TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चतुर्थाष्टक - षष्ठोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


बलाद्धोमधेनहर्तुरर्जुनस्य परशुरामेण वधो नाम चतुर्थाष्टके षष्ठोsध्याय:
हरि: ॐ ॥ पिबत: प्रत्यहं सोमं राज्ञो धर्मात्मनोsस्य च ॥
ब्रह्मण्यसापि धीर्भ्रष्टा मुनिशापेन दैवत: ॥१॥
विहितार्थोsपि राजासौ ब्रह्मण्योsपि सुनीतीमान् ॥
वशीकृतो भाविनायमपराधं व्यधादृषे: ॥२॥
ब्रह्मादयोsपि सर्वज्ञा भाविनैव वशीकृता: ॥
अवश्यंभाविताप्येषा स्वयमीशेन निर्मिता ॥३॥
कुमारशापदग्धास्ते पेतुर्भुव्यजपार्षदा: ॥
चन्द्रेन्द्रभृगुदक्षाद्या भाविनैवेह वञ्चिता: ॥४॥
नारदाद्या अपि विधिं नातिक्रामन्ति तद्वशा: ॥
का कथा तु मनुष्याणां बलीयान्विधिरेष हि ॥५॥
बलिष्ठेsस्मिन्नपि कुतो हानिस्तत्त्वविद: सत: ॥
शारीरं केवलं कर्म कुर्वन्नान्पोति किल्बिषम् ॥६॥
यदा सिद्धोsभवद्योगी सोsर्जुन: प्राह तं गुरुम् ॥
नेदं त्वां रोचते मृत्युर्न मे रोगान्न हीनत: ॥
भूयाद्भवादृशादेव राज्ञेत्थं याचितं तदा ॥८॥
श्रीश: स्वांशेन तत्सिध्द्या अवतीर्य द्विजन्मना ॥
जन्घे ख्यात्याधिको रामो भार्गवोsपि स्वसेवकम् ॥९॥
दोष: क ईश्वरस्यात्र कल्प्यतेsत्र जगद्भ्रम: ॥
ईश: सर्गस्थितिलयान्करोतीति भ्रमो ह्यसन् ॥१०॥
ईश: कर्तास्य सर्वस्य हर्ता भर्ता जनार्दन: ॥
बालवत्क्रीडति सदा तेन बन्ध: कुतो विभो: ॥११॥
उत्पन्नस्यापि सर्वस्य ध्रुवो नाशोsध्रुवत्वत: ॥
किं विनष्टं हि भक्तस्य देहे नष्टे चिदात्मन: ॥१२॥
ज्ञस्यापि यावदारब्धं चेष्टा भवति तेन किम् ॥
हीयते तस्य स ज्ञानकाल एव स्थितिं गत: ॥१३॥
कर्मणैवेश्वरोsप्यत्र चेष्टते न स्वभावत: ॥
न तेन बाध्यते तस्मान्नात्र दोषो द्वयोरपि ॥१४॥
एकदा रथमारुह्य सम्राड् राजा स पर्यटन् ॥
क्रीडित्वा सुचिरं हर्षाच्चतुरङ्गबलान्वित: ॥१५॥
मार्गे निवृत्त: सोsद्राक्षीज्जमदग्न्याश्रमं शुभम् ॥
द्वित्रैर्मित्रैर्युतो राजा पादचारी तमाविशत् ॥१६॥
दृष्ट्वाssश्रमे मूर्तिमन्तं शिवयेव शिवं नृप: ॥
जमदग्निं तपोदीप्तं साध्व्या रेणुकयान्वितम् ॥१७॥
तं नमस्कृत्य भक्त्यैव मूर्ध्नि बद्धाञ्जलिर्नृप: ॥
स्तुत्वा स्तोत्रैश्च विविधैर्नत्वापि च पुन: पुन: ॥१८॥
तदाज्ञया तत्पुरतो विनयावनतो नृप: ॥
उपविश्याथ पप्रच्छ कुशलं सोsपि तं तथा ॥१९॥
राजाssह राष्ट्रकोशादौ धर्मे सर्वत्र चाप्यहो ॥
भवत्प्रसादास्त्वस्त्यस्ति धन्यो वो दर्शनादहम् ॥२०॥
इत्युक्त: स ऋषि: स्नेहादातिथ्येन निमन्त्र्य तम् ॥
ससैन्यं तर्पयामास स्वन्नैर्धेनुप्रसादत: ॥२१॥
दृष्ट्वा तद्वैभवं राजा भाविनाssकृष्टचेतन: ॥
ऋषिं पप्रच्छ चैश्वर्यं कुत ईदृक् तव प्रभो ॥२२॥
स प्राह कामधुगियं सदा मे सर्वकामदा ॥
राजाssह दीयतांमे सा निष्क्रयं ते ददाम्यहम् ॥२३॥
बहुमूल्यं धनं रत्नं भूमिं गाश्चाप्यनेकधा ॥
गृहाणेति प्रार्थितोsपि स धेनुं न ददौ मुनि: ॥२४॥
मुनि: शान्तिपरोsयं मे किं करिष्यत्यतो बलात् ॥
नयामीति विचिन्त्याशु हठात्तां धेनुमाददे ॥२५॥
रत्नं धनं बहुविधं दत्तमप्यात्मवान्मुनि: ॥
न स्वीचकार भूयोsपि धीमाञ्छान्तिपरोsभवत् ॥२६॥
ततोsनयत्स्वनगरं तां धेनुं सोsर्जुनो मुदा ॥
अत्रान्तरे वनाद्राम आययौ ससमित्कुश: ॥२७॥
