TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

जातकपारिजात - तृतीयचतुर्थभावफलाध्यायः

दैवज्ञश्रीवैद्यानाथरचित जातक पारिजात या संस्कृत ग्रंथात सूर्य फल, नवग्रह फल, योग पिहित, भाव विचार, विषाख्य कन्या, राज्ययोग, आयुर्बल, व्यत्ययविचार, अरिष्टादि योग आणि सर्व प्रकारचे अरिष्ट नाश होणारे उपाय वर्णन केले आहेत.


तृतीयचतुर्थभावफलाध्यायः
तत्र तृतियभावफलम् ।

ज्योष्ठानुजस्थितिपराक्रमसाहसानि कण्ठ्खरज़्रुतिवराभरणांज़ुकानि ।
धैर्य च वीर्यबलमूलफलाज़नानि वक्ष्ये तृतीयभवनात् क्रमज़ोऽखिलानि ॥१॥

अथ भ्रातृविचार ।
भ्रातृस्थानं तृतीयं च नवैकदशसप्तमम् ।
तत्तदीशादशायां च भ्रतृलाभो भवेन्नृणाम् ॥२॥

भ्रातृस्थानेशतद्राशितद्भावस्थद्युचारिणाम् ।
मध्ये बलसमेतस्य दशा सोदरकृद्धिदा ॥३॥

भौमो बलविहीनश्चेदीर्घायुर्भ्रातृगो भवेत् ।
विलग्नगो बली यस्य कारकः स प्रभुः त्मृतः ॥४॥

जन्मकाले गुणी प्राणी कारको यः समृदकृत् ।
क्षयकारी विपर्याते भावपो विपकोऽहिकः ॥५॥

सोदरेशेकुजौ नाशं गतौ चेत्मोदरक्षयः
पापर्क्षगौ सपापौ वा भ्रातृनुत्पाद्य नाशदौ ॥६॥

नीचास्तगौ सोदरनायकाख्यौ(सोदरनायकारव्यौ)नीचंशगौ पापसमगतौ वा ।
क्रूरादिषष्टर्यंशगतौ तदानीं भ्रातृन्समुत्पाद्य विनाशहेतुः ॥७॥

अतिक्रूरसमायुक्ते भावे वा कारकेऽपि वा ।
तद्भावनायके वाऽपि बल्ये सोदरनाशनम् ॥८॥

धनेश्वरे नग्शगते बलाढ्ये पापान्विते सोदरकारकाख्ये ।
तन्मातृकारमहसंयुते च सापत्नमातुः सहजा वदन्ति ॥९॥

भ्रातृस्थाने यदि शुभयुते सोदराणं चिरायुः
पापाक्रन्ते सहजभवने पापदृष्टे विनाशम् ।
ज्येष्टं हन्ति द्युमणिरनुजस्थानगः पापदृष्टः
सौरस्तस्यानुजमवनिजो हन्ति सर्वन् कनिष्टान् ॥१०॥

त्रिकोणकेन्द्रे यदि पापखेटे तृतीयभावादनुजस्य नाशम् ।
शुभोपयाते सहजाभिवृधिः शुभाशुभं मिश्रफलं वदन्ति ॥११॥

दुःस्थे चन्द्रे सोदरस्वायुक्ते जातस्यान्यस्तन्यपानं वदन्ति ।
मातृभ्रातृस्थानपौ बन्धुयातौ नास्ति भ्रातृस्थानवृद्धिर्नराणां ॥१२॥

भौमान्वितौ सोदरदौ भवेतामन्यैः समेतौ यदि नानुजः स्यात् ।
सौरस्तृतीयेऽनुजनाशकर्ता विधुन्तुदः सोदरवृद्धिकृत्स्यात् ॥१३॥

अदृश्यराशौ यदि वा सपापे वधूगृहस्थे सहजाधिनाथे ।
जातानुजस्योपरि नानुजः स्यात् पुंवर्गगे दृश्यगते तथैव ॥१४॥

भ्रातृस्थानपतौ तु पुंभवनगे तस्यानुजो जायते
युग्मर्क्षे यदि भार्गवेण शशिना युक्तेऽथवा वीक्षिते ।
सौम्यर्क्षे शुभखेचरेक्षितयुते केन्द्रत्रिकोणस्थिते
पश्चाज्जातसहोदरिश्वरसुखी दीर्घायुरारोग्यभाक् ॥१५॥

सहोदरस्थानपतौ तनुस्थे सलग्नपे सोदरनायके वा ।
गर्भोऽभयोऽनन्तरमस्य मातुस्तृतीयराशौ सपतौ तथैव ॥१६॥

अथ सोदरसङ्ख्याशानम् ।

लाभावसानभवनोपगतग्रहेन्द्रसङ्ख्यास्तदग्रजजनाः सहजा भवन्ति ।
लग्नात्तृतीयधनयातवियच्चरेन्द्रैः संख्याजनाः स्युरनुजाः कथयन्ति तज्ङ्य़ाः ॥१७॥

भ्राटृस्थानपकारकेक्षितयुता वीर्याधिका यद्यदा
तद्युक्तप्रहसंख्ययाऽनुजजनिं जातः समेति ध्रवम् ॥
चत्वारो यदि नीचमुढरिपुगा निघ्नन्ति जातानुजां
स्ते कुर्वन्ति चिरायुरिष्टबलिनः सर्वानुजानां ग्रहाः ॥१८॥

भ्रात्रृस्थानपमुख्यखेचरगणे द्वौ वीर्यवन्तौ यदा
नाशानाशफलप्रदौ समतया वीर्याधिकाश्चेत्त्रयः ।
खेटः स्त्रल्पसहोदरक्षयकरा दुःस्थानगाः स्त्रीग्रहाः
यद्यल्पानुजवृद्धिदास्तदनुजस्वाम्यंशसंख्यानुजाः ॥१९॥

भूमिजे सहजस्थाने यवतां विद्यते बलम् ।
शत्रुनीचग्रहं स्यक्त्वा तावन्तः सहजाः स्मृताः ॥२०॥

भ्रात्रीदौ खीग्रहर्क्षस्थौ भ्रातृदौ पुंग्रहर्क्षगौ ।
सोदरेशकुजौ स्यातां भ्रातृभ्रात्रिसुखप्रदौ ॥२१॥

स्वीहोरया वा युवतिग्रहेण युक्ते यदि भ्रातृहे विलग्नात् ।
सहोदरीलाभमुपैति जातः सहोदरं तत्परतोऽन्यथा चेत् ॥२२॥

कारकः सहजाधिशस्तदृर्शे(तद्दर्शे)तत्र संस्थितः ।
इष्टानिष्टकरास्तेषां स्वदशान्तर्दशासु च ॥२३॥

कारकादिचतुःखेटफुटयोगांशकानुजाः ।
वर्ज्या नीचारिमूढांशाः स्वोच्चांशा द्वीगुणिकृताः ॥२४॥

तृतीयात्सप्तमर्क्षेण भ्रातृभार्याफलं वदेत् ।
लग्नेशकुजसोत्थेशा भ्रात्रनिष्टशुभप्रदाः ॥२५॥

अन्योन्यामिष्टविपुलं तु सहोदराणां लग्नाधिपेन साहिते यदि सोदरेशे ।
अन्योन्यामिष्टस्वचरां यदि तौ बलाढ्यौ लग्नेऽथवा सहजभे न विभागमाहुः ॥२६॥

अथभ्रात्ररिष्टम् ।
लग्नेशानुजनायकौ विबलिनावन्योन्यशत्रुग्रहौ
दुश्चिक्यस्थितकारकौ च यदि वा दुःस्थानगौ दुर्बलौ ।
तत्पाके सहजप्रमादकलहं तन्नाशभर्थक्षयं
तत् खेटोपगकोपहेतुकलहस्नेहादि सर्वं वदेत् ॥२७॥

गुरुदृष्टेऽनुजे शुक्रे भ्रातृरक्षणतत्परः ।
रविदृष्टे बुधे सोत्थे सुहृन्नाशकरो भवेत् ॥२८॥

भ्रातृस्थातन्नायककारकाणां नीचरिदुःस्थानसमन्वितानाम् ।
भुक्तौ दशायां भनसत्त्वनाशं पराजयं भ्रातृविनाशमाहः ॥२९॥

लग्नेशस्फुटतो विशोध्य सहजस्थानाधिपस्य स्फुटम्
तन्वक्षत्रगते शनौ तु मरणं तस्मोदराणां वदेत् ।
तस्माद्धि स्फुटतस्तु मानगृहपे भौमे च संशोधिते
राशौ भानुसुते तथैव च चतुर्थोगस्फुतांशेऽथवा ॥३०॥

चतुःस्फुटाक्रान्तदृकाणराशिं गते गुरौ सोदरनाशमाहुः ।
तत्तारकानाथदशाऽनुजानामतीव सम्पत्सुखदायिनी स्यान् ॥३१॥

भूसूनुस्फुटतो विशोध्य फणिनं शेषत्रिकोणे गुरौ
जातस्यानुजनाशनं क्षितिसुतं राहुस्फुटाच्छोधयेत् ।
तद्राशिस्थनवांशकेऽमरगुरौ तज्ज्येष्ठनाशं वदेद्
जन्माधानपकर्मपस्फुटगृहे जीवेऽनुजो जायते ॥३२॥

पराक्रमविचारः

विक्रमाधिपतौ स्वोच्चे नाशस्थे पापसंयुते ।
चरराशौ चरांशस्थे युद्धात्पूर्व दृढो भवेत् ॥३३॥

कारके बलहीने वा क्रूरषष्टयंशसंयुते ।
शुभदृग्योगसम्बन्धे विजयी विक्रमेश्वरे ॥३४॥

सौम्यार्धिपे भानुयुतेऽत्र वीरश्वन्द्रान्विते भानस्तधैर्यजातः ।
दुष्टो जहो भौमयुते प्रकोपी सौम्यन्विते सात्त्विकषुद्धियुक्तः ॥३५॥

जीवान्वते धीरगुणाभिरामः समस्तशास्त्रार्थविशारदः स्यात् ।
कामातुरः शुक्रसमन्विते तु तन्मूलकोपत् कलहप्रवीणः ॥३६॥

जडो भवेद्वासरनाथस्तूनुयुक्तेऽतिभीतो फाणिसंयुते स्यात् ।
बाहिर्गदो हृद्रदजाड्ययुक्तः केत्वन्विते मान्दियुते तथैव ॥३७॥

लग्ने गुरौ विक्रमनाथयुक्ते चतुष्पदानां प्रवदन्ति भीतिम् ।
गवां भयं जलराशिलग्ने जलप्रमादं समुपैति जातः ॥३८॥

कुजेन युक्ते स्वचरे विलष्ठे सत्त्वं बलं गानौखं समेति ।
कुजानुजस्यानुजराइनाथास्त्रयो  बलीष्ठा रणरङ्गशूराः ॥३९॥

तेषां त्रयाणामपहारकाले पाकेऽथवा मूलफलार्दसौख्यम् ।
श्रोत्रद्वयं भूषणसत्कथादिसम्पत्करं भ्रातृसुतादिलामम् ॥४०॥

सात्त्विको भवति सोदराधिपे सौम्यवर्गसहिते बलान्विते ।
नीचमूढरिपुपापराशिगे पापखेचरयुते तु साहसी ॥४१॥

अथ कण्ठविचारः
शौर्याधिपे राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद्भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगभाक् स्यात् ॥४२॥

पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् ।
भौमान्विते भानुसुते बलाढ्ये तृतीयराशौ यदि कण्तुरोगम् ॥४३॥

विक्रमेशगुरू लग्नं गतौ गोभीतिसूचकौ ।
राहुणा वा फणिक्रान्तराशिपेन युतौ यदि ॥४४॥

सुबुधो विक्रमपतिर्गलरोगकरो भवेत् ।
सोत्थेऽरिनीचगे पापे सोत्थाभावो विषादिभुक् ॥४५

बुधेन जीवेन युतेक्षिते वा तृतीयराशौ बलसंयुते च ।
तत्क्न्द्रगे मन्त्रिणि बोधने वा कण्ठस्वरं चारुतरं समेति ॥४६ ॥

अथ श्रुतिभूषाणाविचारः

तृतीये सौम्यसंयुते सौम्यखेचरवीक्षिते ।
तदिशे शुभसंयुक्ते कर्णयोर्भूषणं वदेत् ॥४७॥

शुक्रे तृतीये यदि मौक्तिकं तु जीवे तुलस्याभरणं वदन्ति ।
सरक्तमानीलमयं दिनेशे चन्द्रे  बहु त्वाभरणं बलाढ्ये ॥४८॥

सौम्ये श्यामं कुजक्षेत्रे विचित्राभरणं वदेत् ।
तत्पतौ स्वोच्चवर्गस्थे दिव्यभाभरणं ॥४९॥


अथ वस्त्रविचारः

मानस्थे गुरगेऽथवाऽनुजपतौ सौम्यर्क्षगे तद्यते
दिव्यं वस्त्रमपूर्वमेति सहजे सौम्ये सुवस्त्रं लभेत् ।
वीर्याथौ बहुवस्त्रभूषणक्रौ शुक्रानुजस्थानपौ
स्यातां धर्मकथारसश्रवणदौ जीवङ्य़ायुक्तेक्षितौ ॥५०॥

अथ धैर्यविचारः ।

धैर्यान्वितो विक्रमेशे सौम्यग्रहनवांशके ।
शुभेक्षिते शुभयुते वैशेषिकसमन्विते ॥५१॥

धैर्याधिपे पातयुतेक्षिते वा दुःस्थानगे धैर्यविनाशमेति ।
केन्द्रत्रिकोणे शुभखेटयुक्ते शुभेक्षिते वा यदि धैर्यशाली ॥५२॥

अथ बलविचारः

वीर्याधिपे भूमुसुतेन युक्ते पापर्क्षगे वीर्याविनाशहेतुः ।
केन्द्रत्रिकोणे ससिते बलाढ्ये वीर्याधिको भोगगुणप्रकाशः ॥५३॥

अथ अशनंविचारः

शुक्रं निशाकरं स्यात्वा लग्नात्सोदरभे शुभे ।
शुभराश्यांशगे जातः समेति सुखभोजनम् ॥५४॥

जीवस्य राशिनवभाङाडॄKअनाषाम्स्थे वीर्याधिपे यदि सुराचिंतवीक्षिते वा ।
तत्केन्द्रकोणगृहगेऽवनिजे बलाढ्ये जातस्तु कन्दफलमूलरसप्रियः स्यात् ॥५५॥

सोदरारातिगः शुक्रः शोकरोगभयप्रदः ।
तत्रैव शुभकारी स्यात्पुरतो यदि भारकरात् ॥५६॥

गुरुशुक्रयुते भुक्तौ नाथे सौम्ययुतेक्षिते ।
बलवच्छुभदृष्टे वा त्वन्नदाता भवेन्नरः ॥५७॥

सौम्ये स्वोच्चं गते भुक्तौ सौम्यग्रहनिरीक्षिते ।
नाथे वैशेषिकांश वा सुखभुक्तिप्रदो भवेत् ॥५८॥

इति तृतीयभावफलानि ।

अथ चतुर्थभावफलम् ।

वदन्ति विद्याजननीसुखानि सुगन्धगोबन्धुमनोगुणानि ।
महीपयानक्षितिमन्दिराणि चतुर्थभावप्रभवानि तज्ङ्य़ाः ॥५९॥

अथ विद्याधिचारः ।

विद्याराशौ निजपतियुते सौम्ययुक्तेक्षिते वा
जातो विद्याविनयचतुरश्चन्द्रसूनौ बलिष्ठे ।
दुःस्थे पापद्युचरसहिते पापदृष्टे तदीशे
विद्याहीनो भवति मनुजः पापराशिस्थिते वा ॥६०॥


विद्यास्थानपजीवचन्द्रत्नयाः षट्त्रिव्ययायुःस्तिता
विद्याबुद्धिविवेकहीनफलदा नीचारिगा वा यदि ।
स्वोच्चस्वर्क्षगतास्त्रिकोणगृहगाः केन्द्रस्थिता वा यदि
शीविद्याविनयादियुक्तिनिपुणो राजाधिराजप्रियः ॥६१॥

अथ मातृविचारः ।

शुक्रे बलिष्ठे यदि वा शशाङ्के सौम्येक्षिते शोभनभागयुक्ते ।
चतुष्टये मातृगृहे बलाढ्ये मातुश्विरायुष्टमुदाहरन्ति ॥६२॥

मातृस्थानाधिपे षष्ठे व्यये वा वलवर्जिते ।
लग्ने पापे पापदृष्टे मातृनाशं वदेद् बुधः ॥६३॥

क्षीणे चन्द्रेऽष्टभे षष्ठे व्यये वा पापसंयुते ।
पाताले पापसंयुक्ते मातृहानिर्न संशयः ॥६४॥

मातृस्थानगते मन्दे पापग्रहनिरीक्षिते ।
रन्ध्रनाथेऽरिनीचस्थे मातृनाशं विनिर्दिशेत् ॥६५॥

भ्रातृपुत्रगते पापे पातालेशेऽरिनीचगे ।
चन्द्रे पापसमायुक्ते मातृरोगं विनिर्दिशेत् ॥६६॥

षष्ठेश्वरेण सहितः सुखराशिनाथो धर्मस्थितो जनकमत्र विटं करोति ।
भाग्यधिपेन सहितो यदि मातृनाथः सौख्यस्थितो जन्कमत्र विटं करोति ॥६७॥

षण्मातृपौ पितृस्थने पितुश्व व्यभिचारदौ ।
मातृतातारिदेहेशैरेकस्थैः परजातकः ॥६८॥

पापेक्षिते पापशुते शशाञ्के दिवाकरे वा यदि केन्द्रराशौ ।
क्रूरे सुखे वा यदि पापदृष्टे जातो नरः स्याद्यदि मातृगमी ॥६९॥

चन्द्रे भृगौ वा केन्द्रस्थे पापद्टॄष्टेऽथवा द्वयोः ।
क्रूरे सुखे मातृगामी यदि वा गुरुदारभाक् ॥७०॥

सुखस्थे सारषष्थेशे चन्द्रे माताऽन्यमैथुनी ।
व्यभिचरप्रदो मातुः सरादुदिननायकः ॥७१॥

शीतांशौ राहुकेतुभ्यां युक्ते नीचेन सङ्गमः ।
मन्दयुक्ते च शूद्रेण वैश्येन बुधयोगतः ॥७२॥

रवियुक्ते क्षेत्रियेन्ण मन्त्रिभ्यां द्विजसङ्गमः ।
एवं चन्द्रः कुजारीशयुक्तस्तत्फलदो भवेत् ॥७३॥

चन्द्रोऽनिष्टस्थानगः सानुजेशो जातस्यास्तन्यपानं करोति ।
दुःस्थानस्थौ मातृपित्टॄक्षनाथौ पित्रोर्मृत्युर्लग्ननाथे बलाढ्ये ॥७४॥

पितृकर्माधिपे दुःस्थे लग्नेशे बलसंयुते ।
पित्रोरनिष्टकारी स्यात् सीमन्तरहितोऽथवा ॥७५॥

मातृस्थानेशलग्नेशौ तत्र कोणगतौ यदि ।
तदीशो लग्नगो माता पित्रा सह मृता भवेत् ॥७६॥

मातृलग्नेशपितृपाः केन्द्रकोणस्थिता यदि ।
तदृशान्तर्दशकाले जन्न्यास्त्वनुमृत्युदाः ॥७७॥

रवीन्दू पितृमातृस्थौ यदि तावनुमृत्युदौ ।
तदीशोक्षितयुक्ता वा रविसम्बन्धिनस्तथा ॥७८॥

ये मातृभावमतिकारकतत्समेता-स्तन्मातृराशिगतवीक्षितखेचरेन्द्राः ।
तेषामनिष्टकरखेटदशापहारे-जातस्य मातृमरणं प्रवदन्ति सन्तः ॥७९॥

मार्तण्डस्फुटतो विशोध्य शशिणं तच्छेषराश्यंशके
जीवे भानुसुते च मातृमरणं तत्कोनगे वा नृणाम् ।
संशोध्यं यमकरुटकं हिमकराद्रन्ध्राधिपस्य स्फुटं
तद्राशौ रविनन्दने मृतिमुपैत्यम्बा तदंशे रवौ ॥८०॥

अथ सुखविचारः ।

गोपुराद्यंशके जीवे सुखस्थानगतेऽपि वा ।
धनायवृद्धिभावेषु खेटेषु च सुखी भवेत् ॥८१॥

बुधदृष्टियुते सौख्ये सौम्यमध्यगतेऽथवा ।
जीवराश्यंशके वाऽपि पुण्यकर्मरतः सदा ॥८२॥

सुखस्थितः शोभनराशिगो बली विलग्नसम्बन्धगुणाधिको यदि ।
तज्जातिवर्गेण सुखं तदीयधातुश्रियमेति मानवः ॥८३॥

चतुर्थगो नीचसपलयातस्त्वनिष्टभावाधिपतिर्विलग्नात् ।
लग्नेशशत्रुर्यदि तत्प्रकोपान् शरीरसौख्यादिविनाशमाहुः ॥८४॥

चतुर्थभावस्थितदर्शिकारका बलान्विता यद्यतिसौख्यद्रेतुकाः ।
अनिष्टदा नीचसपत्नमुढगाः सुखं शुभेनाशुभमन्यखेचरैः ॥८५॥

चतुर्थगे भाग्शपतौ सयुक्रे बलाधिके स्याच्चिरकालभोगी ।
शुभान्विते रन्ध्ररिपुव्ययस्थे जातोऽल्पकालं समुपैति सौख्यम् ॥८६॥

अथ सुखादिविचारनिर्णयः ।

सुखाचिन्ता गृहेज्याभ्याण् मातृचिन्ता सुखेन्दुतः ।
सुगन्धं गृहशुक्राभ्यां वस्त्रवहानभूषणम् ॥८७॥

अथ सुगन्धविचारः ।

सुखेश्वरे शोभनराशियुक्ते शुक्रेण दृष्टे सति संयुते वा ।
अरातिनीचग्रहदृष्तिहीने सुगन्धमाल्यादिसुखं समेति ॥८८॥

अथ वस्त्रविचारः ।

वीर्यान्विते शीतकरे सुवस्त्रं साहिध्वजे जीर्णतरं समेति ।
कौशेयकं जीवयुते च रत्नचित्रं सशुक्रे सशनौ तु कृष्णं ॥८९॥

शुक्रेन्दुवर्गसहिते सुखराशिनाथे शुक्रेण शीतरुचिना सहितेक्षिते या ।
नीचारिपापगगनाटनडृष्टिमुक्ते पङ्चादिवित्तमखिलं लभते मनुष्यः ॥९०॥

अथ बन्धुविचारः ।

बन्धुस्थानेश्वरे सौम्ये सौम्यग्रहनिरीक्षिते ।
कारके बलसम्पूर्णे बन्धुपूज्यो भवेन्नरः ॥९१॥

बन्धूपकर्ता तन्नाथे केन्द्रकोणायसंयुते ।
वैशेषिकांशसंयुक्ते पापद्टॄग्योगवर्जिते ॥९२॥

बन्धुद्वेषी भवेन्नित्यं पापाक्रान्ते रसातले ।
नीचास्तखेटसंयुक्ते शुभदृग्योगवर्जिते ॥९३॥

अथ यनोविचारः ।

सपापे रन्ध्रपे सौख्ये कपटी पापसंयुते ।
स्वोच्चमित्रस्वर्गस्थे निष्कानव्यं शुभेक्षिते ॥९४॥

विशुद्धह्वदयः शान्तो हृदयंशे बलान्विते ।
गोपुराद्यंशके वाऽपि मृद्वंशादिसमन्विते ॥९५॥

अथ वाहनविचारः ।

वाहनेशे बलयुते यानराशौ बलान्विते ।
शुभग्रहेण संदृष्ते वाहनादि फलं वदेत् ॥९६॥

वाहनेशे वाहनस्थे सेन्दुजे शुभवीक्षिते ।
शुभखेचरराश्यंशे वाहनादि फलं वदेत् ॥९७॥

चन्द्रो विलग्नसम्बन्धी वाहनेशसमन्वितः ॥
तुरङ्गवाहनं तस्य वदन्ति मुनिपुङ्गवाः ॥९८॥

द्वितीये वा चतुर्थे वा चन्द्रे शोभनराशिगे ।
शुभखेचरसंयुक्ते समुपैत्यश्ववाहनम् ॥९९॥

सेन्दौ चतुर्थाधिपतौ विलग्नेलग्नेश्वरेणापि युतेऽश्वलाभम् ।
शुक्रेण युक्ते यदि वाहनेशे देहान्यते वा नरवाहनं स्यात् ॥१००॥

आन्दोलिकाभरणदौ सितपूर्णचन्द्रौ केन्द्रत्रिकोणगृहगौ बलिनौ  भवेतां ।
रक्ताम्बराभरणदः सुरपूजितर्क्षे चन्द्रे सुरेन्द्रसचिवेक्षितसंयुते वा ॥१०१॥

आन्दोलिकातुरगलाभभुपैति जातः शुक्रेन्दुयानपतयस्तनुनाथयुक्ताः ।
एकत्र देवगुरुयानपचन्द्रशुक्राः केन्द्रत्रिकोणगृहगाश्वतुरङ्गयानं ॥१०२॥

वाहनेशे गुरुयुते चतुरङ्गाख्यवाहनम् ।
यानेशे सशुभे माने चामरच्छत्रसंयुतः ॥१०३॥

सुखेश्वरे केन्द्रगते तदीशे लग्नस्थिते वाहनयोगवन्तः ।
कर्मेश्वरे लाभगते तदीशे कर्मस्थिते भूषणयानवन्तः ॥१०४॥

अथ राज्यविचारः ।

यानेशे लाभराशिस्थे सुखे वा लाभगे कुजे ।
अथवा भौमराशिस्थे राज्यप्राप्तिर्न संशयः ॥१०५॥

लग्नाद्वाहनराशिगस्तदधिपस्तद्वीक्षकश्च त्रयः
स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः केन्द्रत्रिकोणायगाः ।
दीर्घायुः शायनासनाम्वरबबन्धुक्षेत्राणी सन्मन्दिरं
बन्धुस्नेहमनोङ्य़वाहनयशह्सौख्यानि कुर्वन्ति ते ॥१०६॥

स्वोच्चराशिगतश्चान्द्रिः केन्द्रकोणसमन्वितः ।
विद्यावाहनसम्पतिं करोति विपुलं धनम् ॥१०७॥

लग्नेशात्सुखनाथतद्भवनगौ भाग्येशभाग्यस्थितौ
चत्वारः शुभवर्गगाः सुबलिनस्ते लग्नसम्बन्धिनः ।
अन्योन्याश्रितवीक्षिता यदि महीपालिश्वरायुः सुखी
तेजस्वी चतुरङ्गयानविपुलश्रीराजचिहाञ्कितः ॥१०८॥

ग्रहत्रयं स्थानबलाधिकं चेद्विचित्रत्नाभरणादि यानम् ।
खेटद्वये वीर्ययुते विलग्ने रदीयपाके समुपैति सौख्यम् ॥१०९॥

उक्तस्थानत्र्येष्वेको बली वाहनराशिपः ।
लग्नलग्नेशसम्बन्धी तद्दशा वाहनप्रदा ॥११०॥

चतुर्थधर्मायधनाधिनाथा विलग्नसम्बन्धिबलाधिकाश्वेत् ।
तदीयपाके समुपैति राश्ज्यं क्रमेण भाग्यं धनलाभमर्थम् ॥१११॥

ते चत्वारोऽधिकबलयुता देहसम्बन्धिनश्चे-
देतत्सर्वं भवति विपुलं दुर्बला दुःखदाः स्युः ।
मिश्रं मिश्रैस्तनुपरिभवः कारको भावनाथो
भावाक्रान्तो विगतबलिनश्वेदतिक्लेशदास्ते ॥। ११२॥

वाहनेशेऽरिनीचस्थे दुःस्थे धर्माधिपेक्षिते ।
सुदुर्वाहनसम्प्राप्तिश्वलवाहनताऽपि वा ॥११३॥

धर्मकर्मविलग्नस्थास्तुङ्गोपगशुभग्रहाः ।
लग्नाधिपेन संदृष्ता यानान्ते दुःखमाप्नुयात् ॥११४॥

जीवे वा सुखपे शुभग्रहयुते लग्नात्तपःस्थानगे
सौम्यर्क्षे नरवहानं चिरतरं राजप्रतापान्वितम् ।
दुःस्ते पापयुतेऽस्तनीचरिपुगे यानादिभाग्यं नहि
स्वर्क्षे सर्वबलाधिके चिरसुखं चान्दोलिकारोहणम् ॥११५॥

बन्धुकर्मगृहाधीशौ लाभस्थानगतेक्षकौ ।
बलवन्तौ यदि स्यातां सर्वभाग्यफलग्नदौ ॥११६॥

लाभस्थौ सुखभाग्येशौ पश्यन्तौ वा सुखस्थलम् ।
वाहिनीसर्वभाग्याढ्यो राजप्रीतिकरो भवेत् ॥११७॥

धर्मवाहनराशीशौ लग्नसम्बान्धुनौ यदि ।
जीवदृष्तियुतौ तस्य राजवश्यादिभूषणं ॥११८॥

शुभवाहनराशीशौ शुभखेचरसंयुतौ ।
बहुसेनाधिपः श्रीमान् बलिनौ यदि जायते ॥११९॥

भाग्यस्थिते वाहनराशिनाथे सशुक्रजीवे शुभखेटराशौ ।
भाग्याधिपे कोणचतुष्टये बहुत्वदेशाभरणार्थयानम् ॥१२०॥

कामारियानसहजतपोलग्नव्ययेश्वराः ।
सुखाधिपेन संयुक्तारत्वसंख्याकरदेशभाक् ॥१२१॥

सुखाधिपो देवगुरुः सितो वा बली विलग्नान्नवमोपयातः ।
त्रिकोणकेन्द्रेपगतः शुभेशः समेति जातो बहुवाहनानि ॥१२२॥

सशुक्रजीवो गेहेशो भाग्यस्थो भाग्यपे सुखे ।
केन्द्रत्रिकोणयोर्वाऽपि बहुवाहनदेशभाक् ॥१२३॥

अथ राजयोगाः ।

लग्नकेन्द्रस्थिते सौम्ये धर्मे तुङ्गगृहाश्रिते ।
धनेशे केन्द्रभावस्थे योगः सिंहासनप्रदः ॥१२४॥

भाग्ये शुभेक्षिते केन्द्रे शुभैः सह धनाधिपे ।
उच्चग्रहे द्वितीयस्थे जन्म सिम्हासनप्रदम् ॥१२५॥

लग्नवाहनभाग्येशाः कर्मस्थाः कर्मपस्तनौ ।
लग्नं पश्यति वा खेटः सिंहासनफलप्रदः ॥१२६॥

कर्मलग्नसुखाधीशाः कर्मस्थानगता यदि ।
कर्मपो लग्नसम्बन्धी सिंहासनपतिर्भवेत् ॥१२७॥

गुरुशुक्रशुभाधीशाः केन्द्रकोणयगा यदि ।
अनेकयानसम्पन्नो मण्डलाधिपतिर्भवेत् ॥१२८॥

थानेशकर्मोपगतौ बलिष्टौ धर्मेशदृष्टौ यदि तद्युतौ वा ।
परस्परक्षेत्रसमागतौ वा सिंहासनप्राप्तिकरौ भवेताम् ॥१२९॥

तद्दशान्तर्द्दशाकाले तद्राशिपदशागमे ।
तदीशभुक्तिसम्प्रासौ सिंहासनपतिर्भवेत् ॥१३०॥

अथ भाग्यविचारः ।

शुभोदयेशौ सुखरावातौ सुखाधिपो लग्नगतः शुभर्क्षे ।
अतीव सौख्यं समुपैति नित्यं सपत्नयातू यदि शत्रुभाग्यम् ॥१३१॥

सपत्नभावाधिपतौ तपःस्थे शुभैरदृष्टे बलसंयुते वा ।
स्वकीयभाग्यादिकमल्पकालं ददाति शत्रौ उखनाथदाये ॥१३२॥

सुखाधिपे शोभनखेटयुक्ते तदीयपाकान्तमरातिगं तत् ।
पापान्विते तस्य दशावसाने पुनः स्वभाग्यं समुपैति सर्वम् ॥१३३॥

अथ क्षेत्रविचारः ।

चेत्रस्थाने शुभक्षेत्रे तदीशे शुभसंयुते ।
तत्कारके तथा प्राप्ते बहुक्षेत्रधनान्वितः ॥१३४॥

क्षेत्रेश्वरे नीचसम्पन्नभागे कालाग्निशूलान्तकषष्टिभागे ।
पापान्विते पापमीक्षिते वा क्षेत्रादिनाशं कथयन्ति तज्ङ्य़ाः ॥१३५॥

लग्नाधिपस्य गृहपो शत्रुखेटस्तत्पाकभुक्तिसमये गृहभूमिनाशम् ।
यनेशभुक्तिसमये निजबन्धुहानिः शान्यारमान्दियुतभुक्तिरनर्थहेतुः ॥१३६॥

वित्तेशः ससुखाधिपो नवमगः सौम्यान्वितः सौम्यभे
निक्षेपं समुपैति लाभवनपौ पापालराशिस्थितौ ।
तन्नाथः शुभराशिगः शुभयुतो निक्षेपसिद्धिर्भवे-
लत्वाभेशः सुखराशिगः शुभयुतो निक्षेपवित्तप्रदः ॥१३७॥

अथ गृहविचारः ।

अर्थव्ययगृहाधीशा नाशगाः पापसंयुताः ।
यावाद्भिरशुभैर्युक्तास्तावद्गेहालसत्वदाः ॥१३८॥

पापेऽरौ वा पाप्दृष्टे सुखे गेहसुखार्तिभाक् ।
नीचेऽरातौ वा पापदृष्टे सुखे स्याद्गृहो नरः ॥१३९॥

नीचेऽस्तगे वा गेहस्थे दुःखाम्भोधौ पतिष्यति ।
सुखे पापे पापभाक् स्यात् सुखे मन्दे सुखक्षयः ॥१४०॥

गृहेशे व्ययगे लग्नादेन्यगेहेऽन्यदेसगः ।
रन्ध्रे गृहाद्यभावो वा षष्ठे ङ्य़ात्यदिसंग्रहः ॥१४१ ॥

अयत्नतो मन्दिरलाभदः स्यत् चतुर्थपस्तत्र बलाधिको वा ।
दुःस्थानगो दुष्टबलान्वितश्चेदालस्यगेहं ग्रहपीडितं वा ॥१४२॥

घट्त्रिव्ययाष्टमोपेता व्ययवित्तगृहाधिपाः ।
यावत्पापसमोपेतास्तावद्गृहविनाशदाः ॥१४३॥

लग्नत्रिकोनकेन्द्रस्था यावद्बलसमन्विताः ।
तावत्संख्य्कगेहानां सामीचीन्यं वदेद् बुधः ॥१४४॥

चतुर्थभावाधिपतौ विलग्नाद्वययस्थिते जिर्णगृहं समेति ।
त्रिकोणकेन्द्रेपगते बलाढ्ये विचित्रगेहं रुचिरं तदाहुः ॥१४५॥

तृतीये सौम्यसम्युक्ते गेहेशे बलसंयुते ।
गोपुराद्यांशगे वाऽपि समेति दृढमन्दिरम् ॥१४६॥

आङ्य़ाक्रियाक्षेत्रविनाशमाहुराङ्य़ेश्वरे गेहगते सपापे ।
क्रूरांशके मृत्युकरादिभाग् रन्ध्रेश्वरेणापि युते तथैव ॥१४७॥

तृतीये सय्म्यसंयुक्ते ग्षेशे स्वबलान्विते ।
लग्नेशे बलसम्पूर्णे हम्ये प्राकाररसंयुतम् ॥१४८॥

पारावतांशके गेहनाथे गुविन्दुवीक्षिते ।
गोपुराद्यंशके  वाऽपि दैविकं गृहमादिशेत् ॥१४९॥

इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजात द्वादशोऽध्यायः ॥१२॥


अथ पङ्चमषष्ठभावफलाध्यायः ॥१३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-12-12T08:12:10.0430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

subpoena

  • न. (a writ commanding the perosn designated in it to attend court under a penalty for failure) साक्षीसमन्स 
  • पु. सपोना 
  • न. साक्षीसमन्स 
  • पु. सपोना 
More meanings
RANDOM WORD

Did you know?

vastudoshavar udakshant ha paryay ahe ka ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.