TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्थाष्टक - द्वितीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


अथाष्टाङ्गयोगयोग्याचारयोगचर्या नाम चतुर्थाष्टके द्वितीयोsध्याय:
हरि: ॐ मही महेश योगस्य मयास्थेया कथं वद ॥
इति पृष्टोर्जुनेनाह साङ्गं योगं त्र्यधीश्वर: ॥१॥
अष्टाङ्गो योग इत्येके षडङ्ग इति चापरे ॥
विसंवादो नोभयत्र श्रृणु तत्त्वं ब्रवीमि ते ॥२॥
अष्टाङ्गयोगो यमाद्यै: षडङ्गस्त्वावसनादिभि: ॥
यमानां नियमानां च स्वभावेन विधानत: ॥३॥
आसनादि: षडङ्गोsत: सप्ताङ्गं केचनाब्रुवन् ॥
सप्ताङ्गानि समाधिस्तु फलमेवेति तन्मतम् ॥४॥
समाधिं द्विविधं मत्वा सविकल्पाविकल्पकम् ॥
अङ्गेष्वेकं समादाय द्वितीयं फलमुच्यते ॥५॥
सप्ताङ्गत्वेपि चाष्टाङ्गयोगमित्यूचिरे परे ॥
शब्दातोsत्रैव भेदोsस्ति नान्यथेति विनिर्णय: ॥६॥
यमान्दशादौ संपाद्य नियमांश्च महाव्रत: ॥
सुखाल्लब्ध्वासनस्थैर्यं प्राणायामं ततोsभ्यसेत् ॥७॥
समे सुखेsजने देशे नि:शब्दे निरुपद्रवे ॥
सुखासने समासीनश्चैलाजिनकुशोत्तरे ॥८॥
सर्वचिन्तां परित्यज्य धृतिमास्थाय सात्त्विकीम् ॥
तत्राभ्यासं प्रकुर्वीत यमवानात्मशुद्धये ॥९॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: ॥
इतस्तातो नैव पश्येत्पश्येद्भ्रूमध्यमेकधी: ॥१०॥
पूरकुम्भकरेचात्मप्राणायामाख्याकर्मणि ॥
दृढाभ्यास: प्रकर्तव्यो जिते प्राणे जितं मन: ॥११॥
वृषावतिबलौ मत्तौ सयुगं संप्रधावत: ॥
भवेतां स्ववशे पाशे शृङ्गासक्ते यथैकत: ॥१२॥
तथैवेमौ मन:प्राणौ योगाभ्यासेन संयतौ ॥
जितेsनयोरेकतरे तौ द्वावपि जितौ खलु ॥१३॥
अत्र सत्कर्मभि: केचिच्छुद्धचित्ता महाश्रिय: ॥
स्थिरचित्ता मदर्चायां वशप्राणा भवन्ति ते ॥१४॥
अङानि धारणादीनि तेsभ्यसन्ति महाव्रता: ॥
अन्येsसुयामत: प्राणमनोजयमभीप्सव: ॥१५॥
प्राणस्पन्दनिरोधो हि प्राणायाम इतीर्यते ॥
इडया प्राणमापूर्यं कुम्भयित्वा पुनर्बहि: ॥१६॥
क्षिपेत्पिङ्गलया धीमान्पुन: पूर्ववदाचरेत् ॥
विपरीतेन वा युञ्ज्याद्बहिर्वा कुम्भयेत्तथा ॥१७॥
पूरो द्वादशमात्राभिर्द्विगुणाभिश्च रेचक: ॥
कुम्भश्चतुर्गुणाभिश्च विधेयो बन्धपूर्वक: ॥१८॥
यथा यथा प्राणजयो मात्रावृद्धिस्तथा तथा ॥
पिण्डशुद्धिस्तया ज्ञेया वातपित्तकफान्तका ॥१९॥
नाडीद्वाराणि सर्वाणि निर्मलानि भवन्त्यत: ॥
नीरोगो जायते योगी क्रमाभ्यासेन यत्नत: ॥२०॥
निर्बीजश्च सबीजश्च प्राणायामो द्विधा मत: ॥
निर्बीज: केवलो रोध: सबीजो जपपुक् शुभ: ॥२१॥
लीन: स पञ्चविपलद्विपलं ब्रह्मरन्ध्रग: ॥
प्राण: सुषुम्णया प्रोक्त: प्राणायाम: स उत्तम: ॥२२॥
इन्द्रियाणि जिते प्राणे विषयेभ्य: प्रयत्नत: ॥
मनसोपाहरेद्धीर: प्रत्याहार: स उच्यते ॥२३॥
यथा संहरतेsङ्गानि सुखात्कूर्मस्तथाप्ययम् ॥
अर्थेभ्य: समनस्का गा: प्रत्याहारस्तदोत्तम: ॥२४॥
कार्याsथ धार्णा साsपि द्विविधा परिकीर्तिता ॥
सगुणाsगुणभेदेन मनस: स्थिरताssत्मनि ॥२५॥
ततो ध्यानं त्विदं कार्यं विक्षिप्तं मन आत्मनि ॥
अभ्यासेन स्थिरीकुर्यात्पुन: पुनरखेदत: ॥२६॥
ध्यानं प्राग्धारणा पश्चात्केsपीच्छन्ति न तद्वरम् ॥
ध्यानं ह्युपसमाधीति समाधिर्ध्यानविस्मृति: ॥२७॥
द्वादशद्वादशगुणा वृद्धि: प्राणलयस्य या ॥
प्राणायामादि चत्वारि योगाङ्गानीति केचन ॥२८॥
एवं द्विषड्दिनै: साध्य: समाधिर्द्विविध: स च ॥
सविकल्पो निर्विकल्पो धर्ममेघ: स दैवहा ॥२९॥
प्राणायामादिभिश्चित्ते सुस्थिरे मननक्षमे ॥
योगी विश्रुतवाक्यार्थमननं श्रद्धया चरेत् ॥३०॥
परात्मचिन्तनं वेदाविरुद्धाभिश्च युक्तिभि: ॥
अखण्डया मनोवृत्त्या मननं तत्प्रचक्षते ॥३१॥
समाधि: सविकल्पो यस्तन्निदिध्यासनं विदु: ॥
वि९जातीयप्रत्ययस्य निरासेनैव सर्वथा ॥३२॥
सजातीयप्रत्ययस्य प्रवाहीकरणं तु यत् ॥
अखण्डतैलधारावत्तन्निदिध्यासनं स्मृतम् ॥३३॥
तल्लक्ष्मेदं महाबाहो दुर्लभं यत्कुयोगिनाम् ॥
तत्त्वमस्यादिवाक्यार्थो विनिर्णीतो यथा पुरा ॥३४॥
षड्लिङ्गै: श्रुतिनिर्णीतैर्य: सम्यगवधारित: ॥
सुलक्षितो लक्षणया धारणाभिश्च चिन्तित: ॥३५॥
युक्तिभिर्मननाख्येन ध्यानेन स्ववशीकृत: ॥
योगिनां सोsवतिष्ठेत हृदि रूढतमो यदा ॥३६॥
सोsहमात्मा परं ब्रह्म ब्रह्मैवाहं परात्परम् ॥
नित्यं ज्ञानमनन्तं यच्छुद्धं बुद्धमनामयम् ॥३७॥
आनन्दमद्वयं पूर्णं मनोवाचामगोचरम् ॥
इत्यखण्डार्थधीवृत्तिर्दृढा तन्मननं परम् ॥३८॥
यदा विस्मृत्य तद्धयानं ध्येयाकारं मनो भवेत् ॥
निवातदीपवत्स्वस्थं समाधि: सोsभिधीयते ॥३९॥
व्यापकं तत्र चैतन्यं तिष्ठत्येव स्वयंप्रभुम् ॥
तदा योगी न वेदेदं बाह्यमाभ्यन्तरं क्वचित् ॥४०॥
सूर्यकान्तस्य योगेन तूलोsर्कप्रतिबिम्बित: ॥
अग्निरेव भवेत्तद्वज्ज्ञेयमत्रापि नान्यथा ॥४१॥
ब्रह्माकारा मनोवृत्ति: केवलं ब्रह्म निष्कलम् ॥
विषयीकृत्य हरति केवलं तद्गतं तम: ॥४२॥
नष्टे सकार्ये तमसि प्रपञ्चो नैव तिष्ठते ॥
एक एवाद्वितीयोsत्र तदा स्वात्मावशिष्यते ॥४३॥
या वृत्ति: सैव विज्ञानं कार्यं कृत्वा तत; स्वयम् ॥
स्वरूपे लीयते स्वच्छे जले कतकरेणुवत् ॥४४॥
घटे भिन्ने घटाकाशो महाकाशो यथा तथा ॥
चिद्बिम्बं तु चिदेव स्यादुपाधौ विलयं गते ॥४५॥
स्वप्रकाशं परं ब्रह्म कथं हृत्तत्प्रकाशयेत् ॥
अत: स्वच्छादर्शगतस्वमुखालोकनोपमम् ॥४६॥
स्वच्छधीवृत्तिफलितस्वात्मनोsपि निरीक्षणम् ॥
स्वस्यैव नैव मनसो दृश्यस्याचेतनस्य च ॥४७॥
अज्ञातस्यैव विषये मनोवृत्ते: प्रयोजनम् ॥
द्रष्टव्यं मनसेत्याह सार्थकं तच्छ्रुति: स्वयम् ॥४८॥
मनो न मनुते ब्रह्म वागप्यत्र प्रशाम्यति ॥