सोदरै: कथितं श्रुत्वा धेन्वाकर्षणमप्रियम् ॥
भृशं चुकोप भूपाय वृद्धमन्युर्महाबल: ॥२८॥
पितरं प्राह मद्वीर्यं मश्य लोकान्दिधक्षत: ॥
राजा चोरोsयमुन्मत्तो ब्रह्मद्वेषी सुगर्वित: ॥२९॥
सबलं तं निहन्म्यद्य शास्तास्म्युत्पथगामिनाम् ॥
तदर्थमवतीर्णोsहं नैव जानाति मां खल: ॥३०॥
इत्युक्त्वा क्षत्रमुच्छेत्तुं रामो रक्तान्तलोचन: ॥
प्रविशन्तं पुरं भूपं निर्धार्याह गभीरवाक् ॥३१॥
रे चोर चोर दुष्टाद्य क्क यास्यसि मदग्रत: ॥
धेनुं क्क नेष्यसि क्षेत्रे किमु क्षत्राधमोचितम् ॥३२॥
इत्युक्त: स सुधी रामं ज्ञात्वा विष्णुं नृपोsर्जुन: ॥
क्षात्रधर्मेण तुष्ट्वामुं प्रयास्ये तत्पदं परम् ॥३३॥
इति कृत्वा मतिं भूपो युद्धाय प्रैरयद्भटान् ॥
स्वशक्त्या तेsपि युयुधू रामेण परमात्मना ॥३४॥
युध्यमानान्महावीर्यान्क्रुद्धो राम: प्रतापवान् ॥
क्षणाज्जघान नि:शेषं नैशं ध्वान्तमिवारुण: ॥३५॥
देवा दैत्या अपि न मे संमुखे स्थातुमीश्वरा: ॥
नाद्यापि कोsपि शक्तो मां जेतुं मर्त्यस्य का कथा ॥३६॥
तथाप्यद्य द्विजो जेतुं समर्थो मामयं नहि ॥
द्विजोsवतीर्णो विष्णुर्वा इति योत्स्ये द्विजन्मना ॥३७॥
इति निश्चित्य सहसा योद्भुमभ्याययौ नृप: ॥
युयुधे विविधास्त्रै: स श्रीदत्तं संस्मरन्हृदि ॥३८॥
जगर्ज सिंहनादेन ववर्ष शरपञ्जरान् ॥
आच्छादयामास रामं महीध्रमिव तोयद: ॥३९॥
स सहस्रकरो दीप्तो दुर्धर्षस्तेजसार्जुन: ॥
रेजे रथीव मार्तण्डो दुर्निरीक्ष्य: प्रतापवान् ॥४०॥
तुतोष रामस्तद्धस्तलाघवं वीक्ष्य हर्षित: ॥
वातोsभ्राणीव तद्बाणान्निरस्य च धनूंषि च ॥४१॥
छित्त्वेक्षूनिव तत्तेज: शमयित्वा परश्वधी ॥
विरथीकृत्य तद्बाहूंश्चिच्छेद द्रोरिवाङ्कुरान् ॥४२॥
दत्तात्रेयप्रसादेन निर्गतैरपरै: पुन: ॥
बाहुभिर्युयुधे वीरो महाबलपराक्रम: ॥४३॥
पुनश्चिच्छेद रामोsपि पुनस्ते निर्ययु: करा: ॥
आग्नेयास्त्रेण रामोsथ शोषयामास निर्गमम् ॥४४॥
तदा सस्मार हृदये राजा तत्त्वं गुरूदितम् ॥
अन्तर्बहिर्व्यवह्रुतीर्विस्मृतत्यैकाग्र्यमास्थित: ॥४५॥
न छिन्द्यमानमप्येतद्ब्रह्मभूतोsर्जुन: शिर: ॥
परश्वधाच्छिन्नशीर्षं पपात भुवि तद्वपु: ॥४६॥
विमानस्था: सुरा: सर्वे संग्रामं प्रेक्ष्य दारुणम् ॥
अतर्क्यं तत्प्रयाणं च पुष्पाणि ववृषुर्मुदा ॥४७॥
जीवन्नेव स मुक्तोsपि कैवल्यं परमं ययौ ॥
योगीश्वरप्रसादेन नित्यमुक्तोsर्जुन: स च ॥४८॥
स्वस्वहेतौ लयं जग्मु: सर्वास्तस्य कला: स्वयम् ॥
श्रीदत्तेनैकतां प्राप राजा युक्त: समाधिना ॥४९॥
धेनुमादाय रामोपि तातमेत्य न्यवेदेयत् ॥
पित्रादिष्टोsकरोद्रामो राड्वात्थाघनिष्कृतिम् ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसहस्र्यां संहितायां वासुदेव्यां उपासनाकाण्डे चतुर्थाष्टके षष्ठोsध्याय: ॥६॥
॥ इति श्रीदत्त० अर्जुनस्य परशुरामेण वधो नाम चतुर्थाष्टके षष्ठोsध्याय: ॥४।६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-05-07T08:10:24.4530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

नंदिपेण

  • n. ब्रह्माजी के द्वारा स्कंद को दिये चार पार्षदोंण में से एक । शेष तीन पार्षदों के नामः 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.