उड्डामरेश्वरतन्त्र - तृतीयः पटलः

‘उड्डामरेश्वरतन्त्र ’ हे तंत्रशास्त्रातील अत्यंत दुर्मिल आणि गुप्त तंत्र आहे, साधक याचा उपयोग अतिशय निर्वाणीच्या क्षणी करतात.


काकस्य पक्षौ संगृह्य सर्पकञ्चुकं एव च ।
श्मशानभस्मसंयुक्तं शत्रोरुच्चाटनं भवेत् ॥
इत्युच्चाटनाधिकारः ।
भूतवादं प्रवक्ष्यामि यथा गरुडभाषितं ।
येनैव ज्ञातमात्रेण शत्रवो यान्ति वश्यतां ॥
शत्रुनिर्यासं संगृह्य चूर्णं सत्त्वं च तस्य वै ।
भावयेत्सप्तरात्रं तु भोजनैः सह दापयेत् ॥
दत्तमात्रेण तेनैव पिशाचैर्गृह्यते तु सः ।
स्वस्थीकारे प्रदातव्या जया तु मधुयष्टिका ॥
निर्यासैः शालसम्भूतैर्बीजानि कतकस्य च ।
भावयेत्सप्तरात्रं तु भोजनैः सह दीयते ॥
तस्य भक्षणमात्रेण ग्रहैः संगृह्यते नरः ।
शर्करादुग्धपानेन स्वस्थो भवति नान्यथा ॥
वास्तुकस्य तु निर्यासं बीजानि कतकस्य च ।
मर्दित्वा यातयामाभ्यां गृह्यते ब्रह्मराक्षसैः ॥
शर्करादुग्धपानेन स्वस्थो भवति नान्यथा ।
कपिकच्छुकनिर्यासैर्मातुलुङ्गस्य बीजकं ॥
भावयेत्सप्तरात्रं तु भक्ष्ये पाने प्रदापयेत् ।
उओं नमो भगवते उड्डामरेश्वराय महेश्वरो नाम स्वाहा ।
आमलक्याश्च चूर्णेन स्त्रीदुग्धसहितेन च ॥
पाययित्वा विष्कृतं तु स्वास्थ्यं संजायते ध्रुवं ।
शर्करापद्मकिञ्जल्कपद्मकेसरकल्ककैः ॥
चूर्णीकृतैस्तच्चूर्णं तु दुग्धेन सह दापयेत् ।
तदा दुष्टग्रहैर्मुक्तः स्वस्थश्च जायते नरः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP