि ज पतिर्भक्षयन् परिधावति
तथैव कुंभकर्णस्तान्कीशानीशानविक्रमः. ॥५६३॥
तारायास्तन य स्तेन मुष्टिना ताडितो हृदि
पपात भूमौ संत्यक्तो महसा सहसार्दितः. ॥५६४॥
सुग्रीवो वान रा धीशः शैलशृंगेन वक्षसि
तमाजघान तद्भिन्नं विशाले तद्भुजांतरे. ॥५६५॥
शूलं चिक्षेप म दिरामदांधः स निशाचरः
समुत्पत्य गृहीत्वा तद्बभंज पवनात्मजः. ॥५६६॥
शृंगमुत्पाट्य ज गतधिरस्य मलयस्य सः
जघान तेन सुग्रीवं पातयामास मूर्च्छितम्. ॥५६७॥
यथा वातस्तो य दं तं संप्रगृह्य जहार सः
हनूमांश्चितयामास किं कार्यमिति बुद्धिमान्. ॥५६८॥
‘ मोक्षितश्चेन्नि ज स्वामी मयाद्य बलशालिना
अप्रीतिश्च भवेदस्य कीर्तिनाशश्च शाश्वतः. ॥५६९॥
मूर्छितोऽद्य स्व य मयं मुहूर्ताद्वानरेश्वरः
मोक्षं प्राप्स्यै सेनां स्वां तावदाश्वासयाम्यहम्. ॥५७०॥
एवमाजौ प रा क्रम्य तमादाय कपीश्वरम्
विवेश लंकां विजयी कुंभकर्णो महायशाः. ॥५७१॥
पूज्यमानः सु म नसां गंधोदानां च वृष्टिभिः
राजमार्गे गतो हृष्टः कुंभकर्णः शनैःशनैः. ॥५७२॥
अथ प्रबुद्धः श्री मान्त्स प्लवगेशो महाबलः
दैवगत्या बभूवास्य तद्वर्षं मोहशांतये. ॥५७३॥
प्लवंगमानां रा जाशु तस्य कर्णौ नखैः खरैः
लुलुंच नासां दशनैः पाश्वौ च विददार सः. ॥५७४॥
छिन्नकर्णोऽत्य म र्ष्यार्तो हृतनासो विरूपितः
आविध्य भूमौ सुग्रीवं कुंभकर्णः पिपेष सः. ॥५७५॥
अभिxx ष्टोऽलं ज गत्यां हन्यमानोऽपि राक्षसैः
जगाम खं कंदुकवत् जवेन स हरीश्वरः. ॥५७६॥
प्रगर्जन्प्रल य प्रोद्यन्मेघधीरध्वनिर्द्रुतम्
वानराणां सार्वभौमो रामपार्श्वं जगाम सः. ॥५७७॥
आयुधं मुद्र रा ख्यं स प्रगृह्य क्रोधनः पुरात्
पुनर्विनिर्गतो योद्धुं प्रलयज्वलनप्रभः. ॥५७८॥
खादन् प्लवंग म शतान्यं तकप्रतिमो यदा
चचार राक्षसो, भीताः शरणं राघवं ययुः. ॥५७९॥
तदा रामानु ज स्तस्य चिच्छेद कवचं शरैः
निचखानाशुगान्देहे शतशो वज्रदारुणान्. ॥५८०॥
कुंभकर्णः स्म य न्नाह, ‘ साधु साधु महाभुज !
युध्यता मामभीतेन ख्यापिता वीरता त्वया. ॥५८१॥
वीर ! रामानु ज ! रणे तोषितोऽहं त्वया भृशम्
नेंद्रोऽपि मेऽग्रतो युद्धे स्थितपूर्वः कदाचन. ॥५८२॥
अंतकस्याप्य य त्नेन जेतुर्मेऽतुलतेजसः
तिष्ठन्नप्यग्रतः पुज्यः किमु युद्धप्रदायकः. ॥५८३॥
त्वामनुज्ञाप्य रा जेंद्रं गंतुमिच्छामि लक्ष्मण !
तमेव हंतुमीहा मे सर्वं तस्मिन् हते हतम्. ॥५८४॥
दृष्टः पराक्र म स्तेऽद्य सत्यं त्वय्यद्भुतं बलम्. ’
‘ एष दाशरथी रामस्तिष्ठती’त्यब्रवीत्स तम्. ॥५८५॥
ततः स रामं श्री मंतमभिदुद्राव राक्षसः
कुंभकर्णो महातेजाः कंपयन्नखिलां महीम्. ॥५८६॥
रामः शचीव रा रातिं हृदि विव्याध मार्गणैः
विद्धस्य हस्तात्तस्योर्व्यां पपातोग्रगदा तदा. ॥५८७॥
रक्षःप्लवंग म र्क्षान्त्स भक्षयामास राक्षसः
मत्तो रुधिरगंधेन मद्येन च रुषोद्धतः. ॥५८८॥
राममुद्दिश्य ज गतीधरशृंगमरिर्महत्
चिक्षेप स्मरे क्रुद्धः कुंभकर्णो महाबलः. ॥५८९॥
कौसल्यातन य स्तूर्णं शरैश्चिच्छेद सप्तभिः
द्वे शते वानराणां तत्पतमानमपातयत्. ॥५९०॥
तस्मिन्काले न रा धीशं रामं सौमित्रिरब्रवीत्,
‘ मत्तः शोणितगंधेन स्वान् परांश्चैष खादति. ॥५९१॥
एनं प्रमत्त म धुना वानराः शतशः प्रभो !
अधिरोहंतु भारार्तु नान्यान्हन्यादयं कपीन्. ’ ॥५९२॥
अधिरूढास्त्रि ज गतां नाथस्याज्ञानुवर्तिनः
व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान्. ॥५९३॥
कोदंडमादा य तदा तमुवाच रघूतमः
‘ आगच्छ राक्षसश्रेष्ठ ! रक्षःकालमवेहि माम्. ॥५९४॥
दशकंठानु ज स्तेन तथोक्तः प्रभुणा स्वयम्
रामोऽयमिति विज्ञाय जहास विकृतस्वरम्. ॥५९५॥
उवाच, ‘ प्र य त्नं त्वं कुरु राम ! मयि ध्रुवम्
न विराधः खरो वाली कुंभकर्णोऽहमागतः ॥५९६॥
पराक्रमं त्वं रा जीवलोचनाजौ प्रदर्शय  
ततस्त्वां भक्षयिष्यामि दृष्ट्वादौ तव विक्रमम्. ’ ॥५९७॥
श्रुत्वातिविक्र म स्येत्थं वाक्यं तलक्ष्मणाग्रजः
कृत्वा युद्धं प्रचिच्छेद बाहुं तस्य समुद्ररम्. ॥५९८॥
भ्रातुः स बाहुः भी दस्य वज्रच्छिन्नाद्रिशृंगवत्
पपात, पतता तेन मर्दिता कपिवाहिनी. ॥५९९॥
स्वर्भानुरिव रा केशं रामं हंतुं स राक्षसः
अभिदुद्राव वामेन करेणोत्पाट्य भूरुहम्. ॥६००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP