TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्थाष्टक - अष्टमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


कृतपित्रौर्ध्वदैहिकेन परशुरामेण ऋषये महीदानं नाम चतुर्थाष्टकेsष्टमोsध्याय:
हरि: ॐ ॥ यज्ञाय ज्ञाय ते दत्त नमस्त्वं मे सखास्यत: ॥
भूत्वाचार्य: कारयौर्ध्वदैहिकं विधिवत्तयो: ॥१॥
इत्यर्थित: स रामेण भूत्वाssचार्योsप्यकारयत् ॥
विधिनाञ्जालिदानादि पिण्डनिर्वापणादि च ॥२॥
श्रीदत्त: प्राह पितरु क्क गतौ राम वेत्सि किम् ॥
स प्राह त्वत्प्रसादात्तौ स्वर्गताविति भाति मे ॥३॥
श्रीश: प्राह मृतौ स्वर्गं गतावित्यज्ञभावना ॥
न मृतौ न गतावेतौ पश्य लीलाविहारिणौ ॥४॥
रामोsपि पितरौ दृष्ट्वा द्योतयन्तौ दिशस्त्विषा ॥
ननाम परया भक्त्या तौ ततोsदर्शनं गतौ ॥५॥
प्राहाश्लिष्य प्रभू रामं क्षत्रियाञ्जह्यधार्मिकान् ॥
मच्चिदंशयुस्त्वं तु सखे जिष्णुर्भविष्यसि ॥६॥
ततो राम: प्रणीतायां स्नात्वा संकल्प्य सायुध: ॥
त्रिसप्तवारं नि:क्षत्रां क्ष्मां कृत्वास्रसरांस्यधात् ॥७॥
पितॄन्संतर्प्य शस्त्राणि प्रक्षाल्याचार्यमत्रिजम् ॥
ऋत्विज: कश्यपमुखान्वृत्वा सोमेन सोsयजत् ॥८॥
सर्वे देवा यत्र तृप्ता विप्राश्चान्नधनांशुकै: ॥
सर्वां क्ष्मां कश्यपायादाद्विशुद्धात्मा विधानत: ॥९॥
स्वर्णवस्त्रधनै रामो दत्ताचार्यमपूजयत् ॥
तत्सर्वं ब्राह्मणेभ्योsदाद्भगवान्भक्तिभावन: ॥१०॥
प्राह रामं निवेश्याङ्के बालेदं दुष्करं कृतम् ॥
कर्मामी क्षत्रिया दुष्टा दुर्जया अपि ते हता: ॥११॥
कृतो यज्ञोsपि विधिवच्छ्रूरोsसि त्वं हरि: स्वयम् ॥
राम: प्राह न शूरोsहं प्रसादो भवतामयम् ॥१२॥
साधु साध्विति ते प्राहर्देवाश्च मुनयोsपि च ॥
रामेण सत्कृता जग्मु: स्वस्वधामाखिला मुदा ॥१३॥
सख्यं कृत्वाsवस्द्रामस्तमै तुष्टोsवदत्प्रभु: ॥
रहंस्यं त्रिपुरादेव्या: श्रवणान्मुक्तिदं क्षणात् ॥१४॥
सखा मे त्वं चिरं जीव कंचित्कालं वसात्र तु ॥
तपश्चर ततो लोकशर्मणे पश्चिमांबुधौ ॥१५॥
त्वयि तेजोsद्य यन्न्यस्तमवतारान्तरे पुन: ॥
आदास्ये त्वं ततो ब्राह्म्या लक्ष्म्या युक्तस्तपश्चर ॥१६॥
भविष्यसि महर्षिस्त्वं नूनं सावर्णिकेsन्तरे ॥
तत: प्राप्ते महाकल्पे मत्सायुज्यं गमिष्यसि ॥१७॥
एवं रामं जामदग्न्यमुक्तवान्भगवान्प्रभु: ॥
रामोsपि स्वाश्रमं गत्वा कंचित्कालमुवास ह ॥१८॥
त्रिसप्तकृत्वा येनेदं नि:क्षत्रं जगतीतलम् ॥
निहतं तीक्ष्णधारेण दृढं परशुना भृशम् ॥१९॥
ततो युगान्तरे सूर्यवंशी देवोsवतीर्य तत् ॥
आददेsत्युल्बणं तेजस्ततो रामस्तपोsतपत् ॥२०॥
हर्यंशो लीलया राम: पितृभक्तो हरे: सखा ॥
भक्तिं प्रथयितुं लोके जातोsयं द्विजरूपधृक् ॥२१॥
रेणुका सा जगन्माता साक्षादेवेश्वरी खलु ॥
स्वयं शिवोsवतीर्णोsत्र जमदग्निर्महामुनि: ॥२२॥
श्रीदत्तेनात एवेयं लोकशिक्षार्थमीश्वरी ॥
प्रार्थिता ब्रह्मणा चाsपि स्वकार्यार्थमभिष्टुता ॥२३॥
पुरा विद्यां पञ्चपर्वां ससृजे या विधिस्तया ॥
कदाचिद्देवदत्तास्ता विसस्मार श्रुती: समा: ॥२४॥
हृदि शश्वद्विचार्यापि न बुबोधात्मना स्वयम् ॥
गत्वा मातापुरं देवीमस्तौषीद्रेणुकां शुभाम् ॥२५॥
देवि त्वं वेदमाताsसि गायत्री वाड्मयीश्वरी ॥
प्रसीद विस्मृतान्वेदान्त्संप्रकाशय पूर्ववत् ॥२६॥
देव्याह गत्वा श्रीदत्तं परिपृच्छ स वक्ष्यति ॥
इत्युक्त: स प्रभुं गत्वा श्रीदेव्योक्तं न्यवेदयत् ॥२७॥
