युद्धकाण्डम् - काव्य ४०१ ते ४५०

युद्धकाण्डम् या प्रकरणातील श्लोकातील सहावे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


‘ पंचत्वमद्य य द्येष प्राप्तः सौमित्रिरात्मवान्
किं नु मे सीतया कार्यं ? परित्यक्ष्याम्यसूनहम्. ॥४०१॥
शक्या लोकेषु रा मा मे सीता तुल्या विचिन्वता
न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः. ॥४०२॥
किं नु वक्ष्यामि म म तां कौसल्यां मातरं ? बत !
किं कैकेयीं किं सुमित्रां पुत्रदर्शनलालसाम् ? ॥४०३॥
साधुर्गुणाढ्यः श्री मान् यः पातितो हंत ! मत्कृते
धिङ् मां दुष्कृतकर्माणमनार्यं दुःखभाजनम्. ॥४०४॥
अस्यामेव ध रा यां स्वं देहं त्यक्ष्याम्यहं बत !
तत्तु मिथ्या प्रलपितं मां प्रधक्ष्यत्यसंशयः. ॥४०५॥
यल्लंकायां नो म यायं कृतो राजा बिभीषणः
अस्मिन्मुहूर्ते सुग्रीव ! प्रतियातुमितो‍ऽर्हसि. ॥४०६॥
पुरस्कृत्यात्म ज ममुं ससैन्यस्तर सागरम्
शोकेन सत्त्वहीनं त्वां रावणोऽभिभविष्यति. ॥४०७॥
यत्तुं शक्यं व य स्येन सुहृदा वा परं मम
कृतं सुग्रीव ! तत्सर्वं भवताधर्ममीरुणा. ॥४०८॥
यत्कार्यं वान रा ! मित्रैर्भवद्भिर्हनुमन्मुखैः
तत्कृतं तेन तुष्यामि स्वस्ति वोऽस्तु यशस्विनः. ॥४०९॥
अनुज्ञातास्ते म या ये समुत्तीर्याब्धिमागताह
भो ऋक्षा ! वानराः ! सर्वे यथेष्टं गंतुमर्हथ. ’ ॥४१०॥
यैः श्रुतं तस्य ज गतीभर्तुस्तत्परिदेवितम्
रुरुदुस्ते भृशं दीना ऋक्षाश्च कपयः समम्. ॥४११॥
स्थापयित्वा प्र य त्नेन सर्वाः सेना बिभीषणः
आजगाम गदापाणिस्त्वरितं यत्र राघवः. ॥४१२॥
तमंजनाभं ज विनं दृष्ट्वा सर्वे वनौकसः
दिश प्रदुद्रुवुर्भीता मत्वा रावणिमागतम्. ॥४१३॥
हेतुं तेषां भ य स्याथ ज्ञात्वा राजा बिभीषणम्
जांबवंतमुवा‘चैतान् पर्यवस्थापय द्रुतम्. ॥४१४॥
जांबवान्वान रा न्सर्वान्पलायनपरान्स्वयम्
सांत्वयामास संत्रस्तान्सन्निवर्त्य महाजवः. ॥४१५॥
बिभीषणः स म क्लेशो दृष्ट्वा तौ रामलक्ष्मणौ,
‘ हा हे’त्युक्त्वा स शोकार्तो रुरोद विललाप च. ॥४१६॥
‘ जिह्मेन हंत श्री मंतौ वंचितावृजुविक्रमौ
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः. ॥४१७॥
कृतः सकामोऽ रा तिर्नो मेघनादेन रावणः ’
विलपंतं परिष्वज्य तमुवाच हरीश्वरः. ॥४१८॥
भविष्यति स म ग्रस्ते कामो धैर्यं सखे ! कुरु
त्यक्त्वा मोहं निहंतारौ रावणं रामलक्ष्मणौ. ’ ॥३१९॥
अथ वाल्यनु ज स्तत्र सुषेणं श्वशुरं तदा
अब्रवी‘द्रच्छ किंष्किंधां गृहीत्वा रामलक्ष्मणौ. ॥४२०॥
दशास्यस्यात्य य महं कृत्वा पुत्रादिभिः सह
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्. ॥४२१॥
सुषेणो वान रा धीशमब्रवी‘त्क्षीरसागरे
चंद्रद्रोणौ गिरिश्रेष्ठौ वर्तते वानरेश्वर ! ॥४२२॥
तत्रौषध्यौ ते म हत्यौ विद्येते नामनी तयोः
संजीवकरणित्येव विशल्यकरणीति च. ॥४२३॥
ओषधी तेद्य ज वनाः संपातिपनसादयः
यांत्वानयितुमाश्वेको हनूमान्वा महाजवः. ॥४२४॥
हताः सुराः सं य ति ये दैत्यैस्तान् धिषणः स्वयम्
याभ्यामुत्थापयामास निर्मिताभ्यां स्वयंभुवा. ’ ॥४२५॥
तस्मिन्काले द्वि ज श्रेष्ठो महता पक्षवायुना
कंपयन्सार्णवां क्षोणीमाजगाम भुजंगभुक्. ॥४२६॥
दुद्रुवुस्तेऽह य स्त्रस्ताः पक्षिराजे समागते
जाता व्राता वानराणां मुदिता रुदिताकुलाः. ॥४२७॥
जयाशिषा न रा धीशौ प्रतिपूज्य खगेश्वरः
विममर्श च पाणिभ्यां मुखे चंद्रसमप्रभे. ॥४२८॥
स्पृष्टास्तेन स म स्तास्ते तयोः संरुरुहुर्व्रणाः
सुवर्णे च तनू स्निग्धे प्रभ्वोराशु बभूवतुः. ॥४२९॥
धृतिश्च शक्तिः श्री स्तस्य सानुजस्य प्रभोस्तदा
द्विगुणाभूत्स्मृतिर्बुद्धिर्लीलया मानुषाकृतेः. ॥४३०॥
सस्वजे च सु रा धीशप्रतिमौ तावुभौ मुदा
रामस्तमब्रवी‘दावां व्यसने रक्षितौ त्वया. ॥४३१॥
यथा तातं प्रे म सिंधुं यथाजं च पितामहम्
तथा भवंतमासाद्य हृदयं मे प्रसीदति. ॥४३२॥
को भवान् विर ज स्के त्वं वसानो वसने शुभे
दिव्यस्त्रगंगरागश्च दिव्याभरणभूषितः. ’ ॥४३३॥
विनतातन य स्तेऽहं सखा प्राणो बहिश्चरः
नाम्ना गरुड इत्युक्त्वा पृष्ट्वा सोऽगाद्याथागतम् ॥४३४॥
प्रहृष्टा वान रा दृष्ट्वा नीरजौ रामलक्ष्मणौ
सिंहनादं तदा नेदुर्लांगूलं दुधुवुश्च ते. ॥४३५॥
ततः प्लवंग म वरा द्रुमानुत्पाट्य कोटिशः
लंकाद्वाराण्युपाजग्मुर्युद्धकामा महाबलाः. ॥४३६॥
राजराजानु ज स्तेपां ज्ञात्वा हर्षस्य कारणम्
संशयस्थं बलं मेने धूम्राक्षं प्राहिणोदथ. ॥४३७॥
कृतः कीशक्ष य स्तेन धूम्राक्षेण रणाजिरे
गिरेः शिखरमादाय स हतो वायुसूनुना. ॥४३८॥
वज्रदंष्ट्रं च ज न्यार्थं प्रेषयामास रावणः
अंगदस्तस्य चिच्छेद शिरस्तदसिना रणे. ॥४३९॥
अकंपनं ज यस्यार्थे निर्गतं रावणाज्ञया
हनूमानवधीद्युद्धे तरुणा तरुणार्करुक्. ॥४४०॥
प्रहस्तोऽथ सु रा नीकपराभवविचक्षणः
रावणप्रहितो युद्धे नीलेन शिलया हतः. ॥४४१॥
अथ श्रुत्वा प्र म थितं प्रहस्तं वाहिनीपतिम्
निर्ययौ स्वयमेवोग्रः कूरकर्मा दशाननः. ॥४४२॥
हंतुं सुकंठः श्री दस्य भ्रातरं भीमविक्रमम्
गृहीत्वाद्रेर्महाशृंगमभिदुद्राव वेगवान्. ॥४४३॥
सायकैर्यातु रा जस्तच्चूर्णीकृत्य महाबलः
शरेणैकेन सुग्रीवं पातयामास भूतले. ॥४४४॥
शैलान्गृहीत्वा म हतो गवाक्षगवयर्षभाः
प्रदुद्रुवुस्तेऽपि शरैस्तेन विद्ध्वा निपातिताः. ॥४४५॥
यथा वातेन ज लदा भग्नास्तेन वलीमुखाः.
जग्मुः शरण्यं शरणं रामं कामं भयाकुलाः, ॥४४६॥
कोदंडमादा य परं हंतुं गंतुं समुद्यतम्
प्रांजलिर्लक्ष्मणो राममब्रवीदग्रतः स्थितः, ॥४४७॥
‘ पर्याप्तोऽह प रा भूतौ रावणस्य दुरात्मनः
आर्य ! कार्यमिदं कर्तुमनुजानीहि मां प्रभो ! ’ ॥४४८॥
तं सोऽब्रवी‘त्स म र्थोऽसि गच्छ यत्नपरो भव
आत्मानं रक्ष सौमित्रे ! रावणो हि महाबलः ’ ॥४४९॥
परिष्वज्याग्र ज मथो नत्वा सौमित्रिराहवम्
ययौ ददर्श दिक्तुंडं छादयंतं शरैररीन्. ॥४५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP