TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उड्डामरेश्वरतन्त्र - द्वितीयः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


द्वितीयः पटलः
अथान्यत्सम्प्रवक्ष्यामि जलस्तम्भनं उत्तमं ।
कुम्भीरवेल्वदंष्ट्रानि रुधिरं मांसं एव च ॥
हृदयं कच्छपस्यैव शिशुमारं पुनः पुनः ।
विभीतकस्य तैलेन सर्वानेकत्र कारयेत् ॥
न्यासकर्म ततः कृत्वा जले तिष्ठेद्यथासुखं ।
मद्रकस्य रसं ग्राह्यं लक्षणस्य मकरस्य च ॥
डुण्डुभस्य शिरो ग्राह्यं सर्वानेकत्र कारयेत् ।
विभीतकस्य तैले तु पच्यमाने च दापयेत् ॥
न्यासकर्म प्रकुर्वीत सप्ताहं तिष्ठते जले ।
तत्तैलं पाचयेत्लौहे कृष्णाष्टम्यां समाहितः ॥
चतुर्मासोषितो भूत्वा देवं अभ्यर्च्य शंकरं ।
अभिमन्त्र्य च मन्त्रेण मृत्तिकास्नानदक्षिणं ॥
अष्टाधिकसहस्रं तु जपित्वा होमं आचरेत् ।
अनेन मन्त्रयित्वा तु ततः सिध्यति नान्यथा ॥
उओं नमो भगवते उड्डामरेश्वराय जलं स्तम्भय स्तम्भय हुं फट्स्वाहा ।
वक्ष्येऽथ लूताकरणं तं शृणुष्व समासतः ।
भल्लातकरसं गुञ्जा विषं चित्रकं एव च ॥
कपिकच्छपरोमाणि चूर्णां कृत्वा प्रदापयेत् ।
एतत्सर्वसमायुक्तो लूताकरणं उत्तमं ॥
तस्य रूपं प्रवक्ष्यामि जायते यस्तु लक्षणैः ।
अङ्गानि धूमं आयान्ति मूर्छयन्ति मुहुर्मुहुः ॥
एतद्रूपं भवेत्तस्य लूताविकृतलक्षणं ।
चिकित्सां तस्य वक्ष्यामि येन सम्पद्यते सुखं ॥
उशीरं चन्दनं चैव प्रियङ्गुतगरं तथा ।
रक्तचन्दनकुष्ठं च लेपो लूताविनाशनः ॥
उओं नमो भगवते उड्डामरेश्वराय कुहलीकुर्वनी स्वाहा ।
मन्त्राभिमन्त्रितं कृत्वा ततः स्वस्थो भविष्यति ।
कृष्णसर्पशिरो ग्राह्यं मुखे निःक्षिप्य सर्षपान् ॥
भल्लातकेन संयुक्तं कृष्णसूत्रेण वेष्टयेत् ।
वल्मीकस्य मृदः कोशे अन्तर्धूमेन पाचयेत् ॥
कपिकच्छपरोमाणि संयुक्तं षोडशांशकैः ।
विषस्य चूर्णं कृत्वा तु शत्रूणां मूर्ध्नि निःक्षिपेत् ॥
शरद्ग्रीष्मवसन्तेषु लूताकरणं उत्तमं ।
प्रस्विन्ने च ततो गात्रे लग्नास्तस्मिंस्तु सर्षपाः ॥
लूतां च सविषां कुर्यान्नात्र कार्या विचारणा ।
वेदनाजातमात्रेण मन्त्रजापं तु पूर्ववत् ॥
पूर्वो विधानेन स्वस्थो भवति पूर्ववत् ।
अथ शस्यविनाशं च कथयामि समासतः ॥
येनैव कृतमात्रेण वज्रं कृत्वा विचक्षणः ।
क्षेत्रे सम्पातयेद्यस्मिंस्तस्मिञ्शस्यविनाशनं ॥
माहेन्द्रेण क्षिपेत्तत्र प्रयोगेण तु मन्त्रवित् ।
अथ मन्त्रं पुनर्वक्ष्ये प्रयोगेषु प्रयोजकं ॥
अष्टोत्तरशतेनैव मन्त्रेणानेन मन्त्रयेत् ।
उओं नमो भगवते उड्डामरेश्वराय वज्रं विनाशय वज्रं सुरपतिराज्ञापय हुं फट्स्वाहा ।
इमं योगं प्रयुञ्जानो विधिपूर्वेण कर्मणा ।
पर्णानां चैव योगेन क्षिपेत्पर्णं विनश्यति ॥
पुनरुच्चाटनं वक्ष्ये शृणु पुत्र यथातथा ।
येनैव कृतमात्रेण ग्रामस्योच्चाटनं भवेत् ॥
ग्रामे चतुर्णां च पथां मृदं आदाय बुद्धिमान् ।
गोमयेनाकृतिं कृत्वा ग्रामस्य च चतुर्दिशः ॥
चिताकाष्ठानलं कृत्वा कोकिलाकाकपक्षकैः ।
हुत्वा चाहुतिसाहस्रं ततो भस्म समाहरेत् ॥
अभेदेन समुत्सार्य कृत्वा मुष्टिं सभस्मकं ।
शतवाराभिजप्तेन अनेनैव तु मन्त्रितः ॥
उओं नमो भगवते महाकालरुद्राय त्रिपुरविनाशनकारणाय दह दह धम धम पच पच मथ मथ मोहय मोहय उन्मादय उन्मादय उच्छेदय उच्छेदय श्रीमहारुद्र आज्ञापयति शब्दकरी मोहिनी भगवती खें खें हुं फट्स्वाहा ।
ग्रामे वा नगरे वापि भस्मप्रक्षेपणेन च ।
उच्छेदनं भवत्येव रिपूणां नात्र संशयः ॥
दूरीकृतं पुनर्भस्म नगरे वसते पुनः ।
कुल्वीकारं प्रवक्ष्यामि शृणु योगं समासतः ॥
येन योजितमात्रेण पुनः कुल्वो भविष्यति ।
पादपांशुसमायुक्तैरन्तरा घृतगोमयैः ॥
वृषभस्य पुनः शत्रोः कृत्वा चैवाकृतिं बुधः ।
एकविंशतिवारं हि मन्त्रेणानेन मन्त्रितां ॥
छेदयेत्तीव्रशस्त्रेण ततः कुल्वो भविष्यति ।
उओं नमो भगवते उड्डामरेश्वराय कामप्रभञ्जनाय अमुकं च्छः च्छः स्वाहा ।
प्रस्थितानां च करणे मन्त्रेणानेन मन्त्रवित् ॥
कृत्वा मधु घृताक्तं च स्थाने ह्यत्र प्रयोजयेत् ।
स्नात्वा च गव्यदुग्धेन ततः स्वस्थो भविष्यति ॥
अथ उन्मत्तीकरणं ।
मूलं कनकबीजस्य घृतचूर्णं समन्ततः ।
गृहचटकस्य विष्टा च तथा करञ्जबीजकं ॥
एतदुन्मत्तकरं चूर्णं भक्षणात्तत्करं व्रजेत् ।
एकविंशतिवारं च मन्त्रेणानेन मन्त्रितं ॥
खाने पाने प्रदातव्यं उन्मत्तः स्यान्न संशयः ।
उओं नमो भगवते उड्डामरेश्वराय अमुकं उन्मादय उन्मादय च्छः च्छः स्वाहा ।
अजक्षीरेण शोणितेन पिबेत्तु शतपुष्पिकां ॥
घृतेन सह वा पीत्वा ततः सम्पद्यते सुखं ।
इत्युन्मत्तीकरणं ।
एकविंशतिवारं हि मन्त्रितं लवणं खरं ॥
करवीरककाष्ठाग्नौ मन्त्रैर्धूमेन पाचयेत् ।
लवणं तन्तु संगृह्य चूर्णं कृत्वा विचक्षणः ॥
खाने पाने प्रदातव्यं मन्त्रेणानेन मन्त्रितं ।
मन्त्रितं शतवारं च शत्रोर्वा यस्य कस्यचित् ॥
भक्षणाच्च भवेदन्धो नात्र कार्या विचारणा ।
उओं नम उड्डामरेश्वराय शरीरं अन्धं कुरु ठः ठः स्वाहा ।
अथान्यत्सम्प्रवक्ष्यामि कुष्ठीकरणं उत्तमं ॥
येन सम्पीतमात्रेण कुष्ठी भवति मानवः ।
भल्लातकरसं गुञ्जा तथा मण्डलकारिका ॥
गृहगोधासमायुक्ता भक्षे पाने प्रदापयेत् ।
सप्ताहाज्जायते कुष्ठं तत्पीतं च समेधितं ॥
एतस्य शमनं कुर्याद्यथा रुद्रेण भाषितं ।
धत्रीखदिरनिम्बानि शर्करासहितानि च ॥
विचूर्ण्य मधुसर्पिर्भ्यां जीर्णानि दापयेद्भिषक् ।
शालिभक्तं पटोलं च घृतयुक्तं तु पायसं ॥
सोष्णं वा मुद्गचूर्णं तु शालियुक्तं अथापि वा ।
एतेन दत्तमात्रेण नरः सम्पद्यते सुखं ॥
जलजीवं तु संगृह्य शोषयेदातपे नरः ।
तस्य संदापयेद्धीमान्यस्य इच्छेत्तु जीवितं ॥
अङ्गदाहेन तीव्रेण धमेत्तं नष्टचेतसं ।
यदीच्छेज्जीवितं तस्य अङ्गं प्रक्षालयेद्ध्रुवं ॥
पदमूलस्य चूर्णं तु क्षालयेत्काञ्जिकेन तु ।
तैलेनोद्वर्तयेल्लिङ्गं क्षालयेत्शीतवारिणा ॥
अनेन क्रियमाणेन नरः सम्पद्यते सुखं ।
अथान्यत्सम्प्रवक्ष्यामि वश्यादिकरणं परं ॥
येन विज्ञानमात्रेण लोको भवति किंकरः ।
पुराणिकस्य हृदयं तथा कुष्ठेन भावितं ॥
शिवनिर्माल्यं संचूर्णं यस्य मूर्ध्नि विनिक्षिपेत् ।
नियतं किंकरो भूत्वा यावज्जीवं स तिष्ठति ॥
सप्तवारं मन्त्रयित्वा मन्त्रेणानेन मन्त्रवित् ।
उओं नमो भगवते उड्डामरेश्वराय स्वाधिकारं साधय साधय स्वाहा ।
चन्दनं तगरं कुष्ठं प्रियङ्गुनागकेसरं ॥
कृष्णधत्तूरपञ्चाङ्गं समभागं तु कारयेत् ।
छायायां वटिका कार्या प्रदेया खानपानतः ॥
पुरुषं चाथ वा नरीं यावज्जीवं वशं नयेत् ।
सप्ताहं मन्त्रितं कृत्वा मन्त्रेणानेन मन्त्रवित् ॥
उओं नमो भगवते मोहमालिने ठः ठः स्वाहा ।
शङ्खपुष्पी ह्यधःपुष्पी तथा संकोचपुष्पिका ।
श्वेता च गिरिकर्णी च समं सप्ताहभाविताः ॥
स्वशुक्रेण समायुक्ता खाने पाने प्रदापयेत् ।
तं वशीकरणं प्रोक्तं यावज्जीवं न संशयः ॥
वज्रं वाथाभया लोध्रं मञ्जिष्ठा हिङ्गुपत्त्रिका ।
दिव्यं वचा विशालाक्षा कम्बुग्रीवा सुशोभना ॥
कुमारीत्वचाङ्गलेपेन सप्तहस्तप्रमाणतः ।
ददाति दशमीना च मन्त्रः कश्चित्प्रगृह्यते ॥
विषसुप्तपतित्वेन नात्र कार्या विचारणा ।
जलमध्ये सहा चौरं कुरुते वर्तिको मम ॥
दधि मधु नवनीतं पिप्पली शृङ्गवेरं मरिचं अपि तु दद्यात्सप्तमं सैन्धवेन ।
यदि भवति सरोषं तक्षकेणापि दष्टं गदं इह खलु पीत्वा निर्विषं तत्क्षणं स्यात् ॥
कुष्ठामृता चातिविषा हरिद्राया विलेपनं ।
गरुडोक्तं विषहरं औषधं प्राणिजीवनं ॥
उलूकस्य जम्बुकस्य गृध्रस्य महिषस्य च ।
बिडालस्य वराहस्य काकभेकस्य च त्वचः ॥
मूषकस्य तु नेत्रं च सूक्ष्मचूर्णानि कारयेत् ।
अनेनाञ्जितनेत्रो हि रात्रौ पश्येद्यथा दिवा ॥
एतेषां योगमन्त्रोऽयं मनुहीनो न सिध्यति ।
उओं नमो भगवते रुद्राय शिवाय ज्योतिषां पतये देहि ज्योतींषि मतिवीर्यकरणाय स्वाहा ।
एकरात्रोषितो भूत्वा कृष्णाष्टम्यां समाहितः ॥
लिङ्गसम्पूजनं कृत्वा जलं चैवाभिमन्त्रयेत् ।
दक्षिणस्यां दिशि स्थित्वा शतं अष्टोत्तरं जपेत् ॥
ततः सिध्यन्ति मन्त्राणि चाञ्जनानि समन्ततः ।
उओं नमो भगवते उड्डामरेश्वराय अञ्जनमन्त्रसिद्धिं देहि मे स्वाहा इत्यञ्जनाधिकारः ।
अथ पिशाचीकरणं ।
कनकस्य च बीजानि प्रियङ्गु गुग्गुलस्तथा ॥
आत्मानं धूपयित्वा तु योजयेद्राजसंसदि ।
योगं इमं समाघ्राति स वश्यो जायते भृशं ॥
कनकस्य तु बीजानि श्वेतार्कचन्द्रकेसरं ।
कुष्ठं च देवदारुं च सर्वं एकीकृतं तथा ॥
पिष्ट्वा तेन लिप्तगात्रो योगशक्त्या बलिष्ठया ।
यत्र यत्र प्रविष्टस्तु तत्र तत्र जयी भवेत् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:39.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Parietales

  • भित्तीयबीजक गण 
  • पराएटेलीझ 
  • एंग्लर व प्रँटल यांच्या पद्धतीत आद्यपरिदली श्रेणीतील आणि बेंथँम व हूकर यांच्या पद्धतीत मुक्त प्रदली उपवर्गातील एक गण. प्रमुख लक्षणे- फुलात अनेक केसरदले, बीजके अनेक असून ती तटलग्न बीजकाधानीवर असतात. फुले सर्पिल किंवा चक्रीय, परिदले विषम 
  • parietal 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.