TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्थाष्टक - चतुर्थोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अथ राज्यं शासतोsर्जुनस्यर्षिशापो नाम चतुर्थाष्टके चतुर्थोsध्याय:
हरि: ॐ ॥ ऋतस्य गोपोsद्य भवान्यदाज्ञापयति प्रभु: ॥
तन्मे मूर्ध्ना धृतमिति प्रोक्त्वा नत्वाsर्जुनो गत: ॥१॥
पुरमेत्यार्जुन: सम्राट् श्रीदत्तेन यथोदितम् ॥
चचाराव्याहतस्वैरगतिर्वायुरिवात्मवान् ॥२॥
दशयज्ञसहस्त्रै: स भूप ईजे महामति: ॥
सर्वे यज्ञा महाराजो भूरिकाञ्चनदक्षिणा: ॥३॥
सर्वे काञ्चनवेदीका वेदविन्मुनिसंवृता: ॥
सर्वैर्देवै: सुसंप्राप्तैर्विमानस्थैरलंकृता: ॥४॥
अप्सरोभिश्च गन्धर्वैर्गायद्भि: परिशोभिता: ॥
नाकाले यस्य राष्ट्रे तु मरणं कोsप्यपश्यत ॥५॥
दुर्भिक्षमीतिभीत्यादि यस्य राष्ट्रे कदापि नो ॥
यथाकालं ववर्षेन्द्र: सस्यवृद्धिं ददौ मही ॥६॥
समस्तरत्नसंपूर्णश्चक्रवर्ती बभूव स: ॥
स्वयं हि सप्तद्वीपेषु खङ्गी चक्री शरासनी ॥७॥
रथी परिभ्रमत्येव दुष्टचोरारिशासन: ॥
सर्वान्तरो यथा वायुरात्मा साक्षी स्वयोगत: ॥८॥
एवं राजा मनुष्योsपि माहिष्मत्यां वसन्नपि ॥
कर्कोटकसुतां जित्वा पुरीं तत्र न्यवेशयत् ॥९॥
कदाचित्स्त्रीसहस्राढ्यो रेवायां स महाबल: ॥
चिक्रीडे दो:सहस्रेण रेवां प्राग्गतिमानयन् ॥१०॥
तत्प्रेक्ष्य तत्पति: क्रुद्ध: सिन्धुर्वेगादधावत ॥
तमूर्मिमालिनं क्रुद्धं दृष्ट्वा राजा प्रहस्य च ॥११॥
एको भुजसहस्रेण जगाहे स महार्णवम् ॥
तस्य बाहुसहस्रेण पीडितोsभून्महोदधि: ॥१२॥
चूर्णीकृतमहावीचिर्लीनमीनमुख: स च ॥
भीतभीत: समुद्रोsपि पलायनपरोsभवत् ॥१३॥
अब्धौ संक्षोभ्यमाणे तु पातालस्था महासुरा: ॥
सर्वेsप्यहिवरा बाढमार्तिमापुर्दुरत्ययाम् ॥१४॥
एवंप्रभावो राजर्षिरेको धन्वी महीतले ॥
योगाभ्यासरतो नित्यं राज्यं चक्रे स्वधर्मवित् ॥१५॥
दुश्चरं तत्तपो दृष्ट्वा निष्प्रत्यूहांस्तथाध्वरान् ॥
स्वपदस्था अपि सुरा भयमाजग्मुरन्वहम् ॥१६॥
देवाधिकारहर्तायं भविष्यति तपोवलात् ॥
इत्याशङ्क्यामरै: सूर्य: सत्त्वहृत्यै प्रचोदित: ॥१७॥
द्विजरूपधरो भूत्वा वैश्वदेवक्षणे रवि: ॥
बुभुक्षितोsतिथि: प्राप्त आतिथेयं तमर्जुनम् ॥१८॥
अतिथि: प्राह राजेन्द्र ब्रह्मण्योsसि दयापर: ॥
तृप्तिमेकां प्रयच्छाद्य त्वत्त: कोsन्यो ममेष्टद: ॥१९॥
राजोचे केन ते तृप्तिर्वद सर्वं ददामि ते ॥
दैवतं ब्राह्मणोsस्माकं सर्वस्वं वार्पयाम्युत ॥२०॥
सूर्यस्तमाह सर्वोद्भिद्रूपभिक्षां प्रयच्छ मे ॥
तया भवेयं संतृप्तस्तृप्तिर्मे मूप नान्यथा ॥२१॥
तच्छ्रुत्वाश्चर्यतोषाभ्यां राजा प्राह प्रणम्य तम् ॥
यद्याचितं तद्ददामि को भवान्मानुषो नहि ॥२२॥
तदा सूर्य: स्वरूपेण प्रादुरास प्रणम्य तम् ॥
राजा प्राहाद्य धन्योsस्मि लब्धो यस्येदृशोsतिथि: ॥२३॥
न शक्या: स्थावरा: सर्वे तेजसा स्वबलेन च ॥
निर्दग्धुं तपतां श्रेष्ठ त्वामेव प्रणतोsस्म्यहम् ॥२४॥
एवमुक्तस्तत: सूर्य: प्राह राजन्बहुप्रद ॥
तुष्टस्तेsहं ददामीषूनक्षयान्सर्वतोमुखान् ॥२५॥
ते क्षणाज्ज्वालयिष्यन्ति मम तेज:समन्विता: ॥
संधाय ताञ्छरान्सर्वान् शोषयित्वार्पयाद्य मे ॥२६॥