श्रीदत्त सर्वविच्छ्रेष्ट सर्वदेवनमस्कृत ॥
सर्वाधार निराधार गुणात्माsप्यसि निर्गुण: ॥२८॥
साङ्गोपनिषदान्वेदान् विस्मृतोsस्म्यद्य दैवत: ॥
बुद्धिप्रदीप तान्ब्रूहि वर्णमात्रास्वरात्मकान् ॥२९॥
श्रीदत्त: प्राह हे ब्रह्मन् विद्यया पञ्चपर्वया ॥
विमुह्य विस्मृतोsस्येतामतो वेदान्न बुध्यसे ॥३०॥
वर्णा यस्यां प्रकाश्यन्ते वर्णेष्वेकैव या स्थिता ॥
त्रिपुरा वर्णरूपा सा रेणुकैकैव नापरा ॥३१॥
सवर्णा वेदमाता सा सावित्री ब्रह्मरूपिणी ॥
एकैव चित्कला देवी जगद्धात्री न चापरा ॥३२॥
एकमात्रैकवीरेशा साष्टपर्यायवाचका ॥
ओंकारैकस्वरा ज्ञेया रेणुका ब्रह्मरुपिणी ॥३३॥
एकैवानेकरूपासावेकरीरेति गीयते ॥
मनसा स्मर तां देवीं लब्धवेदोप भविष्यसि ॥३४॥
क: प्राह साधु साधूक्तं सैव मे विस्मृता खलु ॥
प्रबुद्धोsस्म्यधुना भक्त्या संस्मरे रेणुकां शुभाम् ॥३५॥
एवं तयोर्विवदतो: प्रादुरासापि रेणुका ॥
तन्मुखादपि वेदाश्च साङ्गोपाङ्गा: सशीर्षका: ॥३६॥
परमेष्ठी ततो हृष्ट: श्रीदत्तं रेणुकां च ताम् ॥
तुष्टाव लब्धवेदोsसौ प्रसन्नमुखपङ्कज: ॥३७॥
ह्रीर्भीर्धी: श्रीस्त्वमेवैका श्रद्धा मेधा च धारणा ॥
प्रज्ञा त्वमेव छन्दांसि तवाङ्गान्येव वाङ्मयि ॥३८॥
स्वरवर्णात्मिकेsनन्ते त्वमेवौंकाररूपिणी ॥
एकवीरे प्रसीद त्वं सदा मे सन्निधा भव ॥३९॥
स्तुतैवं सा तथेत्युक्त्वा रेणुकान्तर्दधे विधि: ॥
नत्वा दत्तं तदाज्ञप्त: स्वधाम प्रययौ मुदा ॥४०॥
एवंप्रभावा सा देवी रेणवे तपस: फलम् ॥
दातुं तत्पुत्र्यभून्नाम्ना रेणुकेत्यखिलश्रुता ॥४१॥
साद्याप्यामलकीग्रामे साक्षान्मातापुरे स्थिता ॥
श्रीदत्ताश्रमसामीप्ये पवित्रे सह्यसानुनि ॥४२॥
मातृतीर्थं शुभं तत्र माता स्नाता स्वयं सती ॥
नृणां सद्गतिदं तत्तु दर्शनस्पर्शनादिना ॥४३॥
अनसूयात्रितत्पुत्रदत्तश्रीरेणुकाश्रमान् ॥
देव्यात्मकृष्णामलकीं दृष्ट्वैति न पुनर्भवम् ॥४४॥
पद्मतीर्थं सर्वतीर्थं मातृतीर्थमिति त्रिकम् ॥
पावनं सर्वलोकानां नेदृक् क्काप्याशु तारकम् ॥४५॥
कुष्ठी पुराभवत्सूर्य: स्वात्मजाकामदूषित: ॥
पद्मतीर्थस्नानमात्राच्छुद्धोsन्यार्तिहरोsभवत् ॥४६॥
दुर्गतिस्थपित्रुद्धृत्यै चान्ध्रीक: पर्यटन्महीम् ॥
मातृतीर्थस्नानमात्रान्मुक्तान्पितॄन्ददर्श ह ॥४७॥
नत्वा देवीं मातृतीर्थे पिण्डान्दास्यन्ति ये नरा: ॥
समुद्धृतास्तत्पितरोsक्षय्यतृप्तिं प्रयान्ति हि ॥४८॥
द्व्यष्टकाभ्यामिदं प्रोक्तं दत्तमाहात्म्यमुत्तमम् ॥
यशस्तत्प्रियशिष्यस्य कार्तवीर्यार्जुनस्य च ॥४९॥
मुक्तस्याप्यर्जुनस्यास्य स्मरणं सद्य एव हि ॥
ददात्यभीप्सितं देवो यथा दत्तस्त्र्यधीश्वर: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमणण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे आदितश्चतुर्थाष्टके अष्टमोsध्याय: ॥ चतुर्थाष्टक: संपूर्ण: ॥ श्रीदत्तार्पणमस्तु ॥
॥ इति श्रीदत्त० परशुरामेण ऋषये महीदानं नाम चतुर्थाष्टके अष्टमोsध्याय: ॥४।८॥
॥ इति श्रीमद्दत्तपुराणे चतुर्थाष्टक: संपूर्ण: ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:12:43.8870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

shear wave

  • कातर तरंग 
  • = tangential wave 
  • कर्तर तरंग 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.