TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उड्डामरेश्वरतन्त्र - नवमः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


नवमः पटलः
अथान्यत्सम्प्रवक्ष्यामि औषधं परमदुर्लभं ।
आस्फोटी नाम विख्याता नागदमनीति विश्रुता ॥
अस्या विधानं वक्ष्यामि दुर्लभं त्रिदिवौकसां ।
विषाः सर्वे विनश्यन्ति लेपनाद्भक्षणात्क्षणात् ॥
पत्त्रहस्ते तां प्रलिप्य सर्पो ध्रियते धृतमात्रे सर्पो न नश्यति नैव क्षतानि प्रलिप्य नागपूजितमन्त्रेण सर्पो विनश्यति ।
नागदमनीमूलं खननान्नाडीललाटलेपनान्नाशयति समन्ततः आमवातं पित्तवातं श्लेष्मवातं एते वाता विनश्यन्ति भक्षणान्नात्र संशयः ।
अथ कथयाम्योषधीकरणे करणकारणानि ।
पुत्रमय वशीकरणकारकपुत्रपुत्रं कंसं कातरापि वशं परं महिलाजनस्यैकश अप्यस्य दीयते सा पतिं परित्यज्य पश्यतां लोकानां नग्ना भूत्वा भ्रमति ।
अथ कथयामि तान्त्रिकविधिं ।
ताम्रवेदीपरोर इति लोकैरुच्यते शनिवारे तां अभिमन्त्र्य दिगम्बरो मुक्तकेशो भूत्वानुदिते भानौ ग्रहणं कुर्यात् ।
पिष्ट्वा सम्यक्प्रकारेण स्त्रीपञ्चमलेन च कामातुरेण कृत्वा ताम्बूलेन सह भगिनीकृत्वा दीयते सा वश्या भवति नान्यथा ।
मातापि पुत्रं परित्यज्य तत्परा भूत्वा पृष्ठतो नग्ना भवति यत्र कुत्रापि तथा तं अनुयाति न संशयः ।
काकजङ्घेति विख्याता महौषधिर्ग्रामे सर्वत्र तिष्ठति शनिवारे संध्यासमये तस्या अभिमन्त्रणं कुर्यात्तदन्तरं ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ पुष्यर्क्षे हस्तर्क्षे वा योगे खदिरकीलकेन तां समूलां उत्पाटयेत् ।
पुनस्तां सप्तम्यां अष्टम्यां नवम्यां वा एतासु तिथिषु पुनर्वसुपुष्यहस्तर्क्षयुक्तासु स्वपञ्चमलेन सह पिष्ट्वा स्ववीर्यं स्वरक्तं अपि तस्मिन्दत्त्वा यस्यै वनितायै दीयते सा स्त्री वश्या भवति सत्यं एव मन्त्रेणानेन मन्त्रयेत् ।
उओं नमो भगवति त्रिपुरे त्रैलोक्यमोहिनि ऐं द्रां श्रीं क्लीं स्ॐ अमुकनाम्नीं शीघ्रं मे वशं आनय स्वाहा ।
इति मन्त्रः ।
अथ गुञ्जाकल्पो लिख्यते श्वेतगुञ्जां शनिवारे संध्यासमयेऽभिमन्त्रितां कृत्वा ततो ब्राह्मे मुहूर्ते उत्थायानुदिते भानौ खदिरकीलकेन दिगम्बरो भूत्वा समूलां उत्पाटयेत् ।
पुष्यर्क्षे हस्तर्क्षे वा स्त्रीपुष्पेण सह गोरोचनकश्मीरकुङ्कुमश्वेतचन्दनरक्तचन्दनकस्तूरीकर्पूरहस्तिमदेन सहाभिमन्त्र्य तिलकं कुर्यात्तदा स्त्री कामबाणविमोहिता विह्वला भवति ।
मन्त्रेणानेन मन्त्रयेतुओं ऐं ह्रीं श्रीं क्लीं हूं फट्स्वाहा ।
इति कामबाणतिलकं ।
अथान्यतन्त्रोक्तं वशीकरणादिकं लिख्यते सारं उद्धृत्य संक्षेपाद्वशीकरणमोहने ।
कामिनां प्रीतिजनकं किंचित्तदपि गद्यते ॥
तत्रादौ तिलकविधिः ।
लज्जां मधूकं कव्यं च नलिनीमूलं एव च ।
एतान्पिष्ट्वा स्ववीर्येण यः कुर्यात्तिलकं पुमान् ॥
तत्क्षणादेव नयति वश्यतां भुवनत्रयं ।
वात्स्यायनेन मुनिना प्रोक्तं योगं अनुत्तमं ॥
सिताष्टमूलमञ्जिष्ठा वचा मुस्ता सकुष्ठका ।
स्त्रीयोनिशोणिते चैतदेकीकृत्य ललाटके ॥
शुभं तिलकं आधत्ते यः स लोकत्रयं क्रमात् ।
कृतज्ञः स्ववशं कुर्यान्मोदते च चिरं भुवि ॥
तगरं पिप्पलीमूलं मेषशृङ्गी कणा जटा ।
एतत्समं स्वपञ्चाङ्गमले नीत्वैकतां सुधीः ॥
मधुना तिलकं कुर्याद्यः क्षोणीसुतवासरे ।
जगत्सर्वं वशीकुर्यात्स पुमान्नात्र संशयः ॥
गोरोचनं च संभाव्य स्वपुंसो रुधिरेण या ।
कुर्यात्सा तिलकं भाले पतिं च मोहयेद्भृशं ॥
अथाञ्जनविधिः ।
महाष्टमीदिने यस्तु श्मशाने नरमस्तके ।
पातितं कज्जलं विश्वं मोहयेन्नयनाञ्जनात् ॥
रोचनां केसरं कन्यां शिलां चेति विशोधयन् ।
याजयेद्दृष्टिपथगं सर्वं एव विमोहयेत् ॥
तालीशकुष्ठनागरैः कृत्वा क्षोणीशवर्तिकां ।
सिद्धार्थतैले निःक्षिप्य कज्जलं नरमस्तके ॥
पातयेदञ्जनं तस्य सर्वदा भुवनत्रये ।
दृष्टिगोचरं आयातः सर्वो भवति दासवत् ॥
शिलाकिञ्जल्कफलिनी रोचनानां तथाञ्जनं ।
पुष्यर्क्षयोगे विहितं दम्पत्योर्मोहनं परं ॥
इति अथ चूर्णविधिः ।
काकजङ्घा शिला पक्षौ भ्रामरौ कृष्णं उत्पलं ।
तगरजं चैषां चूर्णं क्षिप्तं विमोहने ॥
वातपैत्तिकदलं पुंसो मलं मालासवस्य च ।
पक्षावलेरिदं चूर्णं क्षिप्तं शिरसि मोहनं ॥
अथ भक्षणविधिः ।
अन्त्रादि सर्वं निष्कास्य खञ्जरीटोदरं कुलैः ।
पूरयित्वा स्ववीर्येण सारमेयगले क्षिपेत् ॥
मुद्रां कृत्वा तदेकान्ते सप्ताहं धारयेत्सुधीः ।
पश्चान्निष्कास्य संशोध्य वटीं कुर्याद्विशोषयेत् ॥
सा भक्षणविधानेन दीपमाला परस्परं ।
दम्पत्योः प्रीतिजननी कीर्तिता नियमोत्तमा ॥
अन्यत्सुमतं ।
अथान्यत्सम्प्रवक्ष्यामि तिलकं सर्वकामिकं ।
गोरोचनं वंशलोचनं मत्स्यपित्तं कश्मीरकुङ्कुमकेसरस्वयम्भूकुसुमस्ववीर्यश्रीखण्डरक्तचन्दनकस्तूरीकर्पूरकाकजङ्घामूलानि समभागानि कृत्वा कूपतडागनदीजलेन मर्दयित्वा कुमारिकापार्श्वकां गुटिकां कृत्वा छायां गुटिकां कारयेत् ।
तया ललाटे तिलकं कृत्वा यां यां स्त्रियं पश्यति सा सा वश्या भवति ।
द्र्ॐ वां धां क्ष्ॐ अं कं छः इत्यनेन मन्त्रेण महिषास्थिमयं कीलकं एकोनविंशत्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना कूपतटे निखनेत्स महिषेण वध्यते ।
उओं च्छः च्छः íं अमुकं हुं ईं च्छः च्छः उओं इति ।
अनेन मन्त्रेण मयूरास्थिमयं कीलकं त्र्यङ्गुलं सहस्रेणाभिमन्त्रितं यस्य नाम्ना चतुष्पथे निखनेत्स तत्र भ्रमति ।
तत्रानेनावतिष्ठति पर्यटति क्षणमात्रेण उत्तोलनेन शान्तिर्भवति ।
उओं श्रीं श्रीं व्रां व्रीं ईं ईं च्छः च्छः स्वाहा ।
अनेन मन्त्रेण मेषास्थिमयं कीलकं द्वादशाङ्गुलं सहस्रेणाभिमन्त्रितं कृत्वा यस्य गृहे निखनेत्सर्वसिद्धिरसिद्धा तस्य भवति ।
द्रीं बन्धूकपुष्पसंकाशं ध्यातव्यं मन्त्रदीपके ।
कुम्भकेन वरारोहे शृणु वक्ष्यामि षड्गुणं ॥
ध्यात्वा तु मासं एकं तु महास्त्रीं आनयेद्ध्रुवं ।
मासेनैकेन मनुना आनयेन्नागकन्यकां ॥
देवकन्यां त्रिभिर्मासैः सायाह्ने नान्यथा भवेत् ।
उओं हं हः इति ।
अनेनैव तु मन्त्रेण ध्यातव्याः क्रोधयाजकाः ॥
याज्यस्य रुद्रसंकाशं रुद्रहस्तं सुरासुरैः ।
मासेन मानुषं लोकं नागलोकं द्विमासतः ॥
त्रिभिर्मासैस्तु देवेशि स्वर्गलोकं न संशयः ।
षण्मासाभ्यासयोगेन त्रैलोक्यं निश्चलं कुरु ॥
उओं रक्तहटा रक्तगटा मुकुटधारिणी एधति स्वाहा ।
मन्त्रराज उल्टा वेधा ।
उओं ह्रीं श्रीं ध्रीं विकृतानना बाह्ये फट्स्वाहा ।
मन्त्रं इमं यन्त्रे लिखित्वा यस्य ईक्षितं दीयते स ऐकाहिकद्व्याहिकत्र्याहिकविषमज्वरेण गृह्यते तत्क्षणादेव नश्यति नात्र संशयः ।
उओं बन्धुन क्षयं द्रीं द्रीं अमुकस्यात्मानं नित्यज्वरेण पत्त्रीबन्धनमात्रस्य स्फुर स्वाहा ।
इति नित्यज्वरशोधनपत्त्रिका ।
उओं क्षः स्वाहा ।
अनेन मन्त्रेण मन्त्रितं जलं भृशं कृत्वा ज्वरिताङ्गं सेचयेत्तेन ज्वरविमुक्तिर्भवति निश्चितं ।
खरवाहनसिंहस्य क्रमादेवानुशासनं ।
ऋक्षतुरगगतो वायुर्जीमूत इव गर्जितः ॥
रविवारे श्लोकं इमं लिखित्वा शिरसि न्यसेत् ।
तेन स्थापितमात्रेण त्रैमासिकज्वरं हरेत् ॥
वानेयस्य बिडालस्य गृहीत्वा रुधिरं ततः ।
पद्मसूत्रोत्थवर्तिं च भावयेत्सप्तवारकं ॥
शिवाग्रे तज्जतैलेन पातयेत्कज्जलं ततः ।
तेनाञ्जितलोचनस्तु अदृश्यो भवति ध्रुवं ॥
हेभिरिहेभेरिहे ।
अनेनोदकं आदायालोक्य सहस्रवारं परिजप्य अनेनैवाञ्जनेन त्रिरात्रेण सिद्धिः ।
पद्मसूत्रवर्तिकस्य तैलेन कज्जलं पातयेत्तेनाञ्जितनेत्रस्तु अदृश्यो भवति ।
ततो गोमूत्रेण चक्षुषी प्रक्षाल्य पुनः प्रत्यक्षो भवति ॥
अथ डाकिनीदमनमन्त्रः अक्षः क्षां क्षौकाजसिनौ देवता तत्त्वधूलिनी घोनाशालिनी भमन्त्रि बन्धुशनादैवतं लघुकण्टकेन पुरुं अभिशासनो देवतां महाभैरव मण्डलं अचल उओं च्छः च्छः च्छः डाकिनीमतबन्धु नमः ।
उओं नमो भगवते वज्राय चण्डेश्वराय ईं ईं फट्स्वाहा ।
इति सर्वभूतडाकिनीदमनमन्त्रः ।
दमन सर्पलङ्ग एभलिसिं अजबन्धनिशि नागपाशं अचलः इति दमनमन्त्रं बन्धनं च ।
उओं रंस्त्रीं शीघ्रं ह स्वाहा ।
त्रिपुरां सिन्दूरशङ्खचूर्णाभ्यां उदनालपत्त्रे लिखित्वा शोधयितव्यः स दिवसत्रयेण ज्वरेणागत्य मिलति ।
उओं अहोहः अमुकनम्नीं शीघ्रं आनय स्वाहा इत्याकर्षणं ॥
उओं स्त्रीं स्त्रीं वलीं वलीं ईं अहः फट्स्वाहा ।
मज्जनस्वस्थो भवति ।
अप्सरणीं अमुकीं जीव ।
तेन अनेन मन्त्रेण सप्तवारं जलं प्रजप्य कामिन्यै पानार्थं दातव्यं ।
उओं नमो जले मोहे कुले फलानि संकुले स्वाहा ।
अनेन मन्त्रेण सप्तवाराभिमन्त्रितं यस्य दीयते स वश्यो भवति ।
उओं नमो जले मोहे द्रां अब्जिनि फट्स्वाहा ।
अनेन मन्त्रेण प्रत्यूषे पानीयेन मुखं प्रक्षालयेत्सर्वजनप्रियो भवति सर्वसिद्धीश्वरो भवति ॥
उओं भूर्भुवः स्वः स्वाहा ।
ताम्बूलं मन्त्रयित्वा यस्य दीयते स वश्यो भवति ।
उओं नमो जले मोहे हन हन दह दह पच पच मथ मथ अमुकं मे वशं आनय स्वाहा ।
अथ यक्षिणीमन्त्रसाधनं सुरसुन्दरीमनोहारिणीकनकावतीरतिकरीकामेश्वरीनट्यनुरागिणीपद्मिनी एता अष्टौ यक्षिण्यः कामनायां साधनं ।
अथ सुरसुन्दरीसाधनं उओं ह्रीं आगच्छ आगच्छ सुरसुन्दरि स्वाहा ।
वज्रपाणिगृहं गत्वा गुग्गुलधूपं दत्त्वा त्रिसंध्यं पूजयेत्सहस्रं त्रिसंध्यं मासपर्यन्तं जपेत्ततो मासाभ्यन्तरे प्रत्यक्षा भवति अन्तिमदिने रक्तचन्दनेनार्घ्यं दद्यात् ।
तत आगत्य माता भगिनी भार्या वा भवति तासां यानि कर्माणि तान्येव करोति ।
यदि माता भवति तदा सिद्धद्रव्याणि रसायनानि ददाति ।
यदि भगिनी भवति तदा पूर्ववदमूल्यं वस्त्रं ददाति ।
यदि भार्या भवति तदा सर्वं ऐश्वर्यं परिपूरयति ।
परं तु वर्जनीयं इहान्यया सह शयनं सा च मैथुनप्रिया भवति अन्यथा नश्यति ॥
अथ मनोहारिणीसाधनं उओं हीं आगच्छ आगच्छ मनोहरि स्वाहा ।
इह नदीसंगमे गत्वा चन्दनेन मण्डलं कृत्वा अगुरुधूपं दत्त्वा सहस्रैकं मन्त्रं मासपर्यन्तं प्रत्यहं जपेत् ।
ततो मासान्ते चन्दनोदकेनार्घ्यं दद्यात्पुष्पफलेनैकचित्तेन तस्या अर्चनं कर्तव्यं ततोऽर्धरात्रसमये नियतं आगच्छति आगता सती तदाज्ञां करोति सुवर्णशतं तस्मै साधकाय प्रत्यहं ददाति ॥
अथ कनकावतीसाधनं उओं ह्रीं कनकावति मैथुनप्रिये आगच्छ आगच्छ स्वाहा ।
वटवृक्षसमीपे स्थित्वा मद्यमांसादिनैवेद्यं तस्यै मूलमन्त्रेण दत्त्वा शेषं स्वयं अप्यङ्गीकृत्य सहस्रं एकं मूलमन्त्रं जपेत् ।
एवं सप्तदिनपर्यन्तं कुर्यात् ।
अष्टम्यां रात्रावर्धरात्रसमये वस्त्रालंकारभूषिता अष्टौ परिवारानादायोपगच्छति ।
आगता सा कामयितव्या भार्या वा भवति द्वादशजनानां वस्त्रालंकारभोजनं च ददाति अष्टौ कला नित्यं साधकाय प्रयच्छति ॥
अथ कामेश्वरीसाधनं उओं हीं आगच्छ आगच्छ कामेश्वरि स्वाहा ।
इह गोरोचनया भूर्जपत्त्रोपरि स्त्रीरूपां प्रतिमां संलिख्य षोडशोपचारैः पञ्चोपचारैर्वा सम्पूज्य ततः शय्यायां एकाकी एकान्ते उपविश्य तन्मना भूत्वा सहस्रं जपेत्ततो मासान्ते तद्बुद्ध्या स्वकीयां भार्यां पूजयेत् ।
ततो मधुसर्पिर्भ्यां प्रतिरात्रं दीपं प्रज्वाल्य पश्चान्मौनं कृत्वा मूलमन्त्रं सहस्रसंख्यं जपेत् ।
ततोऽर्धरात्रसमये नियतं आगच्छति परं त्वन्याः स्त्रियो वर्जनीयाः ॥
अथ रतिप्रियासाधनं उओं हीं आगच्छ आगच्छ रतिकरि स्वाहा ।
अत्र पटे चित्ररूपिणी लेख्या वस्त्रकनकालङ्कारभूषिता उत्पलहस्ता कुमरी जातीपुष्पैः प्रपूजनं कुर्यात्गुग्गुलेन धूपं दद्यात्ततोऽष्टसहस्रं प्रत्यहं जपेत् ।
मासान्ते तु विधिवत्पूजनं कुर्यात् ।
धूपदीपौ प्रज्वालनीयौ ततोऽर्धरात्रसमयेऽवश्यं आगच्छति आगता सा स्त्रीभावेन कामयितव्या भार्या भवति साधकस्य परिवारं पालयति दिव्यं कामिकं भोजनं च ददाति ॥
अथ पद्मिनीसाधनं उओं हीं आगच्छ आगच्छ पद्मिनि स्वाहा ।
स्वगृहे चन्दनेन मण्डलं कृत्वा शिरःस्थं कारयेत्गुग्गुलेन धूपं दत्त्वा सहस्रं एकं प्रत्यहं जपेत्ततो मासान्ते पौर्णमास्यां रात्रौ विधिवत्पूजां कृत्वा जपेत् ।
जपान्तेऽर्धरात्रसमये नियतं आगच्छति आगता सा कामयितव्या भार्या भूत्वा सर्वकामप्रदा भवति रसं रसायनं सिद्धद्रव्यं प्रत्यहं साधकाय प्रयच्छति ॥
अथ नटीसाधनं उओं ह्रीं आगच्छ आगच्छ नटि स्वाहा ।
अत्राशोकतले गत्वा मत्स्यमांसाद्याहारगन्धपुष्पादिधूपदीपबलिं दत्त्वा सहस्रं प्रत्यहं जपेत्ततः सा मासान्ते नियतं आगच्छति आगता सा माता भगिनी भार्या वा भवति ।
यदि माता भवति तदा दिव्यं कामिकं भोजनं ददाति वस्त्रसुगन्धिसुवर्णशतं ददाति च ।
यदि भगिनी भवति तदा शतयोजनादुत्तमां स्त्रियं आनीय ददाति ।
यदि भार्या भवति तदा दिव्यं वस्त्रं रसायनं अष्टदिनान्तरेण ददाति ॥
अथानुरागिणीसाधनं उओं ह्रीं अनुरागिणि आगच्छ आगच्छ स्वाहा ।
इह कश्मीरकुङ्कुमेन भूर्जपत्त्रे स्त्रीसदृशीं प्रतिमां विलिख्यावाहनादिकं कृत्वा गन्धपुष्पधूपदीपादिकं दत्त्वा ताम्बूलानि निवेद्य सहस्रं प्रत्यहं जपेत् ।
मासं एकं त्रिसंध्यं जपेत्मासान्ते पौर्णमास्यां विधिवत्पूजां कृत्वा घृतदीपं प्रज्वाल्य समग्ररात्रौ मन्त्रं प्रजपेत् ।
ततः प्रभातसमये नियतं आगच्छति आगता सा सर्वकामप्रदा भवति दिव्यरसायनानि ददाति प्रत्यहं च दीनाराणां सहस्रं ददाति ।
तस्याः प्रसादेन वर्षसहस्राण्यायुश्च भवति ॥
अथ षट्त्रिंशद्यक्षिण्यः ।
विचित्रा विभ्रमा हंसी भीषणी जनरञ्जिनी ।
विशाला मदना घण्टा कालकर्णी महाभया ॥
माहेन्द्री शङ्खिनी चान्द्री श्मशाना वटयक्षिणी ।
मेखला विकला लक्ष्मीर्मालिनी शतपत्त्रिका ॥
सुलोचना सुशोभाढ्या कपालिनी विशालिनी ।
नटी कामेश्वरी स्वर्णरेखा च सुरसुन्दरी ॥
मनोहरा प्रमोदानुरागिणी नखकेशिका ।
भामिनी पद्मिनी चैव स्वर्णावती रतिप्रिया ॥
षट्त्रिंशदेता यक्षिण्यः कथिताः सिद्धिकामदाः ।
करङ्किणीमते तन्त्रे महादेवेन विस्तरात् ॥
आराधनं महत्तासां प्रवक्ष्यामि समासतः ।
फलं चैव यथा तुष्टाः प्रयच्छन्ति समाहितं ॥
लक्षद्वयं जपेन्मन्त्रं वटवृक्षतले शुचिः ।
पश्चाच्चम्पकपुष्पैश्च होमं मधुघृतान्वितं ॥
कुर्याद्दशांशतो मन्त्री शंकरेणोदितं यथा ।
ततः सिद्धा भवेद्देवि विचित्रा वाञ्छितप्रदा ॥
उओं विचित्रे चित्ररूपिणि मे सिद्धिं कुरु  स्वाहा ।
इति मन्त्रः ।
लक्षद्वयं जपेन्मन्त्रं श्मशाने निभृते निशि ।
घृताक्तैर्गुग्गुलैर्होमे दशांशेन कृते सति ॥
विभ्रमा तोषं आयाति पञ्चाशन्मानुषैः समं ।
ददाति भोजनं द्रव्यं प्रत्यहं शंकरोऽब्रवीत् ॥
उओं ह्रीं विभ्रमे विभ्रमङ्गरूपे विभ्रमं कुरु  भगवति स्वाहा ।
प्रदेशे नगरस्याथ लक्षसंख्यं जपेन्मनुं ।
पद्मपत्त्रैर्घृतोपेतैः कृते होमे दशांशतः ॥
प्रयच्छत्यञ्जनं हंसी येन पश्यति भूनिधिं ।
सुखेन तं च गृह्णाति न विघ्नैः परिभूयते ॥
उओं द्रीं नमो हंसि हंसवाहिनी क्लीं क्लीं स्वाहा ।
त्रिपथस्थो जपेन्मन्त्रं लक्षसंख्यं दशांशतः ।
उओं श्रीं द्रीं वटवासिनि यक्षकुलप्रसूते वटयक्षिणि एह्येहि स्वाहा ।
मधूकवृक्षतले मन्त्रं चतुर्दशदिनावधि ।
प्रजपेन्मेखला तुष्टा ददात्यञ्जनं उत्तमं ॥
उओं द्रीं हुं मदनमेखलायै मदनविडम्बनायै नमः स्वाहा ।
गुहान्तःस्थोऽधरे मासत्रयं मन्त्रं जपेन्नरः ।
ततः सिद्धा भवेद्देवि विकला वाञ्छितप्रदा ॥
ओं विकले ऐं ह्रीं श्रीं क्लीं स्वाहा ।
स्वगृहावस्थितो रक्तैः प्रसूनैः करवीरजैः ।
लक्षं आवर्तयेन्मन्त्री दूर्वाज्याभ्यां दशांशतः ॥
होमे कृते भवेत्सिद्धा लक्ष्मीनम्नी च यक्षिणी ।
रसं रसायनं दिव्यं निधानं च प्रयच्छति ॥
उओं ऐं ह्रीं श्रीं लक्ष्मि कमलधारिणि हंसः सोऽहं स्वाहा ।
