TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्थाष्टक - प्रथमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अथ षड्लिङ्गै श्रवणमहावाक्यार्थबोधो नाम चतुर्थाष्टके प्रथमोsध्याय:
हरि: ॐ ॥ त्वामग्ने रविचन्द्रादेर्भासकं लोकचालकम् ॥
पृच्छामीदं कथं ज्ञानमाप्नुयां दयया वद ॥१॥
इति पृष्टोsर्जुनेनाह श्रीदत्त: श्रृणु भूपते ॥
यदेकं परमं ब्रह्म नित्यमुक्तविक्रियम् ॥२॥
तत्स्वशक्तिसमाविष्टमीशमाहुर्मनीषिण: ॥
स विष्णु: स शिवो ब्रह्मा सोsग्निरिन्द्र: स्वराङ्ढरि: ॥३॥
धाता काल: क्रिया कर्ता जीवनं मृत्युरामय: ॥
नारायणो हृषीकेशो भूतं भव्यं भवच्च स: ॥४॥
वस्तुमात्रमिदं सर्वमहमेवास्मि सर्वदृक् ॥
अहमेव परं ध्येयं मिथ्याभ्रमनिवृत्तये ॥५॥
भ्रमस्यापि च नामानि कल्पितानि श्रृणुष्व तत् ॥
मायाविद्या परा देवी मनोsनादिर्भ्रमस्त्रिवृत् ॥६॥
प्रधानं प्रकृतिर्ब्रह्म योनी: शक्तिश्च कारणम् ॥
मोहोsध्यासस्तमोsज्ञानं प्रस्वाप: कारणं त्विदम् ॥७॥
अतोsविद्या पञ्चपर्वा महामोहो द्विरूपक: ॥
विक्षेपावृतिशक्त्याख्य आद्यात्सर्गोsत्र भौतिक: ॥८॥
स्वरूपमावृणोत्यन्यो मुक्तं चेशं विना भृशम् ॥
योsविद्यार्तोsवशो दु:खी भ्रान्तोsज्ञो जीव एव स: ॥९॥
समष्टिरीश: सर्वज्ञो वशमाय: स्वराट् सुख: ॥
असत्त्वाभानाख्यभक्तावृतिहृद्गुरुरप्यसौ ॥१०॥
मतं मूढैर्जगन्नित्यं तथा जीवेशयोर्भिदा ॥
एवं भेदत्रयेणेदं भातं वस्त्वेव मायया ॥११॥
तन्निवृत्यै कृता वेदै: सृष्टिप्रलयकल्पना ॥
मूढस्य सा मता सत्या भ्रमोsयं लीयते विदा ॥१२॥
ज्ञानं विद्येति तां प्राहुर्द्वेधा विद्या विचारजा ॥
परोक्षा चापरोक्षेति तत्राद्या गुरुवक्त्रत: ॥१३॥
अमानित्वादियुक्तै: सा विज्ञेया साधनान्वितै: ॥
गुरुभक्तिं विना सापि दुर्लभा मोक्षदायिनी ॥१४॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्था: प्रकाशन्ते महात्मन: ॥१५॥
गुर्वनुग्रहमात्रेण विचार: सुलभो नृणाम् ॥
विचारेण परं तत्त्वं स्वयमेव प्रकाशते ॥१६॥
राजंस्त्वयाखिलं कर्म योगयागादिकं मयि ॥
समर्पितं ततोsयं ते विचारोsद्य समुत्थित: ॥१७॥
वैराग्यं परमं जातं भ्रममोहमलापहम् ॥
अतो विद्याप्रसादस्ते भविष्यत्यचिरेण हि ॥१८॥
विद्या ज्ञेया परोक्षेयं वेदान्तश्रवणात्मिका ॥
उपक्रमादिभिर्लिङ्गैर्यत्तात्पर्यावधारणम् ॥१९॥
तदेव श्रवणं तत्तु हरेत्संशयभावनाम् ॥
असत्त्वावरणं चापि वस्त्वस्तीति तदेक्षते ॥२०॥
मननं कार्यमस्येदमाश्वसंभावनाहरम् ॥
वशीकाराख्यवैराग्ययुक्तस्येदं सुखावहम् ॥२१॥
आत्मैव नेह नानास्ति मोहितस्य जगत्त्विदम् ॥
भाति नान्यस्य मिथ्येदं स्वप्नो निद्रागमे यथा ॥२२॥
विषयान्ध्यायतो यद्वन्मनोरथपरम्परा ॥
असत्येव सदा भाति नानाविषयगोचरा ॥२३॥
परमात्मैक एवाहं वस्तुमात्रश्चिदात्मक: ॥
मयि मिथ्याविभागोsयं दृश्यतेsनाद्यविद्यया ॥२४॥
भ्रमो मोहो महामाया प्रधानं प्रकृतिर्मन: ॥
अज्ञानं शक्तिरव्यक्तं गुणसाम्यमितीरिता ॥२५॥
सैव मिथ्यामतिर्यस्या इदं भातं चराचरम् ॥
एवं विचारश्रवणानुसारि मननं तु तत् ॥२६॥
सच्चिदानन्दलक्ष्मापि परात्मा माययाssवृत: ॥
निजं स्वरूपं विस्मृत्य ययेदं दृश्यते जगत् ॥२७॥
महांस्ततोsहमस्तस्मात्तन्मात्राणि तत: क्रमात् ॥
भूतेन्द्रियसुराणां च सर्गस्त्र्यात्माsहम: क्रमात् ॥२८॥
नह्यत्र नियमो राजन्नसत्ये मानसभ्रमे ॥
कदाचिद्युगपत्सृष्टि: क्रमसृष्टि: कदाचन ॥२९॥
देहा: सुरासुरनरतिरश्चां भौतिका इमे ॥
स्थूलै: स्थूलानि सूक्ष्मैश्च सूक्ष्माण्येवं भवोद्भव: ॥३०॥
उपक्रमोsयमाख्यात उपसंहार उच्यते ॥
भूतेषु भौतिकानीह क्रमाद्योगी विलापयेत् ॥३१॥
पृथ्वी जले जलं वह्नौ वह्निर्वायौ स खे च खम् ॥
अहमि प्राणगोदेवा मनश्चापि स्वकारणे ॥३२॥
अहंकारोsपि महति सोsव्यक्ते तच्च निष्कले ॥
स एवाहं परात्मैक: शुद्धो मुक्त उपाधित: ॥३३॥
एवं निदिध्यासनत एक: स्वात्मैव शिष्यते ॥
तस्मान्नास्त्यपरं किंचिदात्मैवायं यथा तथा ॥३४॥
राजन्मम प्रसादात्त्वं खलु धन्योsस्यसंशयम् ॥
अन्त:करणशुद्धिस्ते जाता वैराग्यमुत्तमम् ॥३५॥
मयि भक्तिर्दृढा प्रेम्णा श्रवणं चापि विस्तरात् ॥
प्रपञ्चास्थापि चित्तस्था सर्वथा विलयं गता ॥३६॥
तत्त्वमेकं परं ब्रह्म न द्वितीयं कदापि हि ॥
एवं शमादिरूपां तामारूढो भव भूमिकाम् ॥३७॥
त्वं साक्षात्कारसूपायक्रमं विध्द्यथ भूपते ॥
दत्तचित्तो भवाद्यात्र तत्त्वनिश्चयकारक ॥३८॥
सर्वसाधनसंपन्न: पुरुषो जातनिश्चय: ॥
श्रोत्रियं ब्रह्मनिष्ठं तं सद्गुरुं शरणं व्रजेत् ॥३९॥
तत्त्वमस्यादिवाक्यार्थमुपदिष्टं तु षड्विधै: ॥
लिङ्गैर्धिया समालोच्य बुध: समवधारयेत् ॥४०॥
श्रवणं त्विदमेवोक्तं तत्समासेन ते ब्रुवे ॥
यतस्त्वं शिष्यतां प्राप्तो तत्सेवाहतकिल्बिष: ॥४१॥
तत्पदेन परं ब्रह्म त्वंपदेन च पूरुषम् ॥
अनूद्यैक्यं तयोर्भूप बोध्यतेsसिपदेन सत् ॥४२॥
विरुद्धस्य त्वमर्थ्स्य तदर्थत्वं कथं भवेत् ॥
इति चेच्छृणु राजेन्द्र तयेरैक्ये निदर्शनम् ॥४३॥
देवदत्त: क्वचिद्दृष्टो युवा देशान्तरे स च ॥
पुनर्दृष्टो जरां प्राप्त: सोsयमित्यवधार्यते ॥४४॥
पूर्वदेशमवस्थां च त्यक्त्वेदं तस्य वार्धकम् ॥
देशं चापि यथैकेन पिण्डेनैक्यं प्रतीयते ॥४५॥
त्यक्त्वा द्व्यंशौ तथात्रापि वाक्य ऐक्यं हि लक्षते ॥
त्वंपदस्य च वाच्यार्थ: संसारीति सुनिश्चित: ॥४६॥
कर्ता भोक्ता सुखी दु:खी माययैव न तत्त्वत: ॥
देहेन्द्रियमन:प्राणाहंकारेभ्यो विलक्षण: ॥४७॥
वस्तुत: सच्चिदानन्दस्वरूपो गुणगोचर: ॥
एकांशस्तत्र चिद्रूपमन्य: संसारितास्य च ॥४८॥
एवं त्वमर्थं निश्चित्य तदर्थमपि निश्चिनु ॥
अतद्व्यावृत्त्या विधिना साक्षाच्च श्रुतियुक्तित: ॥४९॥
तत्पदस्य च वाच्यार्थ: सर्वज्ञ परमेश्वर: ॥
तस्यैकोंशोsपि चिद्रूपं सर्वज्ञत्वादि चापर: ॥५०॥
त्यक्त्वा विरुद्धवाच्यांशद्वयं जीवेशतोरिह ॥
लक्ष्यौ चिदंशौ निर्बाधं पदयोरुभयोरपि ॥५१॥
अविरुद्धं तयोरैक्यं लक्षणालक्षितं द्वयो: ॥
वाक्यार्थोsयं सुनिष्पन्नस्त्वं ब्रह्म परमं हि तत् ॥५२॥
तदेव त्वं परं ब्रह्म नास्ति भेद: कथंचन ॥
अखण्डैकरसत्वेन वाक्यार्थोsत्र सतां मत: ॥५३॥
विशेष्यं त्वंपदं तस्य तत्पदं च विशेषणम् ॥
निरस्यतेsस्य दु:खित्वं सुखित्वं च विधीयते ॥५४॥
वैपरीत्येन विज्ञेयं विशेष्यं तत्पदं तथा ॥
विशेषणं त्वंपदं च पारोक्ष्यस्य निरासकृत् ॥५५॥
तद्ब्रह्म परमं शुद्धं त्वमात्मैव निरामय: ॥
इत्यैक्यं भूप विज्ञेयं वेदोक्तं गुर्वनुग्रहात् ॥५६॥
स्वात्मैक्यार्थमियं प्रोक्ता सुधीभिर्भागलक्षणा ॥
त्रिकाण्डेनापि वेदेन सोsयमर्थो विनिश्चित: ॥५७॥
स्थूलधीभि: सुदुर्ज्ञेयो विज्ञेयो हि मनीषिभि: ॥
पर्यवस्यन्ति वेदाद्या अत्रैव विविधा अपि ॥५८॥
शास्त्रतत्त्वमविज्ञाय मूढा: शास्त्राणि सर्वश: ॥
ते प्रवृत्तिपराण्येव कथयन्ति कुतर्कत: ॥५९॥
उपक्रमोपसंहारावभ्यासोsपूर्वता फलम् ॥
अर्थवादोपपत्ते च लिङ्गं तात्पर्यनिर्णये ॥६०॥
प्राक् सदैवेत्युपक्रम्यैतदात्म्यमिदमेव सत् ॥
उपसंहृतमित्येकमभ्यासो नवधा परम् ॥६१॥
शाब्देनैव ह्यखण्डार्थविषयत्वं तृतीयकम् ॥
तुर्यं विदेहकैवल्यं प्रारब्धान्ते विवेकिन: ॥६२॥
षष्ठं मृदादिदृष्टान्तैर्निर्णयस्तूपपत्तिकम् ॥
सृष्टिस्थित्यन्तप्रवेशानियम: शोधनं फलम् ॥६३॥
सप्तार्थवादास्तद्रूपं पञ्चमं लिङ्गमुच्यते ॥
सर्वस्यात्मन उत्पत्तेरवस्थानाच्च तत्र हि ॥६४॥
पुनर्लयाज्जगौ वेद: कारणब्रह्ममात्रताम् ॥
सूर्यस्येव जले चात्र प्रवेशमपि चात्र तु ॥६५॥
अन्तर्यामितया भेदात्सदा नियमनं स्मृतम् ॥
तथा रोहितरूपाद्यै: पदार्थपरिशोधनम् ॥६६॥
अभेदज्ञानस्य परं स्वात्मैक्यममृतं फलम् ॥
एवं सप्तार्थवादात्मलक्षणं पञ्चमं मतम् ॥६७॥
षड्लिङ्गैरिति तात्पर्यावधृति: श्रवणं स्मृतम् ॥
आस्थायाथो योगभूमिं मननादि चरेद्बुध: ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे चतुर्थाष्टके प्रथमोsध्याय: ॥१॥
॥ इति श्रीदत्तपुराणे चतुर्थाष्टके प्रथमोsध्याय: ॥४।१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:03:05.4770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

सुनीथ VI.

RANDOM WORD

Did you know?

यज्ञोपवीत ( जानवे ) म्हणजे काय? त्याला किती दोरे असतात? त्याच्या गाठीला काय म्हणतात
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.