शुष्कान्भस्मीकरिष्यामि तेन तृप्तिर्भवेन्मम ॥
इत्युक्त्वा स रविर्दिव्यान्बाणानस्मा उपानयत् ॥२७॥
तेन दत्ताञ्छारान्राजा संधाय बलवत्तर: ॥
स पञ्चशतचापेभ्यो मुमोचाप इवाम्बुद: ॥२८॥
पर्वतग्रामनगरघोषदुर्गवनादिजा: ॥
सुशुष्का: स्थावरा: सर्वे बभूवुर्बाणवृष्टित: ॥२९॥
तत: सूर्योsग्निरूपेण शुष्कान्सर्वानभक्षयत् ॥
तृणगुल्मलतावृक्षमुखांस्तान्स्थावरान्क्षणात् ॥३०॥
अत्रान्तरे वसिष्ठाख्यस्तपोदीप्तो महामुनि: ॥
समाधिविरमे वृक्षान्निर्दग्धान्समपश्यत ॥३१॥
क्रुद्ध: शापं ददौ तस्मा अर्जुनाय महातपा: ॥
मदाश्रमद्रुमा यस्मात्त्वया दग्धा: सुदुर्मते ॥३२॥
मत्तोsसि बलदृप्तोsसि यत: प्रतिभटो न ते ॥
मा गर्वं वह दुष्टात्मंस्तेजस्वी ब्राह्मणोत्तम: ॥३३॥
भार्गवो जामदग्न्यस्ते राम: परशुना भुजान् ॥
छित्त्वा सहस्रं द्रुक्सन्धानिव त्वां निहनिष्यति ॥३४॥
एवं स भाविना राजा ब्रह्मण्योsप्यतिथिप्रिय: ॥
दैवयोगेन संशप्त: शान्तेनापि महर्षिणा ॥३५॥
तदाप्रभृति राजासावुद्धतोsभूत्सुधीरपि ॥
बभूवुर्बहव: पुत्रास्तस्य राज्ञो महाबला: ॥३६॥
दत्तात्रेयप्रसादेन लब्धेन स्यन्दनेन स: ॥
कामगेन विमानेन चचाराखिलकोकग: ॥३७॥
ऐश्वर्यमतुलं लेभे किंकर्य: सिद्धयोsस्य हि ॥
अव्याहताज्ञ: सर्वत्र स सम्राडुग्रशासन: ॥३८॥
स्मृतिगामी स सर्वत्र कामितानेकदेहधृक् ॥
प्रत्यक्षदर्शी सर्वस्य दत्तात्रेय इवापर: ॥३९॥
दुर्वृत्तान्वारयामास नृपांश्चोराञ्जघान च ॥
ममर्द देवान्यक्षादीन्पीडयामास सर्वश: ॥४०॥
दिव्येनैव विमानेन हैहयाधिपतिर्बली ॥
क्रीडन्तमिन्द्र पौलोम्या धर्मयामास तं दिवि ॥४१॥
ततो देवा विनिर्धूता देवर्षिसहितास्तदा ॥
पीडिता: कार्तवीर्येण श्रीविष्णुं शरणं ययु: ॥४२॥
देवदेव सुरारिघ्न विष्णो सत्यपराक्रम ॥
भगवन्भूतरक्षार्थं कार्तवीर्यार्जुनं जहि ॥४३॥
स दिव्येन विमानेन त्रैलोक्ये विचरन्स्वयम् ॥
बाधते विश्वमखिलं त्वां विना कोsस्य घातक: ॥४४॥
इति संप्रार्थितो देवो देवान्दृष्ट्वार्जुनादिंतान् ॥
प्राहावतीर्य तं हन्मि इन्द्रमुखा: सुरा: ।
विष्णुं नत्वा स्वस्वधाम प्रापुश्चिन्ताविवर्जिता: ॥४६॥
भगवानपि सर्वज्ञ: स्वभक्तं वीक्ष्य तादृशम् ॥
अर्जुनं मुनिना शप्त समुद्धर्तुं मनो दधौ ॥४७॥
वधोsस्य कल्पित: पूर्वं मया ख्यात्याधिकान्नरात् ॥
अतोsहं द्विजरूपेण हन्मि भक्तमपि स्वयम् ॥४८॥
योगाभ्यासेन तपसा मुक्तोsयं मदनुग्रहात् ॥
नूनं विदेहकैवल्यं भक्तारब्धं नयाम्यहम् ॥४९॥
इति निश्चित्य भगवान्स्वांशेन त्रिजगत्पति: ॥
अवातरद्विप्ररूपी दयालुर्भक्तभावन: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यामुपासनाकाण्डे चतुर्थाष्टके चतुर्थोsध्याय: ॥४॥
॥ इति श्रीदत्त० राज्यं शासतोsर्जुनस्यर्षिशापो नाम चतुर्थो० चतुर्थो० ॥४।४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:08:03.7730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Steerman

  • सुकाणुवालाकर्णधार 
RANDOM WORD

Did you know?

अंत्येष्टी संस्कारात और्द्ध्वदेहिक विधि काय असतो ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site