TransLiteral Foundation

उड्डामरेश्वरतन्त्र - द्वादशः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


द्वादशः पटलः
ओं ह्रीं श्रीं क्लीं द्रं चण्डोग्रे त्रिनेत्रे चामुण्डे अरिष्टे हूं फट्स्वाहा ।
ह्रीं नमाम्यहं महादेवं नृसिंहं भीमरूपिणं ओं नमस्तस्मै ।
श्रीपार्वत्युवाच ।
उड्डीशेन समाकीर्णे योगिवृन्दसमाकुले ।
प्रणम्य शिरसा गौरी परिपृच्छति शंकरं ॥
श्रीश्वर उवाच ।
शृणु त्वं हि वरारोहे सिद्ध्यर्थं प्रतिवाससे ।
तं वदिष्यामि ते देवि सर्वं तत्समुपाहृतं ॥
देवि यो द्विजो मन्त्रैस्तु विप्रहन्यान्न संशयः ।
पूर्वोदितं मयोड्डीशं कथ्यते तव भक्तितः ॥
उड्डीशं च नमस्कृत्य रुद्रं चैव सुदुर्जयं ।
कपर्दिनं विरूपाक्षं सर्वभूतभयावहं ॥
प्रथमं भूतकरणं द्वितीयोन्मादनं तथा ।
तृतीयं द्वेषणं चैव तुर्यं उच्चाटनं तथा ॥
ग्रामोच्चाटं पञ्चमं च षष्ठं च जलस्तम्भनं ।
सप्तमं अग्निस्तम्भं च वशीकरणं अष्टमं ॥
अन्यानपि प्रयोगांश्च शृणुष्व वै वरानने ।
शिवेन कथिता योगा उड्डीशे शास्त्रनिश्चये ॥
अन्धी च वन्धीकरणं मूकीकारस्तथैव च ।
गात्रसंकोचनं चैव भूतज्वरकरस्तथा ॥
अस्त्रशस्त्रस्य त्रुटितं पानीयस्य विनाशनं ।
दधिमधुनाशनं च नखकरणं तथैव च ॥
गजानां वाजिनां चैव प्रकोपनं परस्परं ।
आकर्षणं भुजंगानां मानवानां तथा ध्रुवं ॥
सस्यविनाशनं चैव गर्भस्यान्तर्धिकारणं ।
वेतालाञ्जनसिद्धिश्च उलूकसिद्धिरपि हि ॥
अन्यानपि महारौद्रान्प्रयोगान्शृणु साम्प्रतं ।
विद्यामन्त्रप्रयोगांश्च औषधं चाभिचारिकं ॥
गुप्ता गुप्ततराः कार्या रक्षितव्याः प्रयत्नतः ।
अकुलीनाधमबुद्धेर्भक्तिहीनस्य वै तथा ॥
हिंसकस्य च क्षुद्रस्य निन्दकस्य विशेषतः ।
स्वार्थं फलादिलुब्धस्य उपदेशं अमन्यतः ॥
अस्मिन्शापे पूरुषास्ते वर्जनीयाः प्रयत्नतः ।
एतैश्च सह संयोगो न कार्यः सर्वदा बुधैः ॥
य उड्डीशक्रियाशक्तिभेदं कुर्वन्ति मोहिताः ।
ते दुष्टा दुर्जयाश्चैव किं अत्र बहुभाषितैः ॥
यदीच्छासिद्धिं आत्मानं आत्मार्थं हि तथैव च ।
सत्पूरुषाय दातव्यं देवगुरुरताय च ॥
प्रयोगास्तु प्रयोक्तव्याः साधकैः शत्रुकारणे ।
अनिमित्ता निवर्तन्ते स्वात्मग्राहे न संशयः ॥
असंतुष्टो ह्ययुक्तश्च प्रयोगानिति नाचरेत् ।
शास्त्रसिद्धविचारास्तु सामन्तकोषकाः शुभाः ॥
ओं ग्ल्ॐ गं गणेशाय नमः ।
मन्त्रेणानेन मन्त्रज्ञः कुम्भकारमृदा तथा ।
लम्बोदरं प्रकुर्वीत पूजयेदुपचारकैः ॥
साप्ताहिकं त्रिसंध्यायां जप्तव्यं सावधानतः ।
सहस्रैकप्रमाणेन जपाच्छान्तिर्भविष्यति ॥
प्रातरष्टोत्तरं जप्त्वा लभेद्बुद्धिं शुभां नरः ।
मासेनैकेन देवेशि श्रीलाभश्च भवेद्ध्रुवं ॥
षण्मासेन वरारोहे महाधनपतिर्भवेत् ।
त्रिकालज्ञानवेत्ता च वर्षैकेन न संशयः ॥
ऐं नमः स्वाहा ।
प्रातः सहस्रवारं तु प्रजप्तेन प्रपूजयेत् ।
वरदां तु महादेवीं श्वेतगन्धानुलेपनैः ॥
पुष्पैर्जापैर्दक्षिणादिसोपचारैस्तु प्रत्यहं ।
सप्तमे दिवसे ह्येवं वागैश्वर्यं प्रजायते ॥
भवेत्सद्यः प्रवक्ता च श्रुतिस्मृतिधरोऽपि च ।
बान्धवः सर्वभूतानां चिरायुः सुखं एधते ॥
ओं क्लीं मन्त्रेणानेन देवेशि साधकः जपं आरभेत् ।
रक्तवस्त्रावृतो नित्यं तथा कुङ्कुमजाङ्गले ॥
सप्ताहजपमात्रेण ह्यानयेत्त्रिदशाङ्गनां ।
ओं द्रीं द्रीं द्रीं द्रीं स्वाहा ।
पूर्वविधानो हि जपेदेकान्तसंस्थितः ॥
आकर्षेति स्त्रियं शस्तां सालंकारां सुवाससं ।
ओं हैं हः हुं ।
ऊर्ध्वदृष्टिप्रयोगेण जपेल्लक्षत्रयं प्रिये ॥
सर्वपापविनिर्मुक्तो जायते खेचरे पदे ।
ओं द्रीं कारीण्डः क्षः क्षीं फट्स्वाहा ।
एकपादस्थितो भद्रे जपेदष्टोत्तरं शतं ॥
यद्यत्प्रार्थयते वस्तु तद्ददाति दिने दिने ।
यजेन्नरविशेषं च देवाग्निगुरुब्राह्मणैः ॥
ओं श्रीं क्षीं लोहं मुञ्च किलि किलि अमुकं काटय काटय मातंगिनि स्वाहा ।
मन्त्रेणानेन पूर्वाह्णे पूजयन्नुपचारकैः ।
शरावं पूरयित्वा तु चतुष्पथे बलिं हरेत् ॥
समन्त्रं क्षिप्यति पुमान्पुरुषं यदि पश्यति ।
आत्मचिन्तितकार्याणि साधयत्येव नान्यथा ॥
ओं स्तम्भिनि स्वाहा कपालिनि स्वाहा द्रीं द्रीं वैषादार्थिनि स्वाहा छः छः ।
मन्त्रेण मृत्तिकां जप्त्वा प्रतार्य सप्तधा जले ।
संमुखीभूय क्षिप्त्वा च जप्त्वा चायुतं वासरे ॥
तेन सिद्धो भवेन्मन्त्रः साधकस्य न संशयः ।
ओं श्रीं क्षां क्षीं क्षूं क्षैं क्ष्ॐ क्षः ।
मध्याह्नसमये सूर्यसम्मुखे जपं आचरेत् ॥
अयुतं जप्तमात्रेण स्वसामर्थ्यं प्रपश्यति ।
तस्य दृष्टिनिपातेन द्विपदश्च चतुष्पदः ॥
ज्वराभिभूता जायन्ते अपूर्वा मन्त्रसम्पदः ।
ओं हंसः हंसं सोऽहं स्वाहा ।
एकविंशतिजप्तेन जलेन ज्वरपीडितः ॥
विमुच्यते पानमात्रात्सद्यः स्वस्थश्च जायते ।
ओं द्रीं नमो घोरेश्वरि घोरमुखि चामुण्डे ऊर्ध्वकेशि विकृतानने द्रीं द्रीं हुं फतुं स्वाहा ।
अयं सर्वदलनमन्त्रः ॥
ओं द्रीं द्रीं द्रीं फट्फट्फट्स्वाहा सर्वग्रहाणां त्रासनं कुरु कुरु अङ्गुलिप्रहारेण ।
ओं स्रं स्रां स्रिं स्रीं स्रुं स्रूं स्रें स्रैं स्रों स्र्ॐ स्रं स्रः ह रं र्ॐ रीं रूं रैं रेविः छुं छुं हंसः अमृतवर्चसे स्वाहा ।
अनेन मन्त्रेणोदकं शरावं संक्षिप्याष्टोत्तरशतेनाभिमन्त्रितं कृत्वा पिबेत्प्रातरुत्थाय संवत्सरेण वल्लीपलितवर्जितो भवति ।
वृक्षस्थावरजङ्गमाकृतिं समाङ्गीकाराच्च व्याघ्रलोमादिकं पूर्वोदर्यां भस्मीकरोति सर्वजनप्रियो भवति चिरायुर्भवति ।
ओं नमो भगवते रुद्राय चण्डेश्वराय हुं हुं हुं फट्स्वाहा ।
अनेन मन्त्रेण जपं कृत्वा शीघ्रं ईप्सितं लभेत् ॥
ओं हूं द्रीं क्षं क्षां क्षिं क्षीं क्षुं क्षूं क्षें क्षैं क्षों क्ष्ॐ क्षं क्षः हूं फट्स्वाहा ।
इमं मन्त्रं पूर्वं लक्षं एकं जपेत्तद्दशांशं अयुतं हवनं कुर्यात् ।
एकैकं समिधं घृताक्तां जुहुयात्सिद्धो भवति गङ्गागोलोके न ते मेघाः प्रणश्यन्ति न च वर्षन्ति वासवो नदसमुद्रं शोषयति मेघस्तम्भो भवति ।
उदकमध्ये स्थित्वा जपं करोत्यनावृष्टिकालेऽतिवृष्टिं करोति ।
ओं द्रीं प्रचलिते कुबेरे हूं हूं किलि किलि स्वाहा ।
पूर्ववेलायां आदर्शदीपसमीपे षडङ्गुलेन भाजने सूर्यमण्डले कुमारं वामे वेशयति पूर्वं अयुतजपः कर्तव्यः पञ्चोपचारेण पूजा च कर्तव्या पूर्वाभिश्च स्वराज्ये ।
ओं श्रीं हिमजाते प्रयच्छ मे धनं स्वाहा ।
अनेन मन्त्रेण सिद्धार्थकं घृतमिश्रितं हुनेतष्टोत्तरशते न अन्नपानविमिश्रितं सहस्रेण हुनेत्मनसः प्रार्थितं लभेतयुतं हुनेच्छ्रीसुमना भवेत्लक्षं हुनेद्ग्रामशतं लभेत् ॥
ओं नमो नमः ।
इमं मन्त्रं शतं जपेत्सर्वकामप्रदोऽयं मन्त्रः ॥
ओं द्रीं श्रीं सारसे सिद्धिकरि क्रीं नमः स्वाहा ।
इमं मन्त्रं लक्षं एकं जपेद्रक्तकरवीरैश्च पूजयेत्सततं सर्वकामदोऽयं मन्त्रः ॥
ओं द्रुं क्षें क्षें हुं क्षः अमुकं क्षः स्वाहा ।
अनेन मन्त्रेण राजिकालवणतुषकण्टकशिवनिर्माल्यं तैलेन युतं हुनेत्समस्तश्रीभाजनं भवति ॥
ओं हुं हुं हुं लूं लं ल्ॐ हुं लः अमुकं छः छः स्वाहा ।
अनेन मन्त्रेण सिद्धार्थं भस्मना सह मन्त्रितं कर्तव्यं यस्य गृहे प्रक्षिप्य मन्त्रबलिपांश्वैराक्षिपेत्तस्य बाहुस्तम्भो भवति ।
रिपुसैन्याग्रे क्षिपेत्शत्रुसैन्यस्तम्भो भवति अश्वगजनरा निश्चेष्टा भवन्ति विकला भवन्ति समन्तादेवाकुला भवन्ति ॥
ओं रुं रुं मुखे स्वाहा ।
अनेन मन्त्रेण जप्ततैलेन मुखं प्रक्षाल्य तिलतैलेन गात्राभ्यङ्गं वा विधाय वातादिकं दिनसप्तकेन नश्यति ।
ऐं मातंगि विमलावति विकराले द्रीं छः छः स्वाहा ।
अनेन मन्त्रेण जपापुष्पं परिजप्य वारीणि नद्यादौ होमयेत्सप्ताहेन ईप्सितं फलं लभेत् ।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ।
तन्नामकीर्तनादेव हृतं नष्टं च लभ्यते ॥
नित्यं नित्यं जपेत्किंचिद्विद्यां वित्तस्य प्राप्तये ।
ओं मं किणि स्वाहा ।
इति वृश्चिकमन्त्रः ।
ओं हुं हुं हंसः हंसं सोऽहं सोऽहं स्वाहा ।
इति सर्वविषापहरणमन्त्रः ।
मयूरपिच्छेन कुशेन शरेण शरदण्डेन वा तद्देहे सम्मार्जनं कुर्यात् ।
हं हां हिं हीं हुं हूं हें हैं हों ह्ॐ हं हः छः छः स्वाहा ।
इमं गोक्षीरसदृशं वारं वारं विचिन्तयेद्वा वराननमुखे शिरसि शरीरे ततः कण्ठे ततो हृदि नाभिमण्डले गुह्ये तथा सर्वाङ्गे चिन्तयेत्तथा पूरकेण वरारोहे कण्ठदष्टोऽपि जीवति ।
ओं गं गणपतये महागणपतये विघ्नहराय मतंगसम्भवाय लम्बोदराय गौरीप्रियपुत्राय ह्रीं गां नमः रं हं क्षः स्वाहा ।
गोरोचनाविषराजिकापिप्पलीनीचयवैर्महातैलेन सह देवदत्तैश्च लक्षितानालिखेत्निम्बकाष्ठेन प्रतिकृतिं हुत्वा पृष्ठतो लिखेत्सद्यो ज्वरविलोपो भवति शान्तिर्भवति ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:39.9530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

intertentacle

  • न. Zool. आंतरशुंडक 
RANDOM WORD

Did you know?

How to make essay about Hindu culture
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site