चतुष्पथस्थितो लक्षं आपदि प्रजपेन्मनुं ।
मालिनी जायते सिद्धा दिव्यं खङ्गं प्रयच्छति ॥
यत्प्रभावेन लोकेऽस्मिन्दुर्लभं राज्यं आप्नुयात् ।
उओं द्रीं उओं नमो मालिनी स्त्रि एह्येहि सुन्दरि हंसहंसि समीहां मे सङ्गभय स्वाहा ।
शतपत्त्रवने यस्तु मन्त्रलक्षं जपेन्मुनिः ।
क्षीराज्यहोमैः संसिद्धा सिद्धिं यच्छति भूनिधिं ॥
उओं द्रीं शतपत्त्रिके द्रीं द्रीं श्रीं स्वाहा ।
नदीतीरस्थितो लक्षत्रयं मन्त्री जपेन्मनुं ।
घृतहोमे दशांशेन कृते देवी प्रसीदति ॥
ददाति पादुकां तस्मै यथारुचि नभस्तले ।
मनःपवनवेगेन याति चायाति साधकः ॥
उओं द्रीं क्लीं सुलोचने सिद्धिं मे देहि देहि स्वाहा ।
रक्ताम्बरधरो मन्त्री चतुर्दशदिनावधि ।
जपेत्सिद्धा भवेद्देवी शोभना भोगदायिनी ॥
उओं द्रीं अशोकपल्लवकरतले शोभने श्रीं क्षः स्वाहा ।
महाव्रतधरो मन्त्री यः शाल्योदनभोजनैः ।
लक्षद्वयं जपेन्मन्त्रं कपालं लभते मुनिः ॥
आकाशगमनं दूरात्स्वप्नरूपसमागमः ।
दूराद्दर्शनं इत्यादि साधकाय प्रयच्छति ॥
उओं ऐं कपालिनी द्रां द्रीं क्लां क्लीं क्लूं क्लैं क्ल्ॐ क्लः हंसः सोऽहं सकलह्रीं फट्स्वाहा ।
सरित्तीरे जपेन्मन्त्रं अर्धं लक्षस्य देशिकः ।
घृताक्तगुग्गुलैर्होमे देवी सौभाग्यदा भवेत् ॥
ओं वरयक्षिणी वरयक्षविशालिनि आगच्छ  प्रियं मे भवतु हैमे भव स्वाहा ।
पुण्याशोकतलं गत्वा चन्दनेन सुमण्डलं ।
कृत्वा चाभ्यर्चयेद्देवीं धूपं दत्त्वा सहस्रकं ॥
मन्त्रं आराधयेन्मासं नक्तंभोजी रसः सदा ।
रात्रौ पूजां शुभां कृत्वा जपेन्मन्त्रं मुनिव्रतः ॥
नटी देवी समागत्य निधानं रसं अञ्जनं ।
ददाति मन्त्रिणे मन्त्रं दिव्ययोगं च सिद्धिदं ॥
उओं द्रीं नटि महानटि रूपवति द्रीं स्वाहा ।
एकासने शुचौ देशे त्रिसंध्यं त्रिसहस्रकं ।
मासं एकं जपेन्मन्त्रं तदा पूजां समारभेत् ॥
पुष्पैर्धूपैश्च नैवेद्यैः प्रदीपैर्घृतपूरितैः ।
रात्रौ देवीं समभ्यर्च्य जपेन्मन्त्रं प्रसन्नधीः ॥
अर्धरात्रे गते देवी समागत्य प्रयच्छति ।
रसं रसायनं दिव्यं वस्त्रालंकरणानि च ॥
उओं ह्रीं आगच्छ आगच्छ कामेश्वरि स्वाहा ।
नदीतीरे शुभे रम्ये चन्दनेन सुमण्डलं ।
विधाय पूजयेद्देवीं ततो मन्त्रायुतं जपेत् ॥
एकविंशतिघस्रान्तं प्रसन्ना वितरेत्सदा ।
अर्धरात्रे गते देवी दीनाराणां सहस्रकं ॥
ददाति प्रत्यहं तस्मै व्ययं कुर्याद्दिने दिने ।
तद्व्ययाभावतो भूयो न ददाति प्रकुप्यति ॥
उओं हीं सर्वकामदे मनोहरे स्वाहा ।
अर्धरात्रे समुत्थाय सहस्रं प्रजपेन्मनुं ।
मासं एकं ततो देवी निधिं दर्शयति ध्रुवं ॥
ओं ह्रीं प्रमोदायै स्वाहा ।
कुङ्कुमेन समालिख्य भूर्जे देवीं सुलक्षणां ।
प्रतिपत्तिथिं आरभ्य धूपदीपादिभिर्वरां ॥
कृत्वा देवीं सहस्रं च त्रिसंध्यं परिवर्तयेत् ।
मासं एकं ततः पूजां रात्रौ कृत्वा पुनर्जपेत् ॥
अर्धरात्रे गते देवी समागत्य प्रयच्छति ।
दीनाराणां सहस्रैकं प्रत्यहं परितोषिता ॥
उओं अनुरागिणि मैथुनप्रिये यक्षकुलप्रसूते स्वाहा ।
गत्वा पक्षिगृहं मन्त्री नखकेशैः प्रपूजयेत् ॥
दिनैकविंशतिर्यावत्पूजां कृत्वा ततो निशि ।
आवर्तयेदेकचित्तो मन्त्री मन्त्रं सुसंयतः ॥
निशार्धे वाञ्छितं कार्यं देव्यागत्य प्रयच्छति ।
उओं हीं नखकेशिके स्वाहा ।
दिनत्रयं अनाहरी सोमसूर्यग्रहे सति ॥
स्पर्शाद्विमुक्तिपर्यन्तं जपेत्तद्गतमानसः ।
ततः प्रसन्ना सा देवी यच्छत्यञ्जनं उत्तमं ॥
तेनाञ्जितो नरोऽदृश्यं निधिं पश्यति भूगतं ।
उओं हीं यक्षिणि भामिनि रतिप्रिये स्वाहा ।
वटवृक्षतले कृत्वा चन्दनेन सुमण्डलं ॥
यक्षिणीं पूजयित्वा तु नैवेद्यं उपदर्शयेत् ।
शशमांसं घृतं चीरं मन्त्रं आवर्तयेत्ततः ॥
दिने दिने सहस्रैकं यावत्सप्तदिनं भवेत् ।
अथागत्य सदा तस्मै मन्त्रं अञ्जनमुत्तमं ॥
यत्प्रभावान्तरे सर्वं पश्येन्निधिं अशङ्कितः ।
उओं ह्रीं आगच्छ  स्वर्णावति स्वाहा ।
शङ्खलिप्तपटे यस्माद्देवीं गौरीं धृतोत्पलां ॥
सर्वालंकारिणीं दिव्यां समालिख्यार्चयेन्नरः ।
जातीपुष्पैः प्रपूज्याथ सहस्रं परिवर्तयेत् ॥
सप्ताहं मन्त्रवित्तस्याः कुर्यादर्चां शुभां ततः ।
अर्धरात्रे गते देवी समागत्य प्रयच्छति ॥
पञ्चविंशतिदीनारान्प्रत्यहं परितोषिता ।
वाञ्छितं मनसस्तस्मै मन्त्रज्ञाय न संशयः ॥
उओं उओं हीं रतिप्रिये स्वाहा ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:39.7500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हारी

  • स्त्री. रांग . हारी - क्रिवि . १ कडे ; दिशेस ; बाजूस . तो शेताहारीं गेला . २ कडे ; हातीं ; जवळ . त्या हारीं माझे दहा रु० आहेत . ३ इतरअर्थी कडे शब्द पहा . ४ जवळ ; पाशीं . गांवाहारीं , डोंगराहारीं . हारेमोहरे , हारेमोहरेस , हारेम्हारे , हारेम्होस , हार्‍यामोहर्‍यास - क्रिवि . जवळ ; आसपास ; समोर ; पुढें ; आजूबाजूस . ( नकारार्थी प्रयोग ). म्यां एकवेळ त्या पोरास मार दिल्हा , तेव्हांपासून तो माझे हारेमोहरेस उभा राहत नाहीं . त्याचे हारेमोहरेस तुम्ही उभे राहूं नका , तो सोदा आहे . 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.