स्वयंप्रभं परं ज्योतिर्नित्यं वाड्मनस: परम् ॥४९॥
फलव्याप्यत्वमेवात्र शास्त्रेणास्य निरस्यते ॥
ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्यत्वमुच्यते ॥५०॥
यावदेवं भवेत्सिद्धं तावद्वृत्तिर्न शाम्यति ॥
ज्ञातृज्ञेयविभागोsयं भाति वृत्तौ स्वभावत: ॥५१॥
सविकल्पोsयमेव स्यात्समाधिर्भूपसत्तम् ॥
वृत्तेर्लयो निर्विकल्प: समाधि: परमो मत: ॥५२॥
अविभागं परं ब्रह्म यतस्तत्रानुभूयते ॥
इमामेव परां भूमिमारूढो न पुनश्चयवेत् ॥५३॥
यदि विघ्ना भवन्त्यत्र युञ्जतो योगिनो मन: ॥
तत्रोपायस्त्वयं कार्य: सावधानेन योगिना ॥५४॥
सिद्धयोsत्र भवन्त्यष्टावणिमप्रमुखा नृप ॥
तदासक्तौ प्रणश्येत योग: संसरते स च ॥५५॥
सर्वं तन्नश्वरं विद्वान्न प्रसज्येत कर्हिचित् ॥
लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुन: ॥५६॥
सकषायं सुधीर्जह्यात्समप्राप्तं न चालयेत् ॥
नास्वादयेद्रसं तत्र निस:ङ्ग: प्रज्ञया भवेत् ॥५७॥
निवातदीपवच्चित्तो ब्रह्मात्मा शून्यवृत्तिक: ॥
कृतकृत्य: क्षीणकर्मा भिन्नहृद्ग्रन्थिसंशय: ॥५८॥
प्रारब्धभोक्तात्मारामो जीवन्मुक्तो भवेदियम् ॥
योगभूर्महती रूढ एतां मुग्धादिवच्चरेत् ॥५९॥
मुग्धोsन्धो बधिरोsजिह्वो योगी पङ्गुर्नपुंसक: ॥
स्वात्मदृक् परमानन्दो भवेत्स्वैरगति: सदा ॥६०॥
अर्थानामपि सांनिध्ये समर्थोsविकलेन्द्रिय: ॥
सुप्तवद्वर्तते नित्यं स योगी मुग्ध ईरित: ॥६१॥
तिष्ठतो व्रजतो वास्य योगिनो दृङ् न दूरगा ॥
युगमात्रां भुवं त्यक्त्वा योगिराट् सोsन्ध उच्यते ॥६२॥
शोकावहं मनोहारि हितं वाप्यहितं वच: ॥
न संश्रृणोति श्रुत्वापि स योगी बधिर: स्मृत: ॥६३॥
इदमिष्टमिदं नेति योsश्नन्नापि न सज्जते ॥
सत्यं हितं मितं ब्रूते योगी सोsजिह्व उच्यते ॥६४॥
भिक्षार्थं यस्य गमनं विष्णूत्रोत्सृतयेपि च ॥
योजनान्न परं याति स योगी पङ्गुरुच्यते ॥६५॥
सद्योजातां कुमारीं यो दृष्ट्वा षोडशवार्षिकीम् ॥
वृद्धामपि समां पश्यन्निर्विकार: स षण्ढक: ॥६६॥
योगचर्यामिमां प्राप्य श्रित उत्तमभूमिकाम् ॥
जीवन्मुक्तो भुक्तदैवो विदेहां मुक्तिमश्नुते ॥६७॥
योगादेशमिमं राजन्नाविनीताय बोधय ॥
श्रद्दधानाय शिष्याय शंस शुद्धहृदेsर्जुन ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे चतुर्थाष्टके द्वितीयोsध्याय: ॥२॥
॥ इति श्रीदत्त० अष्टाङ्गयोगयोग्याचारयोगचर्या नाम चतुर्था० द्वितीयो० ॥४।२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:04:29.5730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stacking fault energy

  • राशीकरण दोष ऊर्जा 
RANDOM WORD

Did you know?

श्रीयंत्रातील चक्र आणि त्रिकोण कशाचे प्रतिक आहेत